संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २९

रेवा खण्डम् - अध्याय २९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


युधिष्ठिर उवाच -
कावेरीति च विख्याता त्रिषु लोकेषु सत्तम ।
माहात्म्यं श्रोतुमिच्छामि तस्या मार्कण्ड तत्त्वतः ॥१॥
कीदृशं दर्शनं तस्याः फलं स्पर्शेऽथवा विभो ।
स्नाने जाप्येऽथवा दान उपवासे तथा मुने ॥२॥
कथयस्व महाभाग कावेरीसङ्गमे फलम् ।
धर्मः श्रुतोऽथ दृष्टो वा कथितो वा कृतोऽपि वा ॥३॥
अनुमोदितो वा विप्रेन्द्र पुनातीति श्रुतं मया ।
यथा धर्मप्रसङ्गे तु मुने धर्मोऽपि जायते ॥४॥
स्वर्गश्च नरकश्चैव इत्येवं वैदिकी श्रुतिः ॥५॥

श्रीमार्कण्डेय उवाच -
साधु साधु महाभाग यत्पृष्टोऽहं त्वयाधुना ।
शृणुष्वैकमना भूत्वा कावेरीफलमुत्तमम् ॥६॥
अस्ति यक्षो महासत्त्वः कुबेरोनाम विश्रुतः ।
सोऽपि तीर्थप्रभावेन राजन्यक्षाधिपोऽभवत् ॥७॥
तच्छृणुष्व विधानेन भक्त्या परमया नृप ।
सिद्धिं प्राप्तो महाभाग कावेरीसङ्गमेन तु ॥८॥
कावेर्या नर्मदायास्तु सङ्गमे लोकविश्रुते ।
तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः ॥९॥
विधिवन्नियमं कृत्वा शास्त्रयुक्त्या नरोत्तम ।
आराधयन्महादेवमेकचित्तः सनातनम् ॥१०॥
एकाहारो वसन्मासं तथा षष्ठाह्नकालिकः ।
पक्षोपवासी न्यवसत्कंचित्कालं नृपोत्तम ॥११॥
मूलशाकफलैश्चान्यं कालं नयति बुद्धिमान् ।
किंचित्कालं वसंस्तत्र तीर्थे शैवालभोजनः ॥१२॥
पराकेणानयत्कालं कृच्छ्रेणापि च मानद ।
चान्द्रायणेन चाप्यन्यमन्यं वाय्वम्बुभोजनः ॥१३॥
एवं तत्र नरश्रेष्ठ कामरागविवर्जितः ।
स्थितो वर्षशतं साग्रं कर्षयन्स्वं तथा वपुः ॥१४॥
ततो वर्षशतस्यान्ते देवदेवो महेश्वरः ।
तुष्टस्तु परया भक्त्या तमुवाच हसन्निव ॥१५॥
भोभो यक्ष महासत्त्व वरं वरय सुव्रत ।
परितुष्टोऽस्मि ते भक्त्या तव दास्ये यथेप्सितम् ॥१६॥

यक्ष उवाच -
यदि तुष्टोऽसि देवेश उमया सह शङ्कर ।
अद्यप्रभृति सर्वेषां यक्षाणामधिपो भवे ॥१७॥
अक्षयश्चाव्ययश्चैव तव भक्तिपुरःसरः ।
धर्मे मतिं च मे नित्यं ददस्व परमेश्वर ॥१८॥

ईश्वर उवाच -
यत्त्वया प्रार्थितं सर्वं फलं धर्मस्य तत्तथा ।
इत्येवमुक्त्वा तं तत्र जगामादर्शनं हरः ॥१९॥
सोऽपि स्नात्वा विधानेन संतर्प्य पितृदेवताः ।
आमन्त्रयित्वा तत्तीर्थं कृतार्थश्च गृहं ययौ ॥२०॥
पूजितस्तत्र यक्षैस्तु सोऽभिषिक्तो विधानतः ।
चकार विपुलं तत्र राज्यमीप्सितमुत्तमम् ॥२१॥
तत्र चान्ये सुराः सिद्धा यक्षगन्धर्वकिंनराः ।
गणाश्चाप्सरसां तत्र ऋषयश्च तथानघ ॥२२॥
कावेरीसङ्गमं तेन सर्वपापहरं विदुः ।
स्वर्गाणामपि सर्वेषां द्वारमेतद्युधिष्ठिर ॥२३॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
कावेरीसङ्गमे स्नात्वा यैर्दत्तं हि तिलोदकम् ॥२४॥
दश पूर्वे परे तात मातृतः पितृतस्तथा ।
पितरः पितामहास्तेन उद्धृता नरकार्णवात् ॥२५॥
तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः ।
अर्चयेदीश्वरं देवं यदीच्छेच्छाश्वतीं गतिम् ॥२६॥
कावेरीसङ्गमे राजन्स्नानदानार्चनं नरैः ।
कृतं भक्त्या नरश्रेष्ठ अश्वमेधाधिकं फलम् ॥२७॥
होमेन चाक्षयः स्वर्गो जपादायुर्विवर्धते ।
ध्यानतो नित्यमायाति पदं शिवकलात्मकम् ॥२८॥
अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नरेश्वर ।
अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥२९॥
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
तस्य पुण्यफलं यद्वै तच्छृणुष्व नरोत्तम ॥३०॥
गन्धर्वाप्सरःसंकीर्णे विमाने सूर्यसन्निभे ।
वीज्यमानो वरस्त्रीभिर्दैवतैः सह मोदते ॥३१॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
क्रीडते रुद्रलोकस्थस्तदन्ते भुवि चागतः ॥३२॥
भोगवान्दानशीलश्च जायते पृथिवीपतिः ।
आधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥३३॥
एवं गुणगणाकीर्णा कावेरी सा सरिन्नृप ।
त्रिषु लोकेषु विख्याता नर्मदासङ्गमे सदा ॥३४॥
जितवाक्कायचित्ताश्च ध्येयध्यानरतास्तथा ।
कावेरीसङ्गमे तात तेऽपि मोक्षमवाप्नुयुः ॥३५॥
शृणु तेऽन्यत्प्रवक्ष्यामि आश्चर्यं नृपसत्तम ।
त्रिषु लोकेषु का त्वन्या दृश्यते सरिता समा ॥३६॥
लब्धं यैर्नर्मदातोयं ये च कुर्युः प्रदक्षिणम् ।
ये पिबन्ति जलं तत्र ते पुण्या नात्र संशयः ॥३७॥
न तेषां सन्ततिच्छेदो दश जन्मानि पञ्च च ।
तेषां पापं विलीयेत हिमं सूर्योदये यथा ॥३८॥
गङ्गायमुनसङ्गे वै यत्फलं लभते नरः ।
तत्फलं लभते मर्त्यः कावेरीस्नानमाचरन् ॥३९॥
भौमे तु भूतजायोगे व्यतीपाते च संक्रमे ।
राहुसोमसमायोगे तदेवाष्टगुणं स्मृतम् ॥४०॥
अशीतिश्च यवाः प्रोक्ता गङ्गायामुनसङ्गमे ।
कावेरीनर्मदायोगे तदेवाष्टगुणं स्मृतम् ॥४१॥
गङ्गा षष्टिसहस्रैस्तु क्षेत्रपालैः प्रपूज्यते ।
तदर्धैरन्यतीर्थानि रक्षन्ते नात्र संशयः ॥४२॥
अमरेश्वरे तु सरितां ये योगाः परिकीर्तिताः ।
ते त्वशीतिसहस्रैस्तु क्षेत्रपालैस्तु रक्षिताः ॥४३॥
तथामरेश्वरे याम्ये लिङ्गं वै चपलेश्वरम् ।
द्वितीयं चण्डहस्ताख्यं द्वे लिङ्गे तीर्थरक्षके ॥४४॥
शिवेन स्थापिते पूर्वं कावेर्याद्यभिरक्षके ।
लक्षेण रक्षिता देवी नर्मदा बहुकल्पगा ॥४५॥
धनुषां षष्ट्यभियुतैः पुरुषैरीशयोजितैः ।
ओं कारशतसाहस्रैः पर्वतश्चाभिरक्षितः ॥४६॥
अन्यदेशकृतं पापमस्मिन् क्षेत्रे विनश्यति ।
अस्मिंस्तीर्थे कृतं पापं वज्रलेपो भविष्यति ॥४७॥
एषा ते कथिता तात कावेरी सरितां वरा ।
रुद्रदेहसमुत्पन्ना तेन पुण्या सरिद्वरा ॥४८॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कावेरीसङ्गममाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP