उत्तरखण्डः - अध्यायः १४३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
एकधारं ततो गच्छेत्तीर्थं परमपावनम्
एकधारे नरः स्नात्वा एकरात्रमुपोषितः ॥१॥
अर्चयन्स्वामिदेवेशं कुलानां तारयेच्छतम्
स्वामितीर्थसमं ज्ञेयं यत्र तीर्थेऽवगाहनम् ॥२॥
रुद्रलोके नरो गच्छेत्तीर्थस्यास्य प्रभावतः
यत्र स्नात्वा च पीत्वा च ब्रह्मलोके च गच्छति ॥३॥
त्रैलोक्ये पुण्यकर्माणस्तटेऽस्मिन्संवसंति हि ॥४॥
न भयं विद्यते तेषां खड्गधारादिकं च यत्
सत्सर्वमाशु नश्येत तीर्थे ह्येकप्रधारके ॥५॥
इति एकधारतीर्थवर्णनम्
सप्तधारं ततो गच्छेत्तीर्थानां तीर्थमुत्तमम्
सप्तसारस्वतं नाम यत्कृते मुनिभिः कृतम् ॥६॥
त्रेतायुगे मंकितीर्थं कृतं मंकि महर्षिणा
द्वापरे पांडुपुत्रैस्तु सप्तधारं प्रवर्तितम् ॥७॥
सप्तधारकतां प्राप्तं तीर्थं हरजटा च्युतम्
सप्तरूपाणि गंगाया यामि लोकेषु सप्तसु ॥८॥
वहंति तानि पुण्यानि तीर्थेऽस्मिन्सप्तधारके
सप्तधारे कृतं श्राद्धं पितॄणां तृप्तिदायकम् ॥९॥
शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम्
यच्छ्रुत्वा देवदेवेशि ब्रह्मलोकं व्रजेद्ध्रुवम् ॥१०॥
कौषीतकस्य पुत्रो वै मंकि नामेति विश्रुतः
विष्णुध्यानरतो नित्यं विष्णुलोकप्रपूजकः ॥११॥
वेदाध्ययनकर्ता च अग्निहोत्रपरायणः
सुरूपा विश्वरूपेति स्त्रियौ द्वेस्तस्तु तद्गृहे ॥१२॥
ताभ्यां पुत्रविहीनाभ्यां दृष्ट्वा देविविशंकितः
किंकर्तव्यमिति ध्यायन्नति चिंतापरोऽभवत् ॥१३॥
स्थिरो वंशस्तु पुत्रेण ह्यन्यथा नरकं व्रजेत्
एवं चिंतां प्रकुर्वाणो न सुखं लभते क्वचित् ॥१४॥
तदा स्वगृहमुत्सृज्य गतो वै गुरुसन्निधौ
नमो वै गुरुवे तुभ्यं देवानामुपकारिणे ॥१५॥
त्वं नाथः सर्वलोकानां ब्राह्मणानां च रक्षकः
यज्ञानां त्वं प्रकर्त्ता च द्विजराज नमोस्तु ते ॥१६॥
अपुत्रोऽहं तु विप्रर्षे किं कर्त्तव्यमिति प्रभो
वद त्वं तु यथा सर्वं पुत्रो भवति निश्चितम् ॥१७॥
अपुत्रस्य गतिर्नास्ति स्वर्गे नैव च नैव च
येनकेनाप्युपायेन पुत्रस्य जननं चरेत् ॥१८॥
इति वाक्यं तु संस्मर्य्य ह्यागतस्तव सन्निधौ ॥१९॥
गुरुरुवाच
गच्छ त्वं मुनिशार्दूल यत्र साभ्रमती नदी
तत्र गत्वा मुनिश्रेष्ठ पुत्रान्वै प्राप्स्यसे ध्रुवम् ॥२०॥
तद्वाक्यं तु समाकर्ण्य नमस्कृत्वा तु दंडवत्
स गतो विप्रराजस्तु नदीं साभ्रमतीं प्रति ॥२१॥
मंकिनामा तु विप्रर्षिस्तत्र गत्वा तपो महत्
अतप्यत तदा देवि यावद्वर्षचतुष्टयम् ॥२२॥
यत्र तीर्थं कृतं तेन मंकिना ब्रह्मवादिना
त्रेतायुगे तदा देवि तदा तीर्थं महाद्भुतम् ॥२३॥
जातं तत्र न संदेहः पुत्रदं सार्वकामिकम्
अद्यापि मंकितीर्थाभं न भूतं न भविष्यति ॥२४॥
स वै द्विजवरो मंकिः पुत्रान्प्राप्य यथासुखम्
भोगान्नानाविधान्भुक्त्वा स गतो मंदिरं मम ॥२५॥
एतदाख्यानकं दिव्यं पवित्रं परमं महत्
पुत्रसौख्यादिकं सर्वं लभते श्रवणादतः ॥२६॥
इति श्रीपाद्मे महापुराणे पंचापंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे सप्तधारतीर्थमहिमानाम त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥१४३॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP