संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २०९

उत्तरखण्डः - अध्यायः २०९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
सौभरे कस्य तीर्थस्य माहात्म्यं नारदो मुनिः
वर्णयामास शिबये शक्रतीर्थगतस्य च ॥१॥
अतस्तु मम शुश्रूषा जायते मुनिपुंगवः
शिविनारदसंवादं ब्रूहि पुण्यं नताय मे ॥२॥
सौभरिरुवाच-
धर्मराज शिबीराजा श्रुत्वा नारदवर्णितम्
द्वारकायास्तु माहात्म्यं तमेवापृच्छदादरात् ॥३॥
शिबिरुवाच-
ब्रह्मांगज सुरश्रेष्ठ श्रुतं माहात्म्यमुत्तमम्
इंद्रप्रस्थतटस्थाया द्वारकाया मयाद्भुतम् ॥४॥
अयोध्यायां यदि मुने किंचिदस्ति पवित्रकम्
चरितं मम तद्ब्रूहि पिपासोस्त्वद्वचोऽमृतम् ॥५॥
नारद उवाच-
अस्त्यत्र चरितं पुण्यं महापातकनाशनम्
नापितस्याद्ययुक्तस्य मुकुंदस्य द्विजस्य च ॥६॥
ब्रह्महा नापितो राजन्नपमृत्युं गतो द्विजः
प्रसादात्कोशलायास्तु द्वावपि स्वर्गतिं गतौ ॥७॥
चंद्रभागा नदी तीरे पुरी सा च निवेशिता
तत्रास्ति नापितः पापश्चंडकोनाम गर्हितः ॥८॥
चौर्येण परवित्तानामपहर्ता स पापकृत्
घातकः शस्त्रपाशाद्यैः पांथानामवलुंठकः ॥९॥
द्यूतमद्यरतो नित्यं परस्त्रीलंपटेंद्रियः
भित्वा देवालयं भित्तिमिष्टिका ग्राव विक्रयी ॥१०॥
स तस्योद्वसिताभ्यासे ब्राह्मणो वसति श्रिया
संयुक्तो ब्रह्मकर्मज्ञो मुकुंदो नामतो नृप ॥११॥
स एकदा समालिंग्य तरुणीमात्मयोषितम्
सुष्वाप सुरतायास श्लथांगो निशि निर्भयम् ॥१२॥
स चंडको निशीथेऽथ प्रविवेश तदालयम्
मुकुंदस्य समाहर्तुं हर्म्ये भूषादि वस्तु यत् ॥१३॥
उपकार्या बहिस्थं यत्तद्गृहीत्वोऽगमद्गृहम्
स्वकीयं च पुनस्तस्य ब्राह्मणस्याविशद्गृहम् ॥१४॥
कपाटोत्पाटनार्थी तु यत्नेन महताऽभवत्
लोहयंत्रावरुद्धश्च स नोद्धाटयितुं क्षमः ॥१५॥
आरुरोह तदा तस्य ब्राह्मणस्याविशद्गृहम्
प्रविश्य तद्गृहं क्रूरः कृपणं पाणिनादधत् ॥१६॥
अट्टालिकां स पापिष्ठो नापितस्तस्करक्रियः
तत्रापश्यत्प्रसुप्तौ तौ दंपतीरतिविह्वलौ ॥१७॥
जगाम च तयोः पार्श्वे हेमभूषाजिघृक्षया
शय्याया एकदेशस्थं गृहीत्वा भूषणं बहु ॥१८॥
हर्तुं तदंगतो हस्तं प्रससार स नापितः
तस्करस्पर्शतो विप्रो जजागार भयातुरः ॥१९॥
न किंचिदूचे संमील्य नेत्रे तत्रैव संस्थितः
यदा स तस्करः पापो गृहीत्वा देहभूषणम् ॥२०॥
चलितः स तदा तेन दोर्भ्यामात्तो द्विजेन हि
पश्चादागत्य वित्तस्यासहमानेन संक्षयम् ॥२१॥
तेनापि नृप चौरेण कृपाणेन हतो द्विजः
विदीर्णोदरमध्यस्तु तातमातरितीरयन् ॥२२॥
वदंतः किंकिमेत्येतत्पार्श्वं तस्या ययुर्जनाः
ददृशुस्तं निःसृतांत्रं रुधिरालिप्तविग्रहम् ॥२३॥
पप्रच्छुश्च मुकुंदेदं कर्म केनेदृशं कृतम्
सोऽपि कृच्छ्रेण महता प्रोवाचेदं स्वबांधवान् ॥२४॥
मुकुंद उवाच-
ममैव परिपाकोऽयं पूर्वोपार्जितकर्मणाम्
न कश्चित्सुखदुःखस्य दाता कस्यापि देहिनः ॥२५॥
धर्मोऽधर्मश्च तावेव तेषां मूलं पुराकृतौ
नारद उवाच-
इत्युक्त्वा स तु भूयस्यापीडया गाढपीडितः ॥२६॥
तत्याज भूपते प्राणान्पश्यतां सुहृदां तदा
विललाप तदा तस्य माता द्विजसती नृप ॥२७॥
निधाय तच्छिरः स्वांके कुंडलाभ्यामलंकृतम्
मातोवाच-
हा हतास्मि त्वया वत्स दशामंत्यां च गच्छता ॥२८॥
दिनश्रीरिव सूर्येण पश्चिमाचललंबिना
यदंगं चंदनालेपयोग्यं तव महामते ॥२९॥
मां मज्जयार्तिशोकाब्धौ तदिदं धूलिधूसरम् ॥३०॥
तांबूलचर्वणेभ्यासो यस्त्वया विहितस्त्वसौ
स एव रुधिरोद्गार मिश्रेण क्रियते ध्रुवम्
तव ये लोचने पूर्वं जिग्यतुः कमलश्रियम् ॥३१॥
त एव सांप्रतं जाते तिमिरौघा वृते इव
उत्तिष्ठोत्तिष्ठ वत्स त्वं शिष्यानध्यापयात्मनः ॥३२॥
यथावद्वैश्वदेवांते पूजयातिथिमागतम्
द्वारि स्थिता वयस्यास्ते त्वाह्वयंति प्रयाहि तान् ॥३३॥
दातव्यं यद्ददस्वैभ्यो गृहीतव्यं गृहाण तत्
हाहा देहि प्रतिवचः पतामि तव पादयोः ॥३४॥
नोचेदहं विमोक्ष्यामि प्राणांस्तव समीपतः
नारद उवाच-
इत्युक्त्वा मूर्छिता तस्य मुकुंदस्य प्रसूस्तदा ॥३५॥
भार्या तस्य शिरः स्वांके विधाय व्यलपच्च सा
भार्योवाच-
नाममार्गेण पाथोधे मदीयं वचनं शृणु ॥३६॥
रुष्टोऽसि चेत्समं मात्रा कुतो वद ममाग्रतः
न कदाचित्त्वया साधो मौनमीदृक्कृतं पुरा
केनापि लघुना भ्रात्रा ह्यपमानः कृतस्तव ॥३७॥
शुकोऽयं पंजरस्थस्ते नान्नमत्ति त्वया विना
भोजयैनं सुसिद्धान्नं कलवाचं च सारिकाम् ॥३८॥
रामराम हरेकृष्ण विष्णो नामावलीमिति
पाठयोत्तिष्ठ निपुणौ द्वावेतौ सारिकाशुकौ ॥३९॥
अपराद्धं मया किं ते यत्वं मां नाभिभाषसे
यत्त्वया मे धनं दत्तं तन्मया साधुरक्षिणम् ॥४०॥
अर्पितं यत्त्वया नाथ निजतेजो ममोदरे
सूतिकालमहं तस्य नोपेक्षे त्वामनुव्रजे ॥४१॥
नारद उवाच-
एवं विलप्य सा तस्य मुकुंदस्य प्रिया तदा
न रुरोद स्वभर्तारमनुगंतुमना सती ॥४२॥
अथ तस्य मुकुंदस्य गुरुर्वेदायनाभिधः
संन्यासी पर्यटन्पृथ्वीं तस्य वेश्म ययौ नृप ॥४३॥
मुकुंदः क्व गतो माता भार्या तस्य च धीमतः
न दृश्यते तदा तेन पृष्टेत्याचष्ट चेटिका ॥४४॥
चेटिकोवाच
स्वामिन्केनापि चौरेण मम स्वामी हतो निशि
स्नुषाया भूषणं नीतं दुकूलानि च सर्वशः ॥४५॥
स मृतः पतितो भूमौ हर्म्यस्योपरि तिष्ठति
तस्य माता वधूश्चैव भ्रातरश्च तदंतिके ॥४६॥
विलपंति महाशोकसागरे पतिता गुरो
नारद उवाच-
इत्याकर्ण्य परिव्राट्स वचनं चेटिकोदितम् ॥४७॥
आरुह्य हर्म्यमद्राक्षीदात्मांते वासिनं मृतम्
तदंतिके समालोक्य बंधूनां क्रंदतो भृशम् ॥४८॥
उद्धरिष्यन्निदं धीरः शोकाब्धेस्तानुवाच ह
वेदायन उवाच-
देहमुद्दिश्य वात्मानं शोकोऽयं क्रियते त्वया ॥४९॥
मातः कथय सत्यं मे नोभयोर्युज्यते हि सः
देहोऽयं भूतसंघातः प्रारब्धेः समुपार्जितः ॥५०॥
तेषु क्षीणेषु भूतानां पृथक्त्वमुपजायते
यदेकीभवनं तेषां कर्मभिर्जन्म तन्नृणाम् ॥५१॥
तन्नाशे तत्पृथक्त्वं च तदेव मरणं स्मृतम्
एक्यं पृथक्त्वं भूतानां कर्मार्धा नेयतो? बुधैः ॥५२॥
अतो देहे न कर्तव्यः शोकः परवशे जडे
अनाद्यविद्यया जीवे दृष्टे मरणजन्मनी ॥५३॥
देहस्यात्मन्यहं बुद्ध्या मन्यते नहि तत्र ते
तन्निवृत्तौ स तद्ब्रह्म यच्छुद्धं रूपवर्जितम् ॥५४॥
स्वप्रकाशं जगद्धेतु हेत्वतीतं गुणोर्जितम्
नित्यं विज्ञानमानंद स्वभासा भासयज्जगत् ॥५५॥
न जिह्वा लेढि तच्चक्षुर्न पश्यति शृणोति न
श्रुतिर्जिघ्रति न घ्राणं न त्वक्स्पृशति कर्हिचित् ॥५६॥
अतीतमिंद्रियेभ्यस्तत्स्वप्रकाशकमात्मदृक्
अविषयं मनोदूरं बुद्धेरपि न गोचरम् ॥५७॥
तस्यावताररूपाणि शुद्धसत्वानि देवताः
सेवंते तन्न जानंति रूपं यत्सदसत्परम् ॥५८॥
एवं स्वरूपमात्मा यस्तं समुद्दिश्य कः कुधीः
क्रोधं कुर्याद्यतस्तस्य नोत्पत्तिर्नैव संक्षयः ॥५९॥
इति श्रीपाद्मेमहापुराणे पचंपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये नवाधिकद्विशततमोऽध्यायः ॥२०९॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP