उत्तरखण्डः - अध्यायः १३७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच
अथ नंदिप्रदेशात्तु यथा साभ्रमती नदी
समायाता विकीर्णं च वनं विप्रर्षिसेवितम् ॥१॥
बहुधा जलवेगेन पर्वतानां च रोधसः
सप्तधा प्रविभक्ता च दक्षिणोदधिगामिनी ॥२॥
आद्या साभ्रमती पुण्या द्वितीया सेटिका तधा
तृतीया वल्किनी पुण्या चतुर्थी च हिरण्मयी ॥३॥
सर्वपापहरा प्रोक्ता हस्तिमत्यथ पंचमी
वेत्रवती सा च षष्ठी वृत्रेण निर्मिता पुरा ॥४॥
इयं सा परमा देवी वृत्रकूपाद्विनिःसृता
वेत्रवती ततो जाता महापापप्रणाशिनी ॥५॥
भद्रामुखी शुभप्राया सप्तमी लोकपावनी
एतैस्तु सप्तभिर्देवि तांस्तान्जनपदांस्तथा ॥६॥
पवित्रीकृत्य चैकेन सप्तस्रोता प्रतिष्ठिता
विकीर्णतीर्थे यः श्राद्धं पितॄनुद्दिश्य दास्यति ॥७॥
गयापिंडप्रदानस्य फलं यत्तद्भविष्यति
अवकीर्णा च्युता ये च लुप्तपिंडोदकक्रियाः ॥८॥
ते विकीर्णे प्रमुच्यंते दत्तपिंडोदकक्रियाः
तत्र श्राद्धं तु यः कुर्याद्गाणपत्यं भवेद्ध्रुवम् ॥९॥
तस्मात्त्रयीविधानेन श्रद्धया श्राद्धमाचरेत्
अस्मिंस्तीर्थे विशेषेण सप्तनद्युदये द्विजाः ॥१०॥
स्नानं कुरुत विप्रेंद्रा ऋषिलोकमभीप्सवः
इत्युक्तं कश्यपेनाथ द्विजान्प्रति विशेषतः ॥११॥
यदि चेत्क्रियते स्नानं सर्वदुःखापहं सदा
तीर्थानां प्रवरं तीर्थं क्षेत्राणामुत्तमोत्तमम् ॥१२॥
तीर्थमेतद्विकीर्णं च शुभदं रोगदोषहृत्
कुर्वंत्यत्र विशेषेण ये स्नानं सर्वदा कलौ ॥१३॥
ते नराः पुण्यभाजो हि जायंते नात्र संशयः
गयातीर्थसमं तीर्थं विकीर्णं पावनं परम्
पितॄणां पुण्यदं नित्यं लोकानां दुःखनाशनम् ॥१४॥
इति विकीर्णतीर्थम्
तीर्थादस्मात्परं तीर्थं श्वेतोद्भवमनुत्तमम्
यत्र श्वेता नदी जाता मत्पृष्ठोदरभस्मना ॥१५॥
विश्रुता त्रिषु लोकेषु सर्वपापप्रणाशिनी
हरांगभस्मसंयोगात्जाता देवैस्तु मानिता ॥१६॥
तस्यां स्नातः शुचिर्दांतस्त्रिरात्रमुषितः पुमान्
महाकालेश्वरं दृष्ट्वा रुद्रलोके महीयते ॥१७॥
पिंडं पितृभ्यो यो दद्यात्तस्यास्तीरे कुशैस्तिलैः
सुतृप्ताः पितरस्तस्य भवंतीति न संशयः ॥१८॥
श्वेतगंगामहापुण्या दुःखदारिद्र्यमोचनी
यत्र स्नानेन भो देवि परं सुखमवाप्यते ॥१९॥
तस्या वै संगमे पुण्ये नित्यं तिष्ठामि पार्वति
येऽत्र दानं प्रकुर्वंति स्नानं च तत्र सुंदरि ॥२०॥
तदनंतफलं तस्य भवेद्वै नात्र संशयः
तत्र भूतेश्वरो देवः संगमे वसते ध्रुवम् ॥२१॥
तत्र धूपं च दीपं च पुष्पमारार्तिकं तथा
ये कुर्वंति नरश्रेष्ठास्ते नराः पुण्यरूपिणः ॥२२॥
बिल्वदलं समादाय यो ददाति शिवोपरि
वांच्छितं लभते नित्यं श्वेतायां शिवसंनिधौ ॥२३॥
इति श्रीपाद्मे महापुराणे पंचपंचात्साहस्र्यां संहितायामुत्तरखंडे
उमामहेश्वरसंवादे श्वेतातीर्थंनाम सप्तत्रिंशाधिकशततमोऽध्यायः ॥१३७॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP