संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १०२

उत्तरखण्डः - अध्यायः १०२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
पतितं वीरभद्रं तु दृंष्ट्वा रुद्रगणा भयात्
आगतास्ते रणं हित्वा क्रोशमाना महेश्वरम् ॥१॥
अथ कोलाहलं श्रुत्वा गणानां चंद्रशेखरः ॥२॥
अभ्ययाद्वृषमारूढः संग्रामं प्रहसन्निव
रुद्रमायां तमालोक्य सिंहनादैर्गणाः पुनः ॥३॥
निवृत्ताः संगरे दैत्यान्निजघ्नुः शरवृष्टिभिः
दैत्याश्च भीषणं रुद्रं दृष्ट्वा सर्वे विदुद्रुवुः ॥४॥
कार्त्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात्
अथ जालंधरो दैत्यान्विद्रुतान्प्रेक्ष्य संगरे ॥५॥
रोषादधावच्चंडीशं मुंचन्बाणान्सहस्रशः
शुंभो निशुंभोऽश्वमुखः कालनेमिर्बलाहकः ॥६॥
खड्गरोमा प्रचंडश्च घस्मरश्च शिवं ययुः
बाणांधकारसंच्छन्नं दृष्ट्वा गणबलं शिवः ॥७॥
तद्बाणजालं विच्छिद्य स्वबाणैरावृणोन्नभः
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ॥८॥
प्रचंडजालबाणौघैरपातयत भूतले
खड्गरोम्णः शिरः कोपात्तथा परशुनाच्छिनत् ॥९॥
बलाहकस्य च शिरः खंट्वागेनाकरोद्द्विधा
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनाद्भुवि ॥१०॥
वृषभेण हताः केचित्केचिद्बाणैर्निराकृताः
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता यथा ॥११॥
ततः कोपपरीतात्मा वेगाद्रुद्रं जलंधरः
आह्वयामास समरे तीव्राशनिसमस्वनः ॥१२॥
जलंधर उवाच-
युध्यस्वाद्य मया सार्द्धं किमेभिर्निहितैस्तव
यच्च किंचिद्बलं तेऽस्ति तद्दर्शय जटाधर ॥१३॥
नारद उवाच
इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम्
तानप्राप्तान्शितैर्बाणैश्चिच्छेद प्रहसन्निव ॥१४॥
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः
सच्छिन्नधन्वा विरथो गदामादाय वीर्यवान् ॥१५॥
अभ्यधावच्छिवस्तावद्गदाबाणैर्द्विधाकरोत्
तथापि मुष्टिमुद्यम्य ययौ रुद्रजिघांसया ॥१६॥
तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः
ततो जालंधरो दैत्यो मत्वा रुद्रं बलाधिकम् ॥१७॥
ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम्
ततो जगुश्च ननृतुर्गंधर्वाप्सरसांगणाः ॥१८॥
तालवेणुमृदंगांश्च वादयंतः परस्परम्
तं दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः ॥१९॥
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः
एकाग्रभूतमालोक्यरुद्रं दैत्यो जलंधरः ॥२०॥
कामार्त्तः सञ्जगामाशु यत्र गौरी स्थिताभवत्
युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबलौ ॥२१॥
दशदोर्दंडपंचास्यस्त्रिनेत्रश्च जटाधरः
महावृषभमारूढः स बभूव जलंधरः ॥२२॥
अथ रुद्रं समायांतमालोक्य भववल्लभा
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥२३॥
यावद्ददर्श चार्वगीं पार्वतीं दनुजेश्वरः
तावत्स वीर्यं मुमुचे जडांगश्चाभवत्तदा ॥२४॥
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला
जगामांतर्हिता तावत्सा तदोत्तरमानसम् ॥२५॥
तामदृष्ट्वा तदा दैत्यः क्षणाद्विद्युल्लतामिव
जवेनायात्पुनर्युद्धं यत्र देवो वृषध्वजः ॥२६॥
पार्वत्यपि महाविष्णुं सस्मार मनसा तदा
तावद्ददर्श तं देवी सोपविष्टं समीपगम् ॥२७॥
पार्वत्युवाच
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम्
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥२८॥
श्रीभगवानुवाच-
तेनैव दर्शितः पंथा वयमप्यन्वयामहे
नान्यथा स भवेद्वध्यः पातिव्रत्यात्सुरक्षितः ॥२९॥
नारद उवाच-
जगाम विष्णुरित्युक्त्वा पुनर्जालंधरं पुरम्
अथ रुद्रश्च गंधर्वानुगतः संगरे स्थितः ॥३०
अंतर्द्धानगतां मायां दृष्ट्वा तु बुबुधे तदा
ततः शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ॥३१॥
स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ॥३२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यकपटवर्णनोनाम द्व्यधिकशततमोऽध्यायः ॥१०२॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP