उत्तरखण्डः - अध्यायः ५७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
युधिष्ठिर उवाच -
नभस्यस्य सिते पक्षे किंनामैकादशी भवेत्
को देवः को विधिस्तस्य एतदाख्याहि केशव ॥१॥
श्रीकृष्ण उवाच-
कथयामि महीपाल कथामाश्चर्यकारिणीम्
कथयामास यां ब्रह्मा नारदाय महात्मने ॥२॥
नारद उवाच-
कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते
नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत्
एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै ॥३॥
ब्रह्मोवाच-
वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया
नातः परतरा लोके पवित्रा हरिवासरात् ॥४॥
पद्मा नामेति विख्याता नभस्यैकादशी सिता
हृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम् ॥५॥
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥६॥
मांधाता नाम राजर्षिर्विवस्वद्वंशसंभवः
बभूव चक्रवर्ती स सत्यसंधः प्रतापवान् ॥७॥
धर्मतः पालयामास प्रजाः पुत्रानिवौरसान्
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा ॥८॥
निरातंकाः प्रजास्तस्य धनधान्यसमेधिताः
न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते ॥९॥
स्वस्वधर्मे प्रवर्त्तंते सर्वे वर्णाश्रमास्तथा
कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः ॥१०॥
तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः
अथैकस्मिंश्च संप्राप्ते विपाकः कर्मणः खलु ॥११॥
वर्षत्रयं तद्विषये न ववर्ष बलाहकः
तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः ॥१२॥
स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः
बभूव विषयस्तस्या भाग्येन दैवपीडितः
अथ प्रजाः समागम्य राजानमिदमब्रुवन् ॥१३॥
प्रजा ऊचुः -
श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया
आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः ॥१४॥
अयनं भगवतस्तस्मान्नारायण इति स्मृतः
पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः ॥१५॥
स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः
तदभावे नृपश्रेष्ठ क्षयं गच्छंति वै प्रजाः
तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत् ॥१६॥
राजोवाच-
सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित्
अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम् ॥१७॥
अन्नाद्भवंति भूतानि जगदन्नेन वर्तते
इत्येवं श्रूयते लोके पुराणे बहुविस्तरे ॥१८॥
नृपाणामपचारेण प्रजानां पीडनं भवेत्
नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् ॥१९॥
तथापि प्रयतिष्यामि प्रजानां हितकाम्यया
इति कृत्वा मतिं राजा परिमेयपरिच्छदः ॥२०॥
नमस्कृत्य विधातारं जगाम गहनं वनम्
चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान् ॥२१॥
ददर्शाथ ब्रह्मसुतमृषिमांगिरसं नृपः
तेजसा द्योतितदिशं द्वितीयमिव पद्मजम् ॥२२॥
तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात्
नमश्चक्रेऽस्य चरणौ कृतांजलिपुटो वशी ॥२३॥
मुनिस्तमभिनंद्याथ स्वस्तिवाचनपूर्वकम्
पप्रच्छ कुशलं राज्ये सप्तस्वंगेषु भूपतेः ॥२४॥
निवेदयित्वा कुशलं पप्रच्छानामयं नृपः
दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य संनिधौ ॥२५॥
प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम् ॥२६॥
राजोवाच-
भगवन्धर्मविधिना मम पालयतो महीम्
अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम् ॥२७॥
संशयच्छेदनायात्र आगतोऽहं तवांतिके
योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् ॥२८॥
ऋषिरुवाच-
एतत्कृतयुगं राजन्युगानामुत्तमं मतम्
अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः ॥२९॥
अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः
विषये तव राजेंद्र वृषलोऽयं तपस्यति ॥३०॥
एतस्मात्कारणाच्चैव न वर्षति बलाहकः
कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति ॥३१॥
राजोवाच-
नाहमेनं वधिष्यामि तपस्यंतमनागसम्
धर्मोपदेशं कथय उपसर्गविनाशनम् ॥३२॥
ऋषिरुवाच-
यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम्
नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता ॥३३॥
तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम्
सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी ॥३४॥
अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः
इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः ॥३५॥
भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत्
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः ॥३६॥
एवं व्रते कृते राजन्प्रववर्ष बलाहकः
जलेन प्लाविता भूमिरभवत्सस्यशालिनी ॥३७॥
ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे
एतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम् ॥३८॥
दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे
वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ॥३९॥
नमो नमस्ते गोविंद बुधश्रवणसंज्ञक
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥४०॥
भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः
पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते ॥४१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदशुक्ला पद्मैकादशीनाम ॥५७॥
N/A
References : N/A
Last Updated : November 19, 2020
TOP