संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ४७

रेवा खण्डम् - अध्याय ४७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
गीर्वाणाश्च ततः सर्वे ब्रह्माणं शरणं गताः ।
गजैर्गिरिवराकारैर्हयैश्चैव गजोपमैः ॥१॥
स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः ।
कच्छपैर्महिषैश्चान्यैर्मकरैश्च तथापरे ॥२॥
ब्रह्मलोकमनुप्राप्ता देवाः शक्रपुरोगमाः ।
दृष्ट्वा पद्मोद्भवं देवं साष्टाङ्गं प्रणताः सुराः ॥३॥
देवा ऊचुः ।
जय देव जगद्वन्द्य जय संसृतिकारक ।
पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः ॥४॥
सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम् ।
मेघगम्भीरया वाचा देवराजमुवाच ह ॥५॥
किमत्रागमनं देवाः सर्वेषां वै विवर्णता ।
केनापमानिताः सर्वे शीघ्रं मे कथ्यतां स्वयम् ॥६॥
देवा ऊचुः ।
अन्धकाख्यो महादैत्यो बलवान् पद्मसम्भव ।
तेन देवगणाः सर्वे धनरत्नैर्वियोजिताः ॥७॥
हत्वा देवगणांस्तावदसिचक्रपरद्द्विश्वधैः ।
गृहीत्वा शक्रभार्यां स दानवोऽपि गतो बलात् ॥८॥
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
चिन्तयामास राजेन्द्र वधार्थं दानवस्य ह ॥९॥
अवध्यो दानवः पापः सर्वेषां वो दिवौकसाम् ।
स त्राता सर्वजगतां नान्यो विद्येत कुत्रचित् ॥१०॥
एवमुक्ताः सुराः सर्वे ब्रह्मणा तदनन्तरम् ।
ब्रह्माणं ते पुरस्कृत्य गता यत्र स केशवः ।
तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माद्याश्चक्रपाणिनम् ॥११॥
देवा ऊचुः ।
जय त्वं देवदेवेश लक्ष्म्या वक्षःस्थलाश्रितः ।
असुरक्षय देवेश वयं ते शरणं गताः ॥१२॥
स्तूयमानः सुरैः सर्वैर्ब्रह्माद्यैश्च जनार्दनः ।
सम्प्रहृष्टमना भूत्वा सुरसङ्घमुवाच ह ॥१३॥

श्रीवासुदेव उवाच -
स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी ।
किं कार्यं प्रोच्यतां क्षिप्रं कस्य रुष्टा दिवौकसः ॥१४॥
किं दुःखं कश्च संतापः कुतो वा भयमागतम् ।
कथयन्तु महाभागाः कारणं यन्मनोगतम् ॥१५॥
पराभवः कृतो येन सोऽद्य यातु यमालयम् ।
एवमुक्तास्तु कृष्णेन कथयामासुरस्य तत् ॥१६॥
दर्शयन्तः स्वकान्देहान् लज्जमाना ह्यधोमुखाः ।
हृतराज्या ह्यन्धकेन कृता निस्तेजसः प्रभो ॥१७॥
पितेव पुत्रं परिरक्ष देव जहीन्द्रशत्रुं सह पुत्रपौत्रैः ।
तथेति चोक्तः कमलासनेन सुरासुरैर्वन्दितपादपद्मः ॥१८॥
शङ्खं चक्रं गदां चापं संगृह्य परमेश्वरः ।
उत्थितो भोगपर्यङ्काद्देवानां पुरतस्तदा ॥१९॥

श्रीवासुदेव उवाच -
पाताले यदि वा मर्त्ये नाके वा यदि तिष्ठति ।
तं हनिष्याम्यहं पापं येन संतापिताः सुराः ॥२०॥
स्वं स्थानं यान्तु गीर्वाणाः संतुष्टा भावितौजसः ।
विष्णोस्तद्वचनं श्रुत्वा ब्रह्माद्यास्ते सवासवाः ॥२१॥
स्वयानैस्तु हरिं नत्वा हृदि तुष्टा दिवं ययुः ॥२२॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गीर्वाणस्वर्गमनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP