उत्तरखण्डः - अध्यायः ९८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारद उवाच-
पुनर्दैत्यं समायांतं दृष्ट्वा देवाः सवासवाः
भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥१॥
देवा ऊचुः
नमो मत्स्यकूर्मादि नानास्वरूपैः सदाभक्तकार्योद्यतायार्तिहंत्रे
विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्तायतेऽस्तु ॥२॥
रमावल्लभायासुराणां निहंत्रे भुजंगादिनाथाय पीतांबराय
मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥३॥
नमो दैत्यसंतापिता मर्त्यदुःखाचलध्वंस दंभोलये विष्णवेते
भुजंगेशतल्पेशयायार्कचंद्र द्विनेत्राय तस्मै नतास्मो नताः स्मः ॥४॥
नारद उवाच-
संकष्टनाशनं स्तोत्रं नित्यं यस्तु पठेन्नरः
स कदाचिन्नसंकष्टै पीड्यते कृपया हरेः ॥५॥
इति देवाः स्तुतिं यावत्कुर्वंति दनुजद्विषः
तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा ॥६॥
सहसोत्थाय दैत्यारिः कृपया खिन्नमानसः
आरुह्य गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत् ॥७॥
विष्णुरुवाच-
जलंधरेण ते भ्रात्रा देवानां कदनं कृतम्
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः ॥८॥
लक्ष्मीरुवाच-
अहं ते वल्लभा नाथ भक्ता च यदि सर्वदा
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥९॥
श्रीभगवानुवाच-
रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि
प्रीत्या च तव नैवायं मम वध्यो जलंधरः ॥१०॥
नारद उवाच-
इत्युक्त्वा गरुडारूढः शंखचक्रगदासिभृत्
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवंति ते ॥११॥
अथारुणानुजात्युग्रपक्षवातप्रपीडिताः
वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः ॥१२॥
ततो जलंधरो दृष्ट्वा दैत्यान्वात्या प्रपीडितान्
नोवाच वचनं क्रोधात्ततो विष्णुं समभ्ययात् ॥१३॥
ततः समभवद्युद्धं विष्णुदैत्येंद्रयोर्महत्
आकाशं कुर्वतोर्बाणैरंते निरवकाशवत् ॥१४॥
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं च्छत्रं धनुर्हयान्
चिच्छेद तं च हृदये बाणेनैकेनताडयन् ॥१५॥
ततो दैत्यं समुत्पत्य गदापाणिस्त्वरान्वितः
आगत्य गरुडं मूर्ध्नि पातयामास भूतले ॥१६॥
विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव
तावत्स सुहृदे विष्णुं जघान दृढमुष्टिना ॥१७॥
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ॥१८॥
एवं सुरुचिरं युद्धं कृत्वा विष्णुः प्रतापवान्
उवाच दैत्यराजानं मेघगंभीरया गिरा ॥१९॥
विष्णुरुवाच-
वरं वरय दैत्येंद्र प्रीतोऽस्मि तव विक्रमात्
अदेयमपि ते दद्मि यत्ते मनसि वर्तते ॥२०॥
जलंधर उवाच-
यदि भावुकतुष्टोऽसि वरमेतं ददस्व मे
मद्भगिन्या सह तया मद्गृहे सगणो वस ॥२१॥
नारद उवाच-
तथेत्युक्त्वा स भगवान्सर्वदेवगणैः सह
जलंधरं नाम पुरमगमद्रमया सह ॥२२॥
जलंधरश्च देवानामधिकारेषु दानवान्
स्थापयित्वा सहर्षः सन्पुनरागान्महीतले ॥२३॥
देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंज्ञितम्
तदात्मवशगं कृत्वा तिष्ठत्सागरनंदनः ॥२४॥
पातालभवने दैत्यं निशुंभं च महाबलम्
स्थापयित्वा स शेषादीननयद्भूतलं बली ॥२५॥
देवगंधर्वसिद्धौघान्यक्षरासमानुषान्
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ॥२६॥
एवं जलंधरः कृत्वा देवांश्च वशवर्त्तिनः
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् ॥२७॥
न कश्चित्व्याधितो नैव दुःखितो न कृशस्तथा
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥२८॥
एवं महीं शासति दानवेंद्रे धर्मेण सम्यक्च यदृच्छयाहम्
कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम् ॥२९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलंधरप्रवेशोनाम अष्टनवतितमोऽध्यायः ॥९८॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP