संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १०३

रेवा खण्डम् - अध्याय १०३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल एरण्डीसङ्गमं परम् ।
यच्छ्रुतं वै मया राजञ्छिवस्य वदतः पुरा ॥१॥
एतदेव पुरा प्रश्नं गौर्या पृष्टस्तु शङ्करः ।
प्रोवाच नृपशार्दूल गुह्याद्गुह्यतरं शुभम् ॥२॥

ईश्वर उवाच -
शृणु देवि परं गुह्यं नाख्यातं कस्यचिन्मया ।
रेवायाश्चोत्तरे कूले तीर्थं परमशोभनम् ।
भ्रूणहत्याहरं देवि कामदं पुत्रवर्धनम् ॥३॥

पार्वत्युवाच -
कथयस्व महादेव तीर्थं परमशोभनम् ।
भ्रूणहत्याहरं कस्मात्कामदं स्वर्गदर्शनम् ॥४॥

ईश्वर उवाच -
अत्रिर्नाम महादेवि मानसो ब्रह्मणः सुतः ।
अग्निहोत्ररतो नित्यं देवतातिथिपूजकः ॥५॥
सोमसंस्थाश्च सप्तैव कृता विप्रेण पार्वति ।
अनसूयेति विख्याता भार्या तस्य गुणान्विता ॥६॥
पतिव्रता पतिप्राणा पत्युः कार्यहिते रता ।
एवं याति ततः काले न पुत्रा न च पुत्रिका ॥७॥
अपराह्णे महादेवि सुखासीनौ तु सुन्दरि ।
वदन्तौ सुखदुःखानि पूर्ववृत्तानि यानि च ॥८॥

अत्रिरुवाच -
सौम्ये शुभे प्रिये कान्ते चारुसर्वाङ्गसुन्दरि ।
विद्याविनयसम्पन्ने पद्मपत्रनिभेक्षणे ॥९॥
पूर्णचन्द्रनिभाकारे पृथुश्रोणिभरालसे ।
न त्वया सदृशी नारी त्रैलोक्ये सचराचरे ॥१०॥
रतिपुत्रफला नारी पठ्यते वेदवादिभिः ।
पुत्रहीनस्य यत्सौख्यं तत्सौख्यं मम सुन्दरि ॥११॥
यथाहं न तथा पुत्रः समर्थः सर्वकर्मसु ।
पुन्नामनरकाद्भद्रे जातमात्रेण सुन्दरि ॥१२॥
पतन्तं रक्षयेद्देवि महापातकिनं यदि ।
महाघोरे गता वापि दुष्टकर्मपितामहाः ॥१३॥
तद्धरन्ति सुपुत्राश्च वैतरण्यां गतानपि ।
पुत्रेण लोकाञ्जयति पौत्रेण परमा गतिः ॥१४॥
अथ पुत्रस्य पौत्रेण प्रगच्छेद्ब्रह्म शाश्वतम् ।
नास्ति पुत्रसमो बन्धुरिह लोके परत्र च ॥१५॥
अहश्च मध्यरात्रे च चिन्तयानस्य सर्वदा ।
शुष्यन्ति मम गात्राणि ग्रीष्मे नद्युदकं यथा ॥१६॥

अनसूयोवाच -
यत्त्वया शोचितं विप्र तत्सर्वं शोचयाम्यहम् ।
तवोद्वेगकरं यच्च तन्मे दहति चेतसि ॥१७॥
येन पुत्रा भविष्यन्ति आयुष्मन्तो गुणान्विताः ।
तत्कार्यं च समीक्षस्व येन तुष्येत्प्रजापतिः ॥१८॥

अत्रिरुवाच -
तपस्तप्तं मया भद्रे जातमात्रेण दुष्करम् ।
व्रतोपवासनियमैः शाकाहारेण सुन्दरि ॥१९॥
क्षीणदेहस्तु तिष्ठामि ह्यशक्तोऽहं महाव्रते ।
तेन शोचामि चात्मानं रहस्यं कथितं मया ॥२०॥

अनसूयोवाच -
भर्तुः पतिव्रता नारी रतिपुत्रविवर्धिनी ।
त्रिवर्गसाधना सा च श्लाघ्या च विदुषां जने ॥२१॥
जपस्तपस्तीर्थयात्रा मृडेज्यामन्त्रसाधनम् ।
देवताराधनं चैव स्त्रीशूद्रपतनानि षट् ॥२२॥
ईदृशं तु महादोषं स्त्रीणां तु व्रतसाधने ।
वदन्ति मुनयः सर्वे यथोक्तं वेदभाषितम् ॥२३॥
अनुज्ञाता त्वया ब्रह्मंस्तपस्तप्स्यामि दुष्करम् ।
पुत्रार्थित्वं समुद्दिश्य तोषयामि सुरोत्तमान् ॥२४॥

अत्रिरुवाच -
साधु साधु महाप्राज्ञे मम संतोषकारिणि ।
आज्ञाता त्वं मया भद्रे पुत्रार्थं तप आश्रय ॥२५॥
देवतानां मनुष्याणां पित्ःणामनृणो भवे ।
न भार्यासदृशो बन्धुस्त्रिषु लोकेषु विद्यते ॥२६॥
तेन देवाः प्रशंसन्ति न भार्यासदृशं सुखम् ।
सन्मुखे मन्मुखाः पुत्राः विलोमे तु पराङ्मुखाः ॥२७॥
तेन भार्यां प्रशंसन्ति सदेवासुरमानुषाः ।
महाव्रते महाप्राज्ञे सत्त्ववति शुभेक्षणे ॥२८॥
तपस्तपस्व शीघ्रं त्वं पुत्रार्थं तु ममाज्ञया ।
एतद्वाक्यावसाने तु साष्टाङ्गं प्रणताब्रवीत् ॥२९॥
त्वत्प्रसादेन विप्रेन्द्र सर्वान्कामानवाप्नुयाम् ।
हंसलीलागतिः सा च मृगाक्षी वरवर्णिनी ॥३०॥
नियमस्था ततो भूत्वा सम्प्राप्ता नर्मदां नदीम् ।
शिवस्वेदोद्भवां देवीं सर्वपापप्रणाशनीम् ॥३१॥
यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।
स्नानमात्रेण वै यस्या अश्वमेधफलं लभेत् ॥३२॥
ये पिबन्ति महादेवि श्रद्दधानाः पयः शुभम् ।
सोमपानेन तत्तुल्यं नात्र कार्या विचारणा ॥३३॥
ये स्मरन्ति दिवा रात्रौ योजनानां शतैरपि ।
मुच्यन्ते सर्वपापेभ्यो रुद्रलोकं प्रयान्ति ते ॥३४॥
नर्मदायाः समीपे तु तावुभौ योजनद्वये ।
न पश्यन्ति यमं तत्र ये मृता वरवर्णिनि ॥३५॥
ततस्तदुत्तरे कूले एरण्ड्याः सङ्गमे शुभे ।
नियमस्था विशालाक्षी शाकाहारेण सुन्दरि ॥३६॥
तोषयन्ती त्रींश्च देवाञ्छुभैः स्तोत्रैर्व्रतैस्तथा ।
ग्रीष्मेषु च महादेवि पञ्चाग्निं साधयेत्ततः ॥३७॥
वर्षाकाले चार्द्रवासाश्चरेच्चान्द्रायणानि च ।
हेमन्ते तु ततः प्राप्ते तोयमध्ये वसेत्सदा ॥३८॥
प्रातःस्नानं ततः सन्ध्यां कुर्याद्देवर्षितर्पणम् ।
देवानामर्चनं कृत्वा होमं कुर्याद्यथाविधि ॥३९॥
यजते वैष्णवांल्लोकान् स्नानजाप्यहुतेन च ।
एवं वर्षशते प्राप्ते रुद्रविष्णुपितामहाः ॥४०॥
सम्प्राप्ता द्विजरूपैस्तु एरण्ड्याः सङ्गमे प्रिये ।
पुरतः संस्थितास्तस्या वेदमभ्युद्धरन्ति च ॥४१॥
अनसूया जपं त्यक्त्वा निरीक्ष्य तान्मुहुर्मुहुः ।
उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि ॥४२॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते ॥४३॥
प्रदक्षिणं ततः कृत्वा साष्टाङ्गं प्रणताब्रवीत् ।
कन्दमूलफलं शाकं नीवारानपि पावनान् ।
प्रयच्छाम्यहमद्यैव मुनीनां भावितात्मनाम् ॥४४॥
विप्रा ऊचुः ।
तपसा तु विचित्रेण तपःसत्येन सुव्रते ।
तृप्ताः स्म सर्वकामैस्तु सुव्रते तव दर्शनात् ॥४५॥
अस्माकं कौतुकं जातं तापसेन व्रतेन यत् ।
स्वर्गमोक्षसुतस्यार्थे तपस्तपसि दुष्करम् ॥४६॥

अनसूयोवाच -
तपसा सिध्यते स्वर्गस्तपसा परमा गतिः ।
तपसा चार्थकामौ च तपसा गुणवान्सुतः ।
तप एव च मे विप्राः सर्वकामफलप्रदम् ॥४७॥
विप्रा ऊचुः ।
तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता ।
हंसलीलागतिगमा त्वं च सर्वाङ्गसुन्दरी ॥४८॥
किं च ते तपसा कार्यमात्मानं शोच्यसे कथम् ॥४९॥

अनसूयोवाच -
यदि रुद्रश्च विष्णुश्च स्वयं साक्षात्पितामहः ।
गूढरूपधराः सर्वे तच्चिह्नमुपलक्षये ॥५०॥
तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते ।
स्वस्वरूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः ॥५१॥
चतुर्भुजो महादेवि शङ्खचक्रगदाधरः ।
अतसीपुष्पवर्णस्तु पीतवासा जनार्दनः ॥५२॥
गरुत्मान्वाहनं यस्य श्रिया च सहितो हरिः ।
प्रसन्नवदनः श्रीमान्स्वयंरूपो व्यवस्थितः ॥५३॥
पीतवासा महादेवि चतुर्वदनपङ्कजः ।
हंसोपरि समारूढो ह्यक्षमालाकरोद्यतः ॥५४॥
आगतो नर्मदातीरे ब्रह्मा लोकपितामहः ।
योऽसौ सर्वजगद्व्यापी स्वयं साक्षान्महेश्वरः ॥५५॥
वृषभं तु समारूढो दशबाहुसमन्वितः ।
भस्माङ्गरागशोभाढ्यः पञ्चवक्त्रस्त्रिलोचनः ॥५६॥
जटामुकुटसंयुक्तः कृतचन्द्रार्द्धशेखरः ।
एवंरूपधरो देवः सर्वव्यापी महेश्वरः ॥५७॥
अनसूया निरीक्ष्यैतद्देवानां दर्शनं परम् ।
वेपमाना ततः साध्वी सुरान्दृष्ट्वा मुहुर्मुहुः ॥५८॥

अनसूयोवाच -
किं व्यापारस्वरूपास्तु विष्णुरुद्रपितामहाः ।
एतद्वै श्रोतुमिच्छामि ह्यशेषं कथयन्तु मे ॥५९॥

ब्रह्मोवाच -
प्रावृट्कालो ह्यहं ब्रह्मा आपश्चैव प्रकीर्तिताः ।
मेघरूपो ह्यहं प्रोक्तो वर्षयामि च भूतले ॥६०॥
अहं सर्वाणि बीजानि प्राक्सन्ध्यासूदिते रवौ ।
एतद्वै कारणं सर्वं रहस्यं कथितं परम् ॥६१॥

विष्णुरुवाच -
हेमन्तश्च भवेद्विष्णुर्विश्वरूपं चराचरम् ।
पालनाय जगत्सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥६२॥

रुद्र उवाच -
ग्रीष्मकालो ह्यहं प्रोक्तः सर्वभूतक्षयंकरः ।
कर्षयामि जगत्सर्वं रुद्ररूपस्तपस्विनि ॥६३॥
एवं ब्रह्मा च विष्णुश्च रुद्रश्चैव महाव्रते ।
त्रयो देवास्त्रयः सन्ध्यास्त्रयः कालास्त्रयोऽग्नयः ॥६४॥
तथा ब्रह्मा च विष्णुश्च रुद्रश्चैकात्मतां गतः ।
वरं दद्युश्च ते भद्रे यस्त्वया मनसीप्सितम् ॥६५॥

अनसूयोवाच -
धन्या पुण्या ह्यहं लोके श्लाघ्या वन्द्या च सर्वदा ।
ब्रह्मा विष्णुश्च रुद्रश्च प्रसन्नवदनाः शुभाः ॥६६॥
यदि तुष्टास्त्रयो देवा दयां कृत्वा ममोपरि ।
अस्मिंस्तीर्थे तु सांनिध्याद्वरदाः सन्तु मे सदा ॥६७॥

रुद्र उवाच -
एवं भवतु ते वाक्यं यत्त्वया प्रार्थितं शुभे ।
प्रत्यक्षा वैष्णवी माया एरण्डीनाम नामतः ॥६८॥
यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।
चैत्रमासे तु सम्प्राप्ते अहोरात्रोषितो भवेत् ॥६९॥
एरण्ड्याः सङ्गमे स्नात्वा ब्रह्महत्यां व्यपोहति ।
रात्रौ जागरणं कुर्यात्प्रभाते भोजयेद्द्विजान् ॥७०॥
यथोक्तेन विधानेन पिण्डं दद्याद्यथाविधि ।
प्रदक्षिणां ततो दद्याद्धिरण्यं वस्त्रमेव च ॥७१॥
रजतं च तथा गावो भूमिदानमथापि वा ।
सर्वं कोटिगुणं प्रोक्तमिति स्वायम्भुवोऽब्रवीत् ॥७२॥
ये म्रियन्ति नरा देवि एरण्ड्याः सङ्गमे शुभे ।
यावद्युगसहस्रं तु रुद्रलोके वसन्ति ते ॥७३॥
अहोरात्रोषितो भूत्वा जपेद्रुद्रांश्च वैदिकान् ।
एकादशैकसंज्ञांश्च स याति परमां गतिम् ॥७४॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रांल्लभेत्कामान् यथेप्सितान् ॥७५॥
एरण्ड्याः सङ्गमे स्नात्वा रेवाया विमले जले ।
महापातकिनो वापि ते यान्ति परमां गतिम् ॥७६॥

अनसूयोवाच -
यदि तुष्टास्त्रयो देवा मम भक्तिप्रचोदिताः ।
मम पुत्रा भवन्त्वेव हरिरुद्रपितामहाः ॥७७॥

विष्णुरुवाच -
पूज्या यत्पुत्रतां यान्ति न कदाचिच्छ्रुतं मया ।
शुभे ददामि पुत्रांस्ते देवतुल्यपराक्रमान् ।
रूपवन्तो गुणोपेतान्यज्विनश्च बहुश्रुतान् ॥७८॥

अनसूयोवाच -
ईप्सितं तच्च दातव्यं यन्मया प्रार्थितं हरे ।
नान्यथा चैव कर्तव्या मम पुत्रैषणा तु या ॥७९॥

विष्णुरुवाच -
पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः ।
तस्याहं चैव पारं तु नैव पश्यामि शोभने ॥८०॥
स्मरमाणः पुरावृत्तं चिन्तयामि पुनःपुनः ।
एवं संचिन्त्य ते देवाः पितामहमहेश्वराः ॥८१॥
अयोनिजा भविष्यामस्तव पुत्रा वरानने ।
योनिवासे महाप्राज्ञि देवा नैव व्रजन्ति च ॥८२॥
सांनिध्यात्सङ्गमे देवि लोकानां तु वरप्रदाः ।
एरण्डी वैष्णवी माया प्रत्यक्षा त्वं भविष्यसि ॥८३॥
त्रयो देवाः स्थिताः पाथ रेवाया उत्तरे तटे ।
वरप्राप्ता तु सा देवी गता माहेन्द्रपर्वतम् ॥८४॥
क्षीणाङ्गी शुक्लदेहा च रूक्षकेशी सुदारुणा ।
कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा ॥८५॥
शिलातलनिविष्टोऽसौ दृष्टः कान्तो महायशाः ।
हृष्टचित्तोऽभवद्देवि उत्तिष्ठोत्तिष्ठ साब्रवीत् ॥८६॥

अत्रिरुवाच -
साधु साधु महाप्राज्ञे ह्यनसूये महाव्रते ।
अचिन्त्यं गालवादीनां वरं प्राप्तासि दुर्लभम् ॥८७॥

अनसूयोवाच -
त्वत्प्रसादेन देवर्षे वरं प्राप्तास्मि दुर्लभम् ।
तेन देवाः प्रशंसन्ति सिद्धाश्च ऋषयोऽमलाः ॥८८॥
एवमुक्ता तु सा देवी हर्षेण महता युता ।
आलोकयेत्ततः कान्तं तेनापि शुभदर्शना ॥८९॥
ईक्षणाच्चैव संजातं ललाटे मण्डलं शुभम् ।
नवयोजनसाहस्रं मण्डलं रश्मिभिर्वृतम् ॥९०॥
कदम्बगोलकाकारं त्रिगुणं परिमण्डलम् ।
तस्य मध्ये तु देवेशि पुरुषो दिव्यरूपधृक् ॥९१॥
हेमवर्णोऽमृतमयः सूर्यकोटिसमप्रभः ।
आद्यः पुत्रोऽनसूयायाः स्वयं साक्षात्पितामहः ॥९२॥
चन्द्रमा इति विख्यातः सोमरूपो नृपात्मज ।
इष्टापूर्ते च संपाति कलाषोडशकेन तु ॥९३॥
प्रतिपच्च द्वितीया च तृतीया च महेश्वरि ।
चतुर्थी पञ्चमी चैव अव्यया षोडशी कला ॥९४॥
चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने ।
आप्रीणाति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥९५॥
सर्वे ते ह्युपजीवन्ति हुतं दत्तं शशिस्थितम् ।
वनस्पतिगते सोमे धनवांश्च वरानने ॥९६॥
भुञ्जन् परगृहे मूढो ददेदब्दकृतं शुभम् ।
वनस्पतिगते सोमे यस्तु छिन्द्याद्वनस्पतीन् ।
तेन पापेन देवेशि नरा यान्ति यमालयम् ॥९७॥
वनस्पतिगते सोमे मैथुनं यो निषेवते ।
ब्रह्महत्यासमं पापं लभते नात्र संशयः ॥९८॥
वनस्पतिगते सोमे मन्थानं योऽधिवाहयेत् ।
गावस्तस्य प्रणश्यन्ति याश्च वै पूर्वसंचिताः ॥९९॥
वनस्पतिगते सोमे ह्यध्वानं योऽधिगच्छति ।
भवन्ति पितरस्तस्य तं मासं रेणुभोजनाः ॥१००॥
अमावस्यां महादेवि यस्तु श्राद्धप्रदो भवेत् ।
अब्दमेकं विशालाक्षि तृप्तास्तत्पितरो ध्रुवम् ॥१०१॥
हिरण्यं रजतं वस्त्रं यो ददाति द्विजातिषु ।
सर्वं लक्षगुणं देवि लभते नात्र संशयः ॥१०२॥
एवं गुणविशिष्टोऽसौ सोमरूपः प्रजापतिः ।
संजातः प्रथमः पुत्रो ह्यनसूयासुनन्दनः ॥१०३॥
द्वितीयस्तु महादेवि दुर्वासा नाम नामतः ।
सृष्टिसंहारकर्ता च स्वयं साक्षान्महेश्वरः ॥१०४॥
ऋषिमध्यगतो देवि तपस्तपति दुष्करम् ।
सोऽपि रुद्रत्वमायाति सम्प्राप्ते भूतविप्लवे ॥१०५॥
इन्द्रोऽपि शप्तस्तेनैव दुर्वाससा वरानने ।
द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया ॥१०६॥
दत्तात्रेयस्वरूपेण भगवान्मधुसूदनः ।
जगद्व्यापी जगन्नाथः स्वयं साक्षाज्जनार्दनः ॥१०७॥
एते देवास्त्रयः पुत्रा अनसूयाया महेश्वरि ।
वरदानेन ते देवा ह्यवतीर्णा महीतले ॥१०८॥
पुत्रप्राप्तिकरं तीर्थं रेवायाश्चोत्तरे तटे ।
अनसूयाकृतं पार्थ सर्वपापक्षयं परम् ॥१०९॥

श्रीमार्कण्डेय उवाच -
आश्चर्यभूतं लोकेऽस्मिन्नर्मदायां पुरातनम् ।
भ्रूणहत्या गता तत्र ब्राह्मणस्य नराधिप ॥११०॥

युधिष्ठिर उवाच -
इतिहासं द्विजश्रेष्ठ कथयस्व ममानघ ।
सर्वपापहरं लोके दुःखार्तस्य च कथ्यताम् ॥१११॥

श्रीमार्कण्डेय उवाच -
सुवर्णशिलके ग्रामे गौतमान्वयसम्भवः ।
कृषीवलो महादेवि भार्यापुत्रसमन्वितः ॥११२॥
वसते तत्र गोविन्दः संजातो विपुले कुले ।
पुत्रदारसमोपेतो गृहक्षेत्ररतः सदा ॥११३॥
शकटं पूरयित्वा तु काष्ठानामगमद्गुहम् ।
प्रक्षिप्तानि च काष्ठानि ह्येकाकी क्षुधयान्वितः ॥११४॥
रिङ्गमाणस्तदा पुत्रः पितुः शब्दात्समागतः ।
न दृष्टस्तेन वै पुत्रः काष्ठैः संछादितोऽवशः ॥११५॥
आगतस्त्वरितो गेहे पिपासार्तो नराधिप ।
शकटं मोच्य तद्द्वारि सवृषं रज्जुसंयुतम् ॥११६॥
भार्या तस्यैव या दृष्टा चित्तज्ञा वशवर्तिनी ।
दृष्ट्वा निपातितं पुत्रं काष्ठैर्निर्भिन्नमस्तकम् ॥११७॥
अजल्पमानाकरुणं निक्षिप्तं ज्ञोलिकां शिशुम् ।
शुश्रूषणे रता साध्वी प्रियस्य च नराधिप ॥११८॥
ततः स्नानादिकं कृत्वा भोजनाच्छयनं शुभम् ।
पुत्रं पुत्रवतां श्रेष्ठा ह्युत्थापयति शासनैः ॥११९॥
यदा च नोत्थितः सुप्तः पुत्रः पञ्चत्वमागतः ।
तदा सा दीनवदना रुरोद च मुमोह च ॥१२०॥
तच्छ्रुत्वा रुदितं शब्दं गोविन्दस्त्रस्तमानसः ।
किमेतदिति चोक्त्वा तु पतितो धरणीतले ॥१२१॥
द्वावेतौ मुक्तकेशौ तु भूमौ निपतितौ नृप ।
विलेपाते च राजेन्द्र निःश्वासोच्छ्वासितेन च ॥१२२॥
कं पश्ये प्राङ्गणे पुत्रं दृष्ट्वा क्रीडन्तमातुरम् ।
संधारयिष्ये हृदयं स्फुटितं तव कारणे ॥१२३॥
त्वज्जन्मान्तं यशो नित्यमक्षयां कुलसन्ततिम् ।
दृष्ट्वा किमनृणीभूतो यास्यामि परमां गतिम् ॥१२४॥
मम वृद्धस्य दीनस्य गतिस्त्वं किल पुत्रक ।
एते मनोरथाः सर्वे चिन्तिता विफला गताः ॥१२५॥
इमां तु विकलां दीनां विहीनां सुतबान्धवैः ।
रुदन्तीं पतितां पाहि मातरं धरणीतले ॥१२६॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तेन पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥१२७॥
अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यबान्धवाः ।
मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता ॥१२८॥
मृषायं वदते लोकश्चन्दनं किल शीतलम् ।
पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥१२९॥
श्मश्रुग्रहणक्रीडन्तं धूलिधूसरिताननम् ।
पुण्यहीना न पश्यन्ति निजोत्सङ्गसमास्थितम् ॥१३०॥
दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् ।
पुण्यहीना न पश्यन्ति गङ्गाधरमिवात्मजम् ॥१३१॥
वीणावाद्यस्वरो लोके सुस्वरः श्रूयते किल ।
रुदितं बालकस्यैव तस्मादाह्लादकारकम् ॥१३२॥
मृगपक्षिषु काकेषु पशूनां स्वरयोनिषु ।
पुत्रं तेषु समस्तेषु वल्लभं ब्रुवते बुधाः ॥१३३॥
मत्स्याश्वप्रकराश्चैव कूर्मग्राहादयोऽपि वा ।
पुत्रोत्पत्तौ च हृष्यन्ति विपत्तौ यान्ति दुःखिताम् ॥१३४॥
देवगन्धर्वयक्षाश्च हृष्यन्ते पुत्रजन्मनि ।
पञ्चत्वे तेऽपि शोचन्ति मन्दभाग्योऽस्मि पुत्रक ॥१३५॥
ऋषिमेलापकं चक्रे पुत्रार्थे राघवो नृप ।
इन्द्रस्थाने स्थितस्तस्य प्रोक्षते ह्यासनं यतः ॥१३६॥
स्वर्गवासं सुताद्बाह्यं विद्यते न तु पाण्डव ।
चक्रे दशरथस्तस्मात्पुत्रार्थं यज्ञमुत्तमम् ॥१३७॥
रामो लक्ष्मणशत्रुघ्नौ भरतस्तत्र सम्भवात् ।
कार्तवीर्यो जितो येन रामेणामिततेजसा ॥१३८॥
स रामो रामचन्द्रेण अष्टवर्षेण निर्जितः ।
एकाकिना हतो वाली प्लवगः शत्रुदुर्जयः ॥१३९॥
रावणो ब्रह्मपुत्रो यस्त्रैलोक्यं यस्य शङ्कते ।
हतः स रामचन्द्रेण सपुत्रः सहबान्धवः ॥१४०॥
एवं पुत्रं विना सौख्यं मर्त्यलोके न विद्यते ।
वंशार्थे मैथुनं यस्य स्वर्गार्थे यस्य भारती ॥१४१॥
मृष्टान्नं ब्राह्मणस्यार्थे स्वर्गे वासं तु यान्ति ते ।
ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥१४२॥
पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः ।
किं ब्रवीमीति भो वत्स न तु सौख्यं सुतं विना ॥१४३॥
एवं बहुविधं दुःखं प्रलपित्वा पुनःपुनः ।
जनैश्चाश्वासितो विप्रो बालं गृह्य बहिर्गतः ॥१४४॥
ततः संस्कृत्य तं बालं विधिदृष्टेन कर्मणा ।
समवेतौ तु दुःखार्तावागतौ स्वगृहं पुनः ॥१४५॥
एवं गृहागते विप्रे रात्रिर्जाता युधिष्ठिर ।
भूमौ प्रसुप्तो गोविन्दः पुत्रशोकेन पीडितः ॥१४६॥
यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम् ।
कृमिराशिगतं सर्वं गोविन्दं समपश्यत ॥१४७॥
दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् ।
एवं दुःखनिमग्नायाः शर्वरी विगता तदा ॥१४८॥
पशुपालस्तु महिषीमुक्त्वारण्येऽगमद्गृहात् ।
अरण्ये महिषीः सर्वा रक्षयित्वा गृहागतः ॥१४९॥
विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः ।
यावद्भोक्ष्याम्यहं स्वामिन्महिषीस्त्वं च रक्षसे ॥१५०॥
ततः स त्वरितो विप्रो जगाम महिषीः प्रति ।
न तत्र महिषीः पश्येत्पश्चात्क्षेत्राभिसम्मुखम् ॥१५१॥
धावमानश्च विप्रस्तु एरण्डीसङ्गमे गतः ।
ततः प्रविष्टस्तु जले रेवैरण्ड्योस्तु सङ्गमे ॥१५२॥
तज्जलं पीतमात्रं तु त्वरया चातितर्षितः ।
अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे ॥१५३॥
आजगाम ततः पश्चाद्भवनं दिवसक्षये ।
भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ ॥१५४॥
निद्राभिभूतः शोकेन श्रमेणैव तु खेदितः ।
पुनस्तच्चार्धरात्रे तु तस्य भार्या युधिष्ठिर ॥१५५॥
कृमिभिर्वेष्टितं गान्त्रं क्वचित्पश्यत्यवेष्टितम् ।
पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता ।
उवाच दुष्कृतं तस्य साध्वसाविष्टचेतसा ॥१५६॥

भार्योवाच -
अतीते पञ्चमे चाह्नि त्विन्धनं क्षिपतस्तु ते ।
गृहपश्चाद्गतो बालो ह्यज्ञानाद्घातितस्त्वया ॥१५७॥
मया तत्पातकं घोरं रहस्यं न प्रकाशितम् ।
तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम् ॥१५८॥
न सुखं तव गात्रस्य पश्यामि न हि चात्मनः ।
निद्रा मम शमं याता रतिश्चैव त्वया सह ॥१५९॥
श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः ।
स्मृत्वा स्मृत्वा तु तं चित्ते परितापो न शाम्यति ॥१६०॥
कीर्तनान्नश्यते धर्मो वर्धतेऽसौ निगूहनात् ।
इह लोके परे चैव पापस्याप्येवमेव च ॥१६१॥
एवं संचित्यमानाहं स्थिता रात्रौ भयातुरा ।
कृमिराशिगतं त्वां हि कस्याहं कथयामि किम् ॥१६२॥
पुनस्त्वं चाद्य मे दृष्टो भ्रूणहत्याकृमिश्रितः ।
क्वचिद्भिन्दन्ति ते गात्रं क्वचिन्नष्टाः समन्ततः ॥१६३॥
एतत्संस्मृत्य संस्मृत्य विमृशामि पुनःपुनः ।
न जाने कारणं किंचित्पृच्छन्त्याः कथयस्व मे ॥१६४॥
तडागं वा सरिद्वापि तीर्थं वा देवतार्चनम् ।
यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे स्थितम् ॥१६५॥
एवमुक्तस्तु विप्रोऽसौ कथयामास भारत ।
भार्याया यद्दिवा वृत्तं शङ्कमानो नृपोत्तम ॥१६६॥
अद्याहं महिषीसार्थं एरण्डीसङ्गमं गतः ।
नाभिमात्रे जले गत्वा पीतवान्सलिलं बहु ॥१६७॥
नान्यत्तीर्थं विजानामि सरितं सर एव वा ।
सत्यं सत्यं पुनः सत्यं कथितं तव भामिनि ॥१६८॥
एवं ज्ञात्वा तु सा सर्वमुपवासकृतक्षणा ।
सपत्नीको गतस्तत्र सङ्गमे वरवर्णिनि ॥१६९॥
स्नात्वा तत्र जले रम्ये नत्वा देवं तु भास्करम् ।
स्नापयामास देवेशं शङ्करं चोमया सह ॥१७०॥
पञ्चगव्यघृतक्षीरैर्दधिक्षौद्रघृतैर्जलैः ।
गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः ॥१७१॥
पूज्य त्रयीमयं लिङ्गं देवीं कात्यायनीं शुभाम् ।
रात्रौ जागरणं कृत्वा पत्यासि पतिव्रता ॥१७२॥
ततः प्रभाते विमले द्विजान्सम्पूज्य यत्नतः ।
गोदानेन हिरण्येन वस्त्रेणान्नेन भारत ॥१७३॥
गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणाञ्छुभान् ।
मुक्तपापो गृहायातः स्वभार्यासहितो नृप ॥१७४॥
एवं यः शृणुते भक्त्या गोविन्दाख्यानमुत्तमम् ।
पठते परया भक्त्या भ्रूणहत्या प्रणश्यति ॥१७५॥
क्रीडते शांकरे लोके यावदाभूतसम्प्लवम् ।
यश्चैवाश्वयुजे मासि चैत्रे वा नृपसत्तम ॥१७६॥
सप्तम्यां च सिते पक्षे सोपवासो जितेन्द्रियः ।
सात्त्विकीं वासनां कृत्वा यो वसेच्छिवमन्दिरे ॥१७७॥
ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम् ।
कंसासुरनिहन्तारं शङ्खचक्रगदाधरम् ॥१७८॥
पक्षिराजसमारूढं त्रैलोक्यवरदायकम् ।
पितामहं ततो ध्यायेद्धंसस्थं चतुराननम् ॥१७९॥
सर्गप्रदं समस्तस्य कमलाकरशोभितम् ।
यो ह्येवं वसते तत्र त्रियमे स्थान उत्तमे ॥१८०॥
ततः प्रभाते विमले ह्यष्टम्यां च नराधिप ।
ब्राह्मणान् पूजयेद्भक्त्या सर्वदोषविवर्जितान् ॥१८१॥
सर्वावयवसम्पूर्णान्सर्वशास्त्रविशारदान् ।
वेदाभ्यासरतान्नित्यं स्वदारनिरतान्सदा ॥१८२॥
श्राद्धे दाने व्रते योग्यान् ब्राह्मणान् पाण्डुनन्दन ।
प्रेतानां पूजनं तत्र देवपूर्वं समारभेत् ॥१८३॥
प्रेतत्वान्मुच्यते शीघ्रमेरण्ड्यां पिण्डतर्पणैः ।
दानानि तत्र देयानि ह्यन्नमुख्यानि सर्वदा ॥१८४॥
हिरण्यभूमिकन्याश्च धूर्वाहौ शुभलक्षणौ ।
सीरेण सहितौ पार्थ धान्यं द्रोणकसंख्यया ॥१८५॥
अलंकृतां सवत्सां च क्षीरिणीं तरुणीं सिताम् ।
रक्तां वा कृष्णवर्णां वा पाटलां कपिलां तथा ॥१८६॥
कांस्यदोहनसंयुक्तां रुक्मखुरविभूषणाम् ।
स्वर्णशृङ्गीं सवत्सां च ब्राह्मणायोपपादयेत् ॥१८७॥
प्रीयतां मे जगन्नाथा हरकृष्णपितामहाः ।
संसाररक्षणी देवी सुरभी मां समुद्धरेत् ॥१८८॥
पुत्रार्थं याः स्त्रियः पार्थ ह्येरण्डीसङ्गमे नृप ।
स्नाप्यन्ते रुद्रसूक्तैश्च चतुर्वेदोद्भवैस्तथा ॥१८९॥
चतुर्भिर्ब्राह्मणैः शस्तं द्वाभ्यां योग्यैश्च कारयेत् ।
एकेन सार्द्रकुम्भेन दाम्पत्यमभिषेचयेत् ॥१९०॥
दैवज्ञेनैव चैकेन अथवा सामगेन वा ।
पञ्चरत्नसमायुक्तं कुम्भे तत्रैव कारयेत् ॥१९१॥
गन्धतोयसमायुक्तं सर्वौषधिविमिश्रितम् ।
आम्रपल्लवसंयुक्तमश्वत्थमधुकं तथा ॥१९२॥
गुण्ठितं सितवस्त्रेण सितचन्दनचर्चितम् ।
सितपुष्पैस्तु संछन्नं सिद्धार्थकृतमध्यमम् ॥१९३॥
कांस्यपात्रे तु संस्थाप्य पुत्रार्थी देशिकोत्तमः ।
अङ्गलग्नं तु यद्वस्त्रं कटकाभरणं तथा ॥१९४॥
तत्सर्वं मण्डले त्याज्यं सिद्ध्यर्थं चात्मनस्तदा ।
प्रणम्य भास्करं पश्चादाचार्यं रुद्ररूपिणम् ॥१९५॥
मधुरं च ततोऽश्नीयाद्देव्या भुवन उत्तमे ।
फलदानं च विप्राय छत्रं ताम्बूलमेव च ॥१९६॥
उपानहौ च यानं च स भवेद्दुःखवर्जितः ।
भास्करे क्रीडते लोके यावदाभूतसम्प्लवम् ॥१९७॥
दानं कोटिगुणं सर्वं शुभं वा यदि वाशुभम् ।
यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥१९८॥
एवं पापानि नश्यन्ति ह्येरण्डीसङ्गमे नृणाम् ।
समन्ताच्छस्त्रपातेन ह्येरण्डीसङ्गमे नृप ॥१९९॥
भ्रूणहत्यासमं पापं नश्यते शङ्करोऽब्रवीत् ।
प्राणत्यागं च यो भक्त्या जातवेदसि कारयेत् ॥२००॥
अनाशकं नृपश्रेष्ठ जले वा तदनन्तरम् ।
पञ्चसाहस्रिकं मानं वर्षाणां जातवेदसि ॥२०१॥
जले त्रीणि सहस्राण्यनाशके षष्टिं भुञ्जते ।
काका बकाः कपोताश्च ह्युलूकाः पशवस्तथा ॥२०२॥
संगमोदकसंस्पृष्टास्ते यान्ति परमां गतिम् ।
वृक्षाश्च तत्पदं ज्ञात्वा यां गतिं यान्ति योगिनः ॥२०३॥
एरण्डिका मया देवी दृष्टो मे मन्मथेश्वरः ।
किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति ॥२०४॥
मृत्तिकां सङ्गमोद्भूतां ये च गुण्ठन्ति नित्यशः ।
भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥२०५॥
एरण्डीसङ्गमे मर्त्यो लुण्ठ्यमानो नराधिप ।
सर्वपापैर्विनिर्मुक्तः पदं गच्छत्यनामयम् ॥२०६॥
एरण्ड्याः सङ्गमं मर्त्याः कीर्तयन्त्याश्रमस्थिताः ।
विमुक्तपापा जायन्ते सत्यं शङ्करभाषितम् ॥२०७॥
एरण्डीपादपाग्रैस्तु दृष्टैः पापं व्यपोहति ॥२०८॥
तीर्थाख्यानमिदं पुण्यं ये पठिष्यन्ति मानवाः ।
शृण्वन्ति चापरे भक्त्या मुक्तपापा भवन्ति ते ॥२०९॥
एतत्ते सर्वमाख्यातमेरण्डीसङ्गमं नृप ।
भूयश्चान्यत्प्रवक्ष्यामि सर्वपापक्षयंकरम् ॥२१०॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीसङ्गमतीर्थफलमाहात्म्यवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP