संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १०१

उत्तरखण्डः - अध्यायः १०१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
ते गणाधिपतीन्दृष्ट्वा नंदीभमुखषण्मुखान्
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः ॥१॥
नंदिनं कालनेमिश्च शुंभो लंबोदरं तथा
निशुंभः षण्मुखं वेगादभ्यधावत दंशितः ॥२॥
निशुंभः कार्तिकेयस्य मयूरं पंचभिः शरैः
हृदि विव्याध वेगेन मूर्छितः स पपात च ॥३
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः
तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत् ॥४॥
ततो नंदीश्वरो बाणैः कालनेमिमविध्यत
सप्तभिश्च हयान्केतूंस्त्रिभिः सारथिमच्छिनत् ॥५
कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नंदिनः
तदपास्य सशूलेन तं वक्षस्य हनद्दृढम् ॥६॥
सशूलभिन्नहृदयो हताश्वो हतसारथिः
अद्रेः शिखरमामुच्य शैलाद्रिं सोऽप्यपातयत् ॥७॥
अथ शुंभो गणेशश्च रथमूषकवाहनौ
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥८
अथ शुंभं गणाध्यक्षो हृदि विव्याध पत्रिणा
सारथिं पंचभिर्बाणैः पातयामास भूतले ॥९॥
ततः शुंभोऽतिक्रुद्धोऽपि बाणषष्ट्या गणाधिपम्
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ॥१०॥
मूषकः शरभिन्नांगश्चचाल कृतवेदनः
लंबोदरः समुत्तीर्य पदातिरभवन्नृप ॥११॥
ततो लंबोदरः शुंभं हत्वा परशुना हृदि
अपातयत्तदा भूमौ मूषकं चारुहत्पुनः ॥१२॥
कालनेमिर्निशुंभश्च उभौ लंबोदरं शरैः
युगपज्जघ्नतुः कोपात्तोत्रेणेव महाद्विपम् ॥१३॥
तं पीड्यमानमालोक्य वीरभद्रो महाबलः
अभ्यधावत वेगेन भूतकोटियुतस्तदा ॥१४॥
कूष्मांडा भैरवाश्चापि वेताला योगिनीगणाः
पिशाचा योगिनीसंघा गणाश्चापि तमन्वयुः ॥१५॥
ततः किलकिलाशब्दैः सिंहनादैः सघुर्घुरैः
विनादिता डमरुकैः पृथिवी समकंपत ॥१६॥
ततो भूतानि धावंति भक्षयंति स्म दानवान्
उत्पतंति पतंति स्म ननृतुश्चरणांगणे ॥१७॥
नंदी च कार्तिकेयश्च समायातौ त्वरान्वितौ
निजघ्नतू रणे दैत्यान्निरंतर शरव्रजैः ॥१८॥
छिन्नभिन्नाह तैर्दैत्यैः पातितैर्भर्त्सितैस्तथा
व्याकुला सा भवत्सेना विषण्णवदना तदा ॥१९॥
प्रविध्वस्तां ततः सेनां दृष्ट्वा सागरनंदनः
रथेनातिपताकेन गणानभिययौ बली ॥२०॥
हस्त्यश्वरथसंह्रादः शंखभेरीरवस्तदा
अभवत्सिंहनादश्च सेनयोरुभयोस्तदा ॥२१॥
जालंधरशरव्रातैर्नीहारपटलैरिव
द्यावापृथिव्योराच्छन्नमंतरं समपद्यत ॥२२॥
गणेशं पंचभिर्विध्वा शैलाद्रिमपि पंचभिः
वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥२३॥
कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरः
व्याघूर्णः शक्तिनिर्भिन्नः किंचिद्व्याकुलमानसः ॥२४॥
ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः
गदया ताडयामास स च भूमितलेऽपतत् ॥२५॥
तथैव नंदिनं वेगादपातयत भूतले
ततो गणेश्वरः क्रुद्धो गदां परशुनाच्छिनत् ॥२६॥
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम्
सप्तभिश्च हयान्केतून्धनुश्छन्नं च चिच्छिदे ॥२७॥
ततोऽतिक्रुद्धो दैत्येंद्रः शक्तिमुद्यम्य दारुणाम्
गणेशं पातयामास रथमन्यं समारुहत् ॥२८॥
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः
ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् ॥२९॥
वीरभद्रस्तस्य हयांस्तथा बाणैरपातयत्
धनुश्चिच्छेद दैत्येंद्रो युयुधे परिघायुधः ॥३०
स वीरभद्रं त्वरयाभिगम्य जघान दैत्यः परिघेन मूर्ध्नि
स चापि दैत्यः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन् ॥३१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनापराभवोनाम एकाधिकशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP