उत्तरखण्डः - अध्यायः ५१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
युधिष्ठिर उवाच-
अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन
ज्येष्ठस्य शुक्लपक्षे तु स्याद्या तां वद मानद ॥१॥
श्रीकृष्ण उवाच-
एनां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः
सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदांगपारगः ॥२॥
युधिष्ठिर उवाच-
श्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया
द्वैपायन यथावत्त्वं वैष्णवान्वक्तुमर्हसि ॥३॥
श्रीवेदव्यास उवाच -
श्रुतास्तु मानवा धर्मा वैदिकाश्च श्रुतास्त्वया
कलौ युगे न शक्यंते ते वै कर्तुं नराधिप ॥४॥
सुखोपायमल्पधनमल्पक्लेशं महाफलम्
पुराणानां च सर्वेषां सारभूतं महामते ॥५॥
एकादश्यां न भुंजीत पक्षयोरुभयोरपि
द्वादश्यां तु शुचिर्भूत्वा पुष्पैः संपूज्य केशवम् ॥६॥
अन्नं भुंजीत सत्कृत्य पश्चाद्विप्रपुरःसरम्
सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप ॥७॥
यावज्जीवं व्रतमिदं कर्त्तव्यं पुरुषर्षभ
स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः ॥८॥
आपपापा दुराचाराः पापिष्ठा धर्मवर्जिताः
एकादश्यां न भुंजाना न ते यांति यमांतिकम् ॥९॥
इति तद्वचनं श्रुत्वा कंपितोऽश्वत्थपत्रवत्
भीमसेनो महाबाहुर्नत्वोवाच गुरुं प्रति ॥१०॥
भीमसेन उवाच-
पितामह महाबुद्धे शृणु मे परमं वचः
युधिष्ठिरश्च कुंती च तथा द्रुपदनंदिनी ॥११॥
अर्जुनो नकुलश्चैव सहदेवस्तथैव च
एकादश्यां न भुंजंति कदाचिदपि सुव्रताः ॥१२॥
ते मां ब्रुवंति वै नित्यं मा भुंक्ष्व त्वं वृकोदर
अहं तानब्रुवं तात बुभुक्षा दुःसहा मम ॥१३॥
दानं दास्यामि विधिवत्पूजयिष्यामि केशवम्
भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत् ॥१४॥
व्यास उवाच-
यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥१५॥
भीमसेन उवाच-
पितामह महाबुद्धे कथयामि तवाग्रतः
एकभक्ते न शक्नोमि उपवासे कुतः प्रभो ॥१६॥
वृकोऽपिनाम यो वह्निः स सदा जठरे मम
अतिवेलं यदाश्नामि तदा समुपशाम्यति ॥१७॥
नैकं शक्नोम्यहं कर्तुमुपवासं महामुने
येनैव प्राप्यते स्वर्गस्तत्कर्त्तास्मि यथातथम्
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥१८॥
व्यास उवाच-
वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत्
ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता ॥१९॥
गंडूषाचमनं वारि वर्जयित्वोदकं बुधः
उपभुंजीत नैवेह व्रतभंगोऽन्यथा भवेत् ॥२०॥
उदयादुदयं यावद्वर्जयित्वोदकं नरः
श्रूयतां समवाप्नोति द्वादशद्वादशी फलम् ॥२१॥
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत्
जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि ॥२२॥
भुंजीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी
एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत् ॥२३॥
संवत्सरे तु याश्चैव एकादश्यो भवंति हि
तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः ॥२४॥
इति मां केशवः प्राह शंखचक्रगदाधरः
सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत् ॥२५॥
एकादश्यां निराहारस्ततः पापात्प्रमुच्यते
द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त्त एव च ॥२६॥
वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे
किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः ॥२७॥
एकादश्यां न भुंजीत पक्षयोरुभयोरपि
एकादश्यां सिते पक्षे ज्येष्ठेमास्युदकं विना ॥२८॥
पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर
संवत्सरे तु या प्रोक्ताः शुक्लः कृष्णा वृकोदर ॥२९॥
उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः
धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा ॥३०॥
उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते
यमदूता महाकायाः करालाः कृष्णरूपिणः ॥३१॥
दंडपाशधरा रौद्रा नोपसर्पंति तं नरम्
पीतांबरधरा सौम्याश्चक्रहस्ता मनोजवाः ॥३२॥
अंतकालेन यंत्येते वैष्णवान्वैष्णवीपुरीम्
तस्मात्सर्वप्रयत्नेन उपोष्योदकवर्जिता ॥३३॥
जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते
ततस्त्वमस्यां कौंतेय सोपवासोऽर्चनं हरेः ॥३४॥
कुरु सर्वप्रयत्नेन सर्वपापप्रशांतये
स्वप्नेन मेऽपराधोस्ति दंतरागतयापि वा ॥३५॥
भोक्ष्येपरेऽह्नि देवेश ह्यशनं वासराद्धरेः
इत्युच्चार्य ततो मंत्र उपवासपरो भवेत् ॥३६॥
सर्वपापविनाशाय श्रद्धा दम समन्वितः
मेरुमंदरमात्राघं स्त्रिया पुंसा च यत्कृतम् ॥३७॥
सर्वं तद्भस्मतां याति एकादश्याः प्रभावतः
न शक्नुवंति ये दातुं जलधेनुं नराधिप ॥३८॥
सकांचनः प्रदातव्यो घटको वस्त्रसंयुतः
तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक् ॥३९॥
फलं कोटिसुवर्णस्य यामेयामे श्रुतं फलम्
स्नानं दानं जपं होमं यदस्यां कुरुते नरः ॥४०॥
तत्सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम्
किं वापरेण धर्मेण निर्जलैकादशीं विना ॥४१॥
उपोष्य सम्यग्विधिवद्वैष्णवं पदमाप्नुयात्
सुवर्णमन्नं वासो वा यदस्यां संप्रदीयते ॥४२॥
तदस्य कुरुशार्दूल सर्वं चाप्यक्षयं भवेत्
एकादश्यां दिने योऽन्नं भुंक्ते पापं भुनक्ति सः ॥४३॥
इहलोके स चांडालो मृतः प्राप्नोति दुर्गतिम्
ये च दास्यंति दानानि द्वादश्यां समुपोषिताः ॥४४॥
ज्येष्ठमासे सिते पक्षे प्राप्स्यंति परमं पदम्
ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदानृती ॥४५॥
मुच्यंते पातकैः सर्वैर्निर्जलायैरुपोषिता
विशेषं शृणु कौंतेय निर्जलैकादशी दिने ॥४६॥
यत्कर्त्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः
जलशायी च संपूज्यो देया धेनुस्तथाम्मयी ॥४७॥
प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा
दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः ॥४८॥
तोषणीयाः प्रयत्नेन द्विजा धर्मभृतां वर
तुष्टा भवंति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः ॥४९॥
आत्मद्रोहः कृतस्तैर्हि यैरेषा न ह्युपोषिता
पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः ॥५०॥
कुलानां शतमागामि अतीतानां तथा शतम्
आत्मना सह तैर्नीतं वासुदेवस्य मंदिरम् ॥५१॥
शांतैर्दांतैर्दानपरैरर्चयद्भिस्तथा हरिम्
कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता ॥५२॥
अन्नं वस्त्रं तथा गावो जलं शय्यासनं शुभम्
कमंडलुं तथा छत्रं दातव्यं निर्जला दिने ॥५३॥
उपानहौ यो ददाति पात्रभूते द्विजोत्तमे
स सौवर्णेन यानेन स्वर्गलोके महीयते ॥५४॥
यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत्
उभौ तौ स्वर्गमाप्नोति नात्र कार्या विचारणा ॥५५॥
यत्फलं संनिहत्यायां राहुग्रस्ते दिवाकरे
कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि ॥५६॥
नियमं च प्रकर्त्तव्यं दंतधावनपूर्वकम्
एकादश्यां निराहारो वर्जयिष्यामि वै जलम् ॥५७॥
केशवप्रीणनार्थाय अन्यदाचमनादृते
द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः ॥५८॥
गंधैर्धूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः
पूजयित्वा विधानेन मंत्रमेतमुदीरयेत् ॥५९॥
देवदेव हृषीकेश संसारार्णवतारक
उदकुंभप्रदानेन नय मां परमां गतिम् ॥६०॥
ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा
निर्जला समुपोष्यात्र जलकुंभान्सशर्करान् ॥६१॥
प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ
ततः कुंभाः प्रदातव्या ब्राह्मणानां च भक्तितः ॥६२॥
भोजयित्वा ततो विप्रान्स्वयं भुंजीत तत्परः
एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम् ॥६३॥
सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम्
ततः प्रभृति भीमेन कृता ह्येकादशी शुभा
पांडवद्वादशी नाम्ना लोके ख्याता बभूव ह ॥६४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितयामुत्तरखंडे
उमापतिनारदसंवादे ज्येष्ठशुक्ला निर्जलैकादशीनामैकपंचाशत्तमोऽध्यायः ॥५१॥
N/A
References : N/A
Last Updated : November 18, 2020
TOP