संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १५१

रेवा खण्डम् - अध्याय १५१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
उत्तरे नर्मदाकूले तीर्थं परमशोभनम् ।
जयवाराहमाहात्म्यं सर्वपापप्रणाशनम् ॥१॥
उद्धृता जगती येन सर्वदेवनमस्कृता ।
लोकानुग्रहबुद्ध्या च संस्थितो नर्मदातटे ॥२॥
तत्र तीर्थे तु यः स्नात्वा वीक्षते मधुसूदनम् ।
मुच्यते सर्वपापेभ्यो दशजन्मानुकीर्तनात् ॥३॥
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्किश्च ते दश ॥४॥

युधिष्ठिर उवाच -
मत्स्येन किं कृतं तात कूर्मेण मुनिसत्तम ।
वराहेण च किं कर्म नरसिंहेन किं कृतम् ॥५॥
वामनेन च रामेण राघवेण च किं कृतम् ।
बुद्धरूपेण किं वापि कल्किना किं कृतं वद ॥६॥
एवमुक्तस्तु विप्रेन्द्रो धर्मपुत्रेण धीमता ।
उवाच मधुरां वाणीं तदा धर्मसुतं प्रति ॥७॥

श्रीमार्कण्डेय उवाच -
मीनो भूत्वा पुरा कल्पे प्रीत्यर्थं ब्रह्मणो विभुः ।
समर्पयत्समुद्धृत्य वन्दान्मग्नान्महार्णवे ॥८॥
अमृतोत्पादने राजन्कूर्मो भूत्वा जगद्गुरुः ।
मन्दरं धारयामास तथा देवीं वसुंधराम् ॥९॥
उज्जहार धरां मग्नां पातालतलवासिनीम् ।
वाराहं रूपमास्थाय देवदेवो जनार्दनः ॥१०॥
नरस्यार्द्धतनुं कृत्वा सिंहस्यार्द्धतनुं तथा ।
हिरण्यकशिपोर्वक्षो विददार नखाङ्कुशैः ॥११॥
जटी वामनरूपेण स्तूयमानो द्विजोत्तमैः ।
तद्दिव्यं रूपमास्थाय क्रमित्वा मेदिनीं क्रमैः ॥१२॥
कृतवांश्च बलिं पश्चात्पातालतलवासिनम् ।
स्थापयित्वा सुरान् सर्वान् गतो विष्णुः स्वकं पुरम् ॥१३॥
जमदग्निसुतो रामो भूत्वा शस्त्रभृतां वरः ।
क्षत्रियान् पृथिवीपालानवधीद्धैहयादिकान् ॥१४॥
कश्यपाय महीं दत्त्वा सपर्वतवनाकराम् ।
तपस्तपति देवेशो महेन्द्रेऽद्यापि भारत ॥१५॥
ततो दाशरथी रामो रावणं देवकण्टकम् ।
सगणं समरे हत्वा राज्यं दत्त्वा विभीषणे ॥१६॥
पालयित्वा नयाद्भूमिं मखैः संतर्प्य देवताः ।
स्वर्गं गतो महातेजा रामो राजीवलोचनः ॥१७॥
वसुदेवगृहे भूयः संकर्षणसहायवान् ।
अवतीर्णो जगन्नाथो वासुदेवो युधिष्ठिर ॥१८॥
सोऽवधीत्तव सामर्थ्याद्वधार्थं दुष्टभूभृताम् ।
चाणूरकंसकेशीनां जरासंधस्य भारत ॥१९॥
तेन त्वं सुसहायेन हत्वा शत्रून्नरेश्वर ।
भोक्ष्यसे पृथिवीं सर्वां भ्रातृभिः सह संभृताम् ॥२०॥
तथा बुद्धत्वमपरं नवमं प्राप्स्यतेऽच्युतः ।
शान्तिमान्देवदेवेशो मधुहन्ता मधुप्रियः ॥२१॥
तेन बुद्धस्वरूपेण देवेन परमेष्ठिना ।
भविष्यति जगत्सर्वं मोहितं सचराचरम् ॥२२॥
न श्रोष्यन्ति पितुः पुत्रास्तदाप्रभृति भारत ।
न गुरोर्बान्धवाः शिष्या भविष्यत्यधरोत्तरम् ॥२३॥
जितो धर्मो ह्यधर्मेण चासत्येन ऋतं जितम् ।
जिताश्चौरैश्च राजानः स्त्रीभिश्च पुरुषा जिताः ॥२४॥
सीदन्ति चाग्निहोत्राणि गुरौ पूजा प्रणश्यति ।
सीदन्ति मानवा धर्माः कलौ प्राप्ते युधिष्ठिर ॥२५॥
द्वादशे दशमे वर्षे नारी गर्भवती भवेत् ।
कन्यास्तत्र प्रसूयन्ते ब्राह्मणो हरिपिङ्गलः ॥२६॥
भविष्यति ततः कल्किर्दशमे जन्मनि प्रभुः ॥२७॥
एतत्ते कथितं राजन्देवस्य परमेष्ठिनः ।
कारणं दश जन्मनां सर्वपापक्षयंकरम् ॥२८॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्वेतवाराहतीर्थमाहात्म्यवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP