संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १०५

उत्तरखण्डः - अध्यायः १०५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच
क्षिप्तेभ्यस्तत्रबीजेभ्यो वनस्पत्यस्त्रयोभवन्
धात्री च मालती चैव तुलसी च नृपोत्तम ॥१॥
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता
गौरीभवा च तुलसी तमः सत्त्व रजोगुणाः ॥२॥
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप
उत्तस्थौ संभ्रमाद्वृंदारूपातिशयमोहितः ॥३॥
ददर्श तास्तदा मोहात्कामासक्तेन चेतसा
तं चापि तुलसीधात्र्यौ रागेणैवावलोकताम् ॥४॥
यच्चलक्ष्म्यापुराबीजंमाययैवसमर्पितम्
तस्मात्तदुद्भवानारीतस्मिन्नीर्ष्यायुताभवत् ॥५॥
अतःसाबर्बरीत्याख्यामाधवस्यातिगर्हिता
धात्रीतुलस्यैतद्रा गात्तस्यप्रीतिप्रदेसदा ॥६॥
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु
वैकुंठमगमद्धृष्टः सर्वदेवनमस्कृतः ॥७॥
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते
तुलसीमूलदेशे तु प्रीतिदा सा यतः स्मृता ॥८॥
तुलसीकाननं राजन्गृहे यस्यावतिष्ठते
तद्गृहं तीर्थरूपं तु नायांति यमकिंकराः ॥९॥
सर्वपापहरं पुण्यं कामदं तुलसीवनम्
रोपयंति नरश्रेष्ठा न तेपश्यंति भास्करिम् ॥१०॥
दर्शनं नर्मदायास्तु गंगास्नानं तथैव च
तुलसीवनसंसर्गः सममेतत्त्रयं स्मृतम् ॥११॥
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम्
तुलसी दहते पापं वाङ्मनःकाय संचितम् ॥१२॥
तुलसीमंजरीभिर्यः कुर्याद्धरिहरार्चनम्
न स गर्भगृहं याति मुक्तिभागी न संशयः ॥१३॥
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा
वासुदेवादयो देवास्तिष्ठंति तुलसीदले ॥१४॥
तुलसीमंजरीयुक्तो यदि प्राणान्विमुंचति
विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम ॥१५॥
तुलसीमृत्तिकालिप्तो यस्तु प्राणान्विमुचंति
यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि ॥१६॥
तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः
तद्देहं नस्पृशेत्पापं क्रियमाणमपीह यत् ॥१७॥
तुलसीविपिनच्छाया यत्र यत्र भवेन्नृप
तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां दत्तमक्षयम् ॥१८॥
धात्रीछायासु यः कुर्यात्पिंडदानं नृपोत्तम
तृप्तिं च यांति पितरस्तस्य ये नरके स्थिताः ॥१९॥
मूर्ध्नि पाणौ मुखे चैव देहे च नृपसत्तम
धत्ते धात्रीफलं यस्तु स विज्ञेयो हरिः स्वयम् ॥२०॥
धात्रीफलं च तुलसीमृत्तिका द्वारकोद्भवा
यस्य देहे स्थिता नित्यं स जीवन्मुक्त उच्यते ॥२१॥
धात्रीफलविमिश्रैस्तु तुलसीदलमिश्रितैः
जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम् ॥२२॥
देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैरपि
सुवर्णपुष्पैर्विविधैरर्चनस्याप्नुयात्फलम् ॥२३॥
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके
नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलाश्रिते ॥२४॥
द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके
लुनाति स नरो गच्छेन्निरयानतिगर्हितान् ॥२५॥
धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति ॥२६॥
धात्रीमूले तु यो विष्णुं कार्तिकेऽर्चयते नरः
विष्णुक्षेत्रेषु सर्वेषु पूजितस्तेन सर्वदा ॥२७॥
धात्रीतुलस्योर्माहात्म्यमपिदेवश्चतुर्मुखः
न समर्थो भवेद्वक्तुं यथा देवस्यशार्ङ्गिणः ॥२८॥
धात्री तुलस्युद्भवकारणं च शृणोति यः श्रावयते च भक्त्या
विधूतपाप्मा सह पूर्वजैश्च स्वर्गं व्रजत्यग्र्यविमानसंस्थः ॥२९॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धात्रीतुलस्योर्माहात्म्यंनाम पंचाधिकशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP