संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ३२

उत्तरखण्डः - अध्यायः ३२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच-
दृष्ट्वा शतक्रतुं सिद्धं समाप्तवरदक्षिणम्
मघवा जातसंकल्पः पर्यपृच्छद्बृहस्पतिम् ॥१॥
भगवन्केन दानेन सर्वतः सुखमेधते
यदक्षयं महार्घं च तन्मे ब्रूहि महातपः ॥२॥
एवमिंद्रेण चोक्तोऽसौ देवदेवः पुरोहितः
प्रहस्य तं महाप्राज्ञो बृहस्पतिरुवाचह ॥३॥
हिरण्यदानं गोदानं भूमिदानं च वासव
एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥४॥
सुवर्णं रजतं वस्त्रं मणिरत्नं च वासव
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥५॥
फालकृष्टां महीं दत्वा सबीजां सस्यमालिनीम्
यावत्सूर्यकृतालोकस्तावत्स्वर्गेमहीयते ॥६॥
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्षितः
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥७॥
दशहस्तेन दंडोऽत्र त्रिंशद्दंडानि वर्तनम्
दशतान्येव गोचर्म्म ब्रह्मगोचर्मलक्षणम् ॥८॥
सवृषं गोसहस्रं तु यत्र तिष्ठत्ययंत्रितम्
बालवत्सप्रसूतानां तद्गोचर्म इति स्मृतम् ॥९॥
विप्राय दद्याच्च गुणान्विताय तपोयुताय प्रजितेंद्रियाय
यावन्मही तिष्ठति सागरांता तावत्फलं तस्य भवेदनंतम् ॥१०॥
यथाप्सु पतितः शक्र तैलबिंदुः प्रसर्पति
एवंभूमिकृतं दानं सस्ये सस्ये प्रसर्पति ॥११॥
यथाबीजानि रोहंति प्रचीर्णानि महीतले
एवं कामान्प्ररोहंति भूमिदानसमन्विताः ॥१२॥
अन्नदाः सुखिनो नित्यं वस्त्रदो रूपवान्भवेत्
स नरः सर्वदो भूयो यो ददाति वसुंधराम् ॥१३॥
यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी
एवं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम् ॥१४॥
शंखो भद्रासनं छत्रं वराश्ववरवारणाः
भूमिदानस्य पुण्यस्य फलं स्वर्गः पुरंदर ॥१५॥
आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः
शूलपाणिश्च भगवानभिनंदंति भूमिदम् ॥१६॥
आस्फोटयंति पितरो वर्णयंति पितामहाः
भूमिदाता कुले जातः स नस्त्राता भविष्यति ॥१७॥
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती
नरकादुद्धरंत्येते जपवापनदोहनात् ॥१८॥
दुर्गतिं तारयंत्येते विद्वद्भिर्विप्रधारणैः
प्रावृता वस्त्रदा यांति नग्ना यान्तित्ववस्त्रदाः ॥१९॥
तृप्ता यांत्यन्नदातारः क्षुधिता यांत्यनन्नदाः
कांक्षंति पितरः सर्वे नरकाद्भयभीरवः ॥२०॥
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥२१॥
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्
लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पांडुरः ॥२२॥
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते
नीलः पांडुरलांगूलस्तोयमुद्धरते तु यः ॥२३॥
षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः
यच्च शृंगगतं पंकं कुलं तिष्ठति चोद्धृतम् ॥२४॥
पितरस्तस्य चाश्नंति सोमलोकं महाद्युतिम्
आसीद्राज्ञो दिलीपस्य नृगस्य नहुषस्य च ॥२५॥
अन्येषां तु नरेंद्राणां पुनरन्यो न गच्छति
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ॥२६॥
यस्य यस्य यदा भूमिस्तस्यतस्य तदा फलम्
ब्रह्मघ्नो वाथ स्त्रीहंता बालघ्नः पतितोऽथवा ॥२७॥
गवां शतसहस्राणि हंता तत्तस्यदुःष्कृतम्
स्वदत्तां परदत्तां वा यो हरेत्तु वसुंधराम् ॥२८॥
स च विष्ठाकृमिर्भूत्वा पितृभिः सह पच्यते
षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ॥२९॥
प्रहर्ता चानुमंता च तावद्वै नरकं व्रजेत्
भूमिदाद्भूमिहर्तुश्च नापरः पुण्यपापवान् ॥३०॥
उर्द्ध्वाधस्तौ च तिष्ठेते यावदाभूतसंप्लवम् ॥३१॥
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुतास्तु गावः
तेषांमनंतं फलमश्नुवीत यः कांचनं गां च महीं च दद्यात् ॥३२॥
भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति
उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥३३॥
अन्यायेन हृता भूमिर्यैर्नरैरपहारिता
हरंतो हारयंतश्च हन्युस्ते सप्तमं कुलम् ॥३४॥
हरेद्धारयते यस्तु मंदबुद्धिस्तमोवृतः
स बद्धो वारुणैः पाशैस्तिर्यग्योनिषु जायते ॥३५॥
अश्रुभिः पतितैस्तेषां दानानामवकीर्त्तनम्
ब्राह्मणस्य हृते क्षेत्रे हतं त्रिपुरुषं कुलम् ॥३६॥
वापीकूपसहस्रेण अश्वमेधशतेन च
गवांकोटिप्रदानेन भूमिहर्ता न शुद्ध्यति ॥३७॥
कृतं दत्तं तपोऽधीतं यत्किंचिद्धर्मसंस्थितम्
अर्द्धांगुलस्य सीमाया हरणेन प्रणश्यति ॥३८॥
गोतीर्थं ग्रामरथ्यां च श्मशानग्राममेव च
संपीड्य नरकं याति यावदाभूतसंप्लवम् ॥३९॥
पंचकन्यानृते हंति दश हंति गवानृते
शतमश्वानृते हंति सहस्रं पुरुषानृते ॥४०॥
हंति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्
सर्वं भूम्यनृते हंति मास्म भूम्यनृतं वद ॥४१॥
ब्रह्मस्वे नो रतिं कुर्यात्प्राणैः कंठगतैरपि
अग्निदग्धाः प्ररोहंति ब्रह्मदग्धो न रोहति ॥४२॥
अग्निदग्धाः प्ररोहंति सूर्यदग्धास्तथैव च
राजदंडहताश्चैव ब्रह्मशापहता हताः ॥४३॥
ब्रह्मस्वेन च पुष्टानि अंगानि च मुहुर्महुः
कार्यकालेविशीर्यंते सिकताभि तपो यथा ॥४४॥
ब्रह्मस्वहरणं कुर्वन्नरो यातीह रौरवम्
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥४५॥
विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रिकम्
लोहचूर्णं चाश्मचूर्णं विषं संजरयेन्नरः ॥४६॥
ब्रह्मस्वं त्रिषु लोकेषु कः पुमान्जरयिष्यति
ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः ॥४७॥
तद्धनं कुलनाशाय भवत्यात्मविनाशनम्
ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य तु यद्धनम् ॥४८॥
गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेत्
श्रोत्रियाय कुलीनाय दरिद्राय च वासव ॥४९॥
संतुष्टाय विनीताय सर्वस्वसहिताय च
वेदाभ्यास तपो ज्ञानेंद्रियसंयमशालिने ॥५०॥
ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम्
आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ॥५१॥
भिनत्ति पात्रं दौर्बल्यान्न च पात्रं विनश्यति
एवं गां च हिरण्यं च वस्त्रमन्नं मही तिलान् ॥५२॥
अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत्
यस्तडागं नवं कुर्यात्पुराणं वापि खानयेत् ॥५३॥
सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते
वापीकूपतडागानि उद्यानप्रभवानि च ॥५४॥
पुनर्नीतानि संस्कारं ददते मौक्तिकं फलम्
निदाघकाले पानीय यस्य तिष्ठति वासव ॥५५॥
स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुयात्
एकाहं तु स्थितं तोयं पृथिव्यां देवसत्तम ॥५६॥
कुलानि तारयेत्तस्य सप्तसप्त परानपि
दीपालोकप्रदानेन वपुष्मान्स भवेन्नरः ॥५७॥
दक्षिणायाः प्रदानेन स्मृतिं मेधां च विंदति
कृत्वापि पातकं कर्म यो दद्यादनुसंधिने ॥५८॥
ब्राह्मणाय विशेषेण न स पापैर्हि लिप्यते
भूमेर्गावस्तथादासः प्रसह्य प्रहृता यदा ॥५९॥
न निवेदयते यस्तु तमाहुर्ब्रह्मघातकम्
उपस्थिते विवाहे च यज्ञे दाने च वासव ॥६०॥
मोहाच्चरति विघ्नं यः स मृतो जायते कृमिः
धनं फलति दानेन जीवितं जीवरक्षणात् ॥६१॥
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते
फलमूलाशनात्पूजां स्वर्गः सत्येन लभ्यते ॥६२॥
प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते
सुखाट्यः शक्रदीक्षायां सुगामी च तृणाशनः ॥६३॥
रूपी त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत्
नित्यस्नायी भवेद्दक्षः संध्यावेदजपान्वितः ॥६४॥
अहिंस्रो याति वैराज्यं नाकपृष्ठमनाशकम्
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ॥६५॥
रसानां प्रतिसंहारे पशून्पुत्रांश्च विंदति
नाके चिरं स वसति उपवासी च यो भवेत् ॥६६॥
सततं भूमिशायी यः स लभेदीप्सितां गतिम्
वीरासनं वीरशयं वीरस्थानमुपासतः ॥६७॥
अक्षयास्तस्यलोकाः स्युः सर्वकामगमास्तथा
उपवासं च दीक्षां च अभिषेकं च वासव ॥६८॥
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते
पावनं चरते धर्मं स्वर्गलोके महीयते ॥६९॥
बृहस्पतिमतं पुण्यं ये पठंति द्विजोत्तमाः
तेषां चत्वारि वर्द्धंते आयुर्विद्यायशोबलम् ॥७०॥
नारद उवाच-
इतींद्राय बृहस्पतिप्रणीतं धर्मशास्त्रकम्
मह्यं भक्ताय संप्रोक्तं महेशेनाखिलं नृप ॥७१॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे
उमापतिनारदसंवादे धर्मकथने द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP