उत्तरखण्डः - अध्यायः ९६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
पृथुरुवाच-
यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात्
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता ॥१॥
तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम्
कथं सातिप्रिया विष्णोर्देवदेवस्य शार्ङ्गिणः ॥२॥
कथमेषा समुत्पन्ना कस्मिंस्थाने च नारद
एतद्ब्रूहि समासेन सर्वज्ञोऽसि मतो हि मे ॥३॥
नारदउवाच-
पुरा रुद्रेण दैत्येंद्रे सिंधुसूनौ निपातिते
प्रणम्य शिरसा रुद्रं देवा ब्रह्मादयोऽब्रुवन्
शृणु राजन्प्रवक्ष्यामि माहात्म्यं तुलसीभवम् ॥४॥
सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते
पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम्
सर्वदेवैः परिवृतस्त्वप्सरोगणसेवितः ॥५॥
यावद्गतः शिवगृहं तावत्तत्राशु दृष्टवान्
पुरुषं भीमकर्माणं दंष्ट्रानयनभीषणम् ॥६॥
स पृष्टस्तेन कस्त्वं भो क्व गतो जगदीश्वरः
एवं पुनः पुनः पृष्टः स यदा नोचिवान्नृप ॥७॥
ततः क्रुद्धो वज्रपाणिस्तन्निर्भर्त्स्य वचोऽब्रवीत्
रे मया पृच्छमानोऽपि नोत्तरं दत्तवानसि ॥८॥
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते
इत्युदीर्य ततो वज्री वज्रेण चाहनद्दृढम् ॥९॥
तेनास्य कंठे नीलत्वमगाद्वज्रं च भस्मतां
ततो रुद्र प्रजज्वाल तेजसा प्रदहन्निव ॥१०॥
दृष्ट्वा बृहस्पतिस्तूर्णं कृतांजलिपुटोऽभवत्
इंद्रश्चदंडवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे ॥११॥
बृहस्पतिरुवाच-
नमो देवाधिदेवाय त्र्यंबकाय कपर्दिने
त्रिपुरघ्नाय शर्वाय नमोंधकनिषूदिने ॥१२॥
विरूपायातिरूपाय बहुरूपाय शंभवे
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने ॥१३॥
कालांतकाय कालाय कालभोगधराय च
नमो ब्रह्मशिरोहंत्रे ब्राह्मणाय नमो नमः ॥१४॥
नारद उवाच-
एवं स्तुतस्तदा शंभुः द्विजर्षभं जगाद ह
संहरन्नयनज्वालं त्रिलोकीदहनक्षमाम् ॥१५॥
वरं वरय भो ब्रह्मन्प्रीतः स्तुत्यानया तव
इंद्रस्यजीवदानेन जीवति त्वं प्रथां व्रज ॥१६॥
बृहस्पतिरुवाच-
यदि तुष्टोऽसि देव त्वं याहींद्रं शरणागतम्
अग्निरेष शमं यातु भालनेत्रसमुद्भवः ॥१७॥
ईश्वर उवाच-
पुनः प्रवेशमायाति भालनेत्रे कथं त्वयम्
एनं त्यक्ष्याम्यहं दूरे यथेंद्रं नैव पीडयेत् ॥१८॥
नारद उवाच-
इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणांभसि
सोऽपतत्सिंधुगंगायाः सागरस्य च संगमे ॥१९॥
तदा स बालरूपत्वमगात्तत्र रुरोद च
रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः ॥२०॥
स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतौ
श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः ॥२१॥
तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह
दृष्ट्वा ब्राह्मणमायांतं समुद्रोऽपि कृतांजलि ॥२२॥
प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयेत्
ततो ब्रह्माब्रवीद्वाक्यं कस्यायं शिशुरद्भुतः ॥२३॥
निशम्येति वचो धातुर्वाक्यं तु सागरोऽब्रवीत्
ब्रह्मा उवाच-
सरित्पते कुतो लब्धो बालो ह्येष महाबलः ॥२४॥
यस्य नादेन संत्रस्ता देवासुरमहोरगाः
समुद्र उवाच-
भो ब्रह्मन्सिधुगंगायां जातोऽयं मम पुत्रकः ॥२५॥
जातकर्मादि संस्कारान्कुरुष्वास्य जगद्गुरो
नारद उवाच-
इत्थं वदति पाथोधौ स बालः सागरात्मजः ॥२६॥
ब्रह्माणमग्रहीत्कूर्चे विधुन्वंतं मुहुर्मुहुः
धुन्वतस्तस्य कूर्चं तु नेत्राभ्यामागमज्जलम्
कथंचिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम् ॥२७॥
ब्रह्मोवाच-
नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम
तस्माज्जलंधर इति ख्यातो नाम्ना भवत्यसौ ॥२८॥
अधुनैवैष तरुणः सर्वशस्त्रास्त्रपारगः
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति ॥२९॥
याति यत्र समुद्भूतस्तत्रेदानीं गमिष्यति ॥३०॥
नारद उवाच-
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत्
आमंत्र्य सरितां नाथं ब्रह्मांतर्द्धानमन्वगात् ॥३१॥
अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा
कालनेमिसुतां वृंदां तद्भार्यार्थमयाचत ॥३२॥
ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः
स चापि तान्प्राप्यसुहृद्वरान्वशी शशास गां शुक्रसहायवान्बली ॥३३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालंधरोत्पत्तिवर्णनंनाम षण्णवतितमोऽध्यायः ॥९६॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP