संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १९४

उत्तरखण्डः - अध्यायः १९४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
एवं संप्रार्थितो विप्रास्तया भक्त्यातिदीनया
यतश्चाकथयं तद्वै तच्छृणुध्वं दयालवः ॥१॥
नारद उवाच-
मा खिदस्त्वं वृथा बाले समाधाय मनो हृदि
श्रीकृष्णचरणांभोजं स्मर सौख्यं लभिष्यसि ॥२॥
द्रौपदी च परित्राता येन कौरवकश्मलात्
पालिता गोपसुंदर्यः स कृष्णः क्वापि नो गतः ॥३॥
त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका
त्वयाहूतस्तु भगवान्याति नीचगृहेष्वपि ॥४॥
सत्यादि त्रियुगे बोधो विरागो मुक्तिसाधकौ
कलौ तु केवला भक्तिर्ब्रह्मसायुज्यकारिणी ॥५॥
इति निश्चित्य विद्रूपी स्वकां गात्त्वां ससर्ज ह
परमानंदचिन्मूर्तिः स्वप्रियां प्रीतमानसः ॥६॥
बध्वांजलि त्वया पृष्टः किं करोमीति वै हरिः
त्वां तदाज्ञापयत्कृष्णो मद्भक्तान्पोषयेति च ॥७॥
अंगीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा
मुक्तिदासीं ददौ तुभ्यं ज्ञानवैराग्य आत्मजौ ॥८॥
भक्तानां पोषणं नित्यं वैकुंठस्था करोषि च
भूमौ च भक्तपोषाय छायारूपं समाश्रिता ॥९॥
विमुक्ति ज्ञानवैराग्यैः सह चैवागतात्र हि
कृतादिद्वापरांते हि काले मुक्ति मुदास्थिता ॥१०॥
कलौ तु संक्षयं प्राप्ता पाषंडामयपीडिता
त्वदाज्ञया गता शीघ्रं वैकुंठे पुनरेव सा
स्मृतमात्रा त्वयाद्यापि मुक्तिरायाति सत्वरम् ॥११॥
पुत्रीकृत्य त्वयैमौ च स्वपार्श्वे परिरक्षितौ
उपेक्षातः कलौ मंदौ वृद्धौ जातौ सुतौ तव ॥१२॥
तथापि चिंतां मुंचत्वमुपायं चिंतयाम्यहम्
कलिना सदृशः कोऽपि युगो नास्ति वरानने ॥१३॥
तस्मिंस्त्वां ख्यापयिष्यामि गेहे गेहे जने जने
अन्यधर्मांस्तिरस्कृत्य पुरस्कृत्य महोत्सवान् ॥१४॥
यदि प्रवर्त्तये न त्वां तदा दासो हरेर्नहि
त्वदन्विताश्च ये जीवा भविष्यंति कलाविह ॥१५॥
पापिनोऽपि गमिष्यंति निर्भया हरिमंदिरम्
येषां चित्ते भवेद्भक्तिः सर्वदा प्रेमरूपिणी ॥१६॥
न ते पश्यंति कीनाशं स्वप्नेऽप्यमलमूर्त्तयः
न प्रेतो न पिशाचो वा राक्षसो वासुरोपि च ॥१७॥
भक्तियुक्तमनस्कानां स्पर्शने दर्शने प्रभुः
न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा ॥१८॥
हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः
नृणां जन्मसहस्रेण भक्तिः सुकृतिनां भवेत् ॥१९॥
कलौ भक्तिः कलौ भक्तिर्भक्त्याकृष्णः पुरः स्थितः
भक्तिद्रोहकरा ये च ते सीदंति जगत्त्रये ॥२०॥
दुर्वासा दुःखमापन्नः पुरा भक्तिविनिंदकः
अलं वृत्तैरलंतीर्थैरलं योगैरलं मखैः ॥२१॥
अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा
एवमुक्तं मया सा तु स्वमाहात्म्यं निशम्य वै ॥२२॥
सर्वांगहर्षसंयुक्ता मां पुनर्वाक्यमब्रवीत्
अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला ॥२३॥
न कदाचिन्विमुंचामि चित्तं ते मयि संगतम्
कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् ॥२४॥
पुत्रयोश्चेतना नास्ति ममेमौ प्रतिबोधय
तस्यास्तद्वचनं श्रुत्वा कारुण्येनान्वितो ह्यहम् ॥२५॥
तयोः प्रबोधनं कर्तुं प्रवृत्तः पाणिना स्पृशन्
मुखं संसृज्य कर्णांते शब्दमुच्चैः समुच्चरन् ॥२६॥
ज्ञान प्रबुद्ध्य्तां शीघ्रं वैराग्यप्रतिबुध्यताम्
वेदवेदांतघोषैश्च गीता पाठैर्मुहुर्मुहुः ॥२७॥
बोध्यमानौ तदा तेन कथंचिद्बोधमागतौ
नेत्रैरनवलोकंतौ जृंभंतौ सालसावुभौ ॥२८॥
बकवत्पलितौ प्रायः शुष्ककाष्ठसमांगकौ
क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापमुपागतौ ॥२९॥
तदा चिंतापरोऽभूवं किं विधेयं मयेति च
अहो निद्रा कथं याति वृद्धत्वं चानयोः परम् ॥३०॥
चिंतयन्नित गोविंदं स्मरन्नासं द्विजोत्तमाः
व्योमवाणी तदैवाभून्मा ऋषे खिद्यतामिति ॥३१॥
उद्यमस्सफलस्ते तु भविष्यति न संशयः
एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर ॥३२॥
तत्कर्मतेऽभिधास्यंति साधवः साधुभूषणाः
सत्कर्मणि कृते तस्मिन्स्वपनं वृद्धतानयोः ॥३३॥
गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति
इत्याकाशवचः स्पष्टं निशम्यापि मया द्विजाः ॥३४॥
न ज्ञातं यन्नभोवाण्या गोप्यत्वेन निरूपितं
किं तत्कर्म च येनैतौ भवतो ज्ञानसंयुतौ ॥३५॥
क्व भविष्यंति ते संतः कथं वक्ष्यंति कर्म सत्
मयात्र किं प्रकर्त्तव्यं यदुक्तं व्योमभाषया ॥३६॥
अथ तौ तत्र संस्थाप्य निर्गतोऽहं बहिर्द्विजाः
वृंदारण्यादपृच्छं च यत्र तत्र द्विजोत्तमान् ॥३७॥
वृत्तांतं सर्व एवाथ श्रुत्वा विस्मितमानसाः
नैवोत्तरं प्रयच्छंति ह्यनभिज्ञानभोगिरः ॥३८॥
असाध्यं केचन प्रोचुराविज्ञेयमथापरे
मूकी बभूवुरन्ये तु चिंतयानाः पुनः पुनः ॥३९॥
वेदवेदांतघोषैश्च गीतापाठैर्मुहुर्मुहुः
बोध्यमानं त्रिकं तत्तु नोदतिष्ठदहो विधिः ॥४०॥
योगिना नारदेनापि स्वयं न ज्ञायते तु यत्
तत्कथं शक्यते कर्तुमितरैरिह मानुषैः
ततश्चिंतातुरश्चाहं बदरीवनमागतः ॥४१॥
तपश्चरामि चात्रैव तदर्थं कृतनिश्चयः
तावद्ददर्श पुरतः सनकाद्यान्मुनीश्वरान्
कोटिसूर्यसमाभासानुवाच मुनिसत्तमान् ॥४२॥
इदानीं भूरिभागेन भवतां दर्शनं ह्यभूत्
तदुपायं महाभागा वदंतु प्रीतमानसाः ॥४३॥
भवंतो योगिनां श्रेष्ठा बुद्धिमंतो बहुश्रुताः
कुमारा एवपंचाब्दाः पूर्वेषामपिपूर्वजाः ॥४४॥
सदा वैकुंठनिलया हरिकीर्त्तनतत्पराः
लीलामृतकथोन्मत्ता हरिस्मरणतत्पराः ॥४५॥
अतो हि कालदुहिता युष्मान्नैव प्रबाधते
येषां भ्रूभंगमात्रेण द्वारपालौ हरेः पुरा ॥४६॥
दैत्यौ भूत्वा त्रिजन्मानि पुनस्तत्स्थानमास्थितौ
अशरीरगिरोक्तं यत्किंतत्साधनमुच्यताम् ॥४७॥
अनुष्ठेयं यथा यत्र प्रब्रुवंतु कृपालवः
भक्तिज्ञानविरागाणांसुखमुत्पद्यतेयथा
ख्यातिर्वः सर्वलोकेषु तथा साधूच्यतां बुधाः ॥४८॥
कुमारा ऊचुः-
मा चिंतां कुरु देवर्षे स्वचित्ते हर्षमावह
उपायः सुखासाध्योऽत्र विद्यते विश्वसौख्यदः ॥४९॥
अहो नारद धन्योऽसि विरक्तानां शिरोमणिः
श्रीकृष्णप्रेमपात्राणामग्रणीर्वदतां वरः ॥५०॥
त्वयि चित्रं न देवर्षे भक्तिसाधनतत्परे
उचितं कृष्णदासानां भक्तेः संचारणं भुवि ॥५१॥
ऋषिभिर्बहुधा लोके उपायाः सिद्धये कृताः
श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ॥५२॥
वैकुंठसाधकः पंथा गुप्तो लोकेषु वर्त्तते
तस्योपदेशकः साधुः प्रायो भाग्येन लभ्यते ॥५३॥
यत्ते सत्कर्म निर्दिष्टं व्योमवाचा मुनीश्वर
तज्ज्ञेयमिह सर्वज्ञैर्ज्ञानयज्ञः पुरातनैः ॥५४॥
श्रीमद्भागवतालापो ज्ञानयज्ञः शुकोदितः
भक्तिज्ञानविरागाणां सुखदः प्रतिभाति नः ॥५५॥
कलिदोषा इमे सर्वे श्रीमद्भागवत ध्वनेः
प्रभीताः प्रलयायंते सिंहशब्दाद्वृका इव ॥५६॥
ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा
प्रतिगेहं प्रतिजनं सुखक्रीडां करिष्यति ॥५७॥
सूत उवाच-
कुमारोक्तं समाकर्ण्य नारदः प्रीतमानसः
पुनः प्रोवाच भगवांस्तदुत्कर्षं विभावयन् ॥५८॥
नारद उवाच-
वेदवेदांतघोषैश्च गीतापाठैः प्रबोधितम्
नोदतिष्ठत्त्रिकं तत्तु कलिदोषतिरस्कृतम् ॥५९॥
कथं भागवतालापात्तद्विबोधमिहैष्यति
छिंदंतु संशयं ह्येनं भवंतोऽमोघदर्शनाः ॥६०॥
विलंबो नात्र कर्त्तव्यः शरणागतवत्सलाः
ततस्ते सनकाद्यास्तु विरक्ता ह्यूर्द्ध्वरेतसः ॥६१॥
सिद्धाः सनातना विप्रा नारदं प्रोचुरादरात् ॥६२॥
कुमारा ऊचुः
वेदोपनिषदां साराज्जाता भागवती कथा
अत्युत्तमा ततो भाति पृथग्भूता फलोन्नतिः ॥६३॥
आमूलाग्रं रसोस्त्येव रसालस्य यथा फले
पृथग्भूतं तु पानेन यथा विश्वमनोहरः ॥६४॥
यथा दुग्धेस्थितं सर्पिर्न च स्वादूपकल्प्यते
पृथग्भूतं तु तद्दिव्यं देवानां प्रीतिवर्द्धनम् ॥६५॥
इक्षुष्विवादिमध्यांतं शर्करा व्याप्य तिष्ठति
पृथग्भूता तु सा मिष्टा तथा भागवती कथा ॥६६॥
श्रीमद्भागवतं नाम पुराणं रसमेव हि
भक्तिज्ञानविरागाणां सौख्यायैव प्रकाशितम् ॥६७॥
कृष्णेन ब्रह्मणे नाभिकंजस्थाय हृदैव हि
तच्चतुःश्लोकमखिलं ब्रह्मैव प्रतिभासते ॥६८॥
तुभ्यं च ब्रह्मणा प्रोक्तं तच्चरित्रनिदर्शनम्
त्वयापि व्यासदेवाय प्रोक्तं तत्तापहानये ॥६९॥
यदीयस्मरणात्सद्यो निर्विण्णो बादरायणः
चकार महदाख्यातुमात्माराम मनोहरम् ॥७०॥
अत्र ते विस्मयः केन येन पृच्छेः पुनः पुनः
श्रीमद्भागवतं शास्त्रं क्षमं कृष्णानुकर्षणे ॥७१॥
सूत उवाच-
एतन्निशम्य वचनं समुदाहृतं तु योगीश्वरैः सनकमुख्यतमैरभीष्टम्
भक्त्या विधृत्य चरणं च प्रणम्य मूर्ध्ना हृष्टो जगाद जगदाधिनिवर्त्तकांस्तान् ॥७२॥
नारद उवाच-
संदर्शनं च भवतां विनिहंत्यघौघं श्रेयस्तनोति भवदुःखदवार्दितानाम्
निःशेषशेषमुखगीतकथैकपानात्प्रेमप्रकाशनकृते शरणं गतो वः ॥७३॥
पुण्योदयेन बहुजन्मसमर्जितेन सत्संगमो यदि भवेत्कृतिनो जनस्य
अज्ञानहेतुकृतमोहमहांधकारो नश्येत्तदा ह्युदयमेति महान्विवेकः ॥७४॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्रयां संहितायामुत्तरखंडे
श्रीभागवतमाहात्म्ये चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP