उत्तरखण्डः - अध्यायः ७५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच-
गंडिकायास्तु माहात्म्यं वक्ष्ये देवि विधानतः
यथा गंगा तथा सा च कथिता नगनंदिनि ॥१॥
शालग्रामशिला यत्र जायते बहुधा तथा
माहात्म्यं चैव तस्याश्च कथितं मुनिसत्तमैः ॥२॥
अंडजा उद्भिजा यत्र स्वेदजाश्च जरायुजाः
यस्या दर्शनमात्रेण पुण्यरूपास्तु पार्वति ॥३॥
उत्तरे सा तु संभूता गंडिका तु महानदी
संस्मृता संस्मृता नूनं पापं हंत्यगनंदिनि ॥४॥
यत्र नारायणो देवो नित्यं तिष्ठति भूतिदः
शंखचक्रधरास्तस्य समीपे निवसंति ये ॥५॥
ते मृत्युं समनुप्राप्य दिव्यरूपाश्चतुर्भुजाः
ऋषयस्तत्र तिष्ठंति देवाश्चैवं विशेषतः ॥६॥
रुद्रा नागास्तथा यक्षा नात्र कार्या विचारणा
तस्याः समीपे ह्येकोऽयं स्थलो वै विष्णुरूपधृक् ॥७॥
स्थलेऽस्मिन्वर्तते मूर्तिर्बहुरूपातिमुक्तिदा
चतुर्विंशतिभूतानां जातयः संति तत्र वै ॥८॥
एका वै मत्स्यरूपा च कृष्णरूपातिमुक्तिदा
अन्या च या बुधैः प्रोक्ता स्थले वै विष्णुसंज्ञके ॥९॥
कल्किनाम्नी तथा पुण्या कपिला या मयोदिता
अन्यास्तु विविधाकारा दृश्यंते बहुधा अपि ॥१०॥
तिष्ठंति मूर्त्तयः सर्वा नानारूपा ह्यनेकशः
सा गंगा महती पुण्या धर्मकामार्थमुक्तिदा ॥११॥
यस्यां भूमौ हृषीकेशो नियमेन समन्वितः
वर्त्ततेऽद्यापि तत्रैव मया सह न संशयः ॥१२॥
भ्रूणहत्या बालहत्या गोहत्या च विशेषतः
यस्याः स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषात् ॥१३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्यजातयः
सर्वे ते वै विमुच्यंते दर्शनाद्गंडिकांबुनः ॥१४॥
इयं वेणी समा पुण्या पापिनां तु विशेषतः
मुच्यते ब्रह्महा यत्र इतरेषां तु का कथा ॥१५॥
सर्वदा सर्वकाले तु अहं गच्छामि पार्वति
तीर्थानां तीर्थराजोऽयं ब्रह्मणा भाषितः किल ॥१६॥
तत्र स्नानं च दानं च मुनिभिः परिकल्पितम्
आषाढे पुण्यकाले तु तत्र गच्छामि सुंदरि ॥१७॥
मासैकविधिना चैव स्नानं तत्र करोम्यहम्
तारकं तत्र विशदं जपामि तु निरंतरम् ॥१८॥
अतोऽहं वैष्णवो जातो विष्णुक्षेत्रे यतोगतः
विष्णुना निर्मितं पूर्वं क्षेत्रं तत्तु महत्तरम् ॥१९॥
वैष्णवानां च गतिदं पावनं परमं स्मृतम्
भवेऽस्मिन्मानुषे जन्म दुर्लभं देवि सर्वदा ॥२०॥
दुर्लभं गण्डिकातीर्थं विष्णुक्षेत्रं तु दुर्लभम्
अतो ह्याषाढमासे तु गंतव्यं द्विजसत्तमैः ॥२१॥
तत्र गत्वा विशेषेण शंखचक्रादिधारणम्
कर्त्तव्यं तु द्विजश्रेष्ठैः पवित्रं परमं स्मृतम् ॥२२॥
शंखतीर्थं तु वामे वै दक्षिणे चक्रचिह्नितम्
द्विजानां मुक्तिदं प्रोक्तं धारितव्यं प्रयत्नतः ॥२३॥
ब्राह्मणैश्च विशेषेण शंखचक्रादिधारणं
धृते सति महादेवि वैष्णवास्ते हि मानवाः ॥२४॥
न गण्डिका समं तीर्थं न व्रतं द्वादशीसमम्
न देवः केशवादन्यो भूयोभूयो वरानने ॥२५॥
गंडिकायास्तु माहात्म्यं ये शृण्वंति नरोत्तमाः
इहलोके सुखं भुक्त्वा विष्णुलोके हि यांति ते ॥२६॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे गंडिकातीर्थमाहात्म्यंनाम पंचसप्ततितमोऽध्यायः ॥७५॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP