संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ७९

रेवा खण्डम् - अध्याय ७९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थद्वयमनुत्तमम् ।
दधिस्कन्दं मधुस्कन्दं सर्वपापक्षयंकरम् ॥१॥
दधिस्कन्दे नरः स्नात्वा यस्तु दद्याद्द्विजे दधि ।
उपतिष्ठेत्ततस्तस्य सप्तजन्मनि भारत ॥२॥
न व्याधिर्न जरा तस्य न शोको नैव मत्सरः ।
दशचन्द्रशतं यावज्जायते विमले कुले ॥३॥
मधुस्कन्देऽपि मधुना मिश्रितान्यस्तिलान्ददेत् ।
नासौ वैवस्वतं देवं पश्येद्वै जन्मसप्ततिम् ॥४॥
मधुना सह सम्मिश्रं पिण्डं यस्तु प्रदापयेत् ।
तस्य पौत्रप्रपौत्रेभ्यो दारिद्र्यं नैव जायते ॥५॥
दधिभिः सह संमिश्रं पिण्डं यस्तु प्रदापयेत् ।
तस्मिंस्तीर्थे नरः स्नात्वा विधिवद्दक्षिणामुखः ॥६॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
द्वादशाब्दानि तुष्यन्ति नात्र कार्या विचारणा ॥७॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दमधुस्कन्दतीर्थमाहात्म्यवर्णनं नामैकोनाशीतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP