रेवा खण्डम् - अध्याय ७५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
शङ्खचूडस्य नाम्ना वै प्रसिद्धं भूमिमण्डले ॥१॥
शङ्खचूडः स्वयं तत्र संस्थितः पाण्डुनन्दन ।
वैनतेयभयात्पार्थ सुखदनर्मदातटे ॥२॥
तत्र तीर्थे तु यो भक्त्या शुचिर्भूत्वा समाहितः ।
स्नापयेच्छङ्खचूडं तु क्षीरक्षौद्रेण सर्पिषा ॥३॥
रात्रौ जागरणं कुर्याद्देवस्याग्रे नराधिप ।
दधिभक्तेन सम्पूज्य ब्राह्मणाञ्छंसितव्रतान् ।
गोप्रदाने द्विजेन्द्रोऽयं सर्वपापक्षयंकरः ॥४॥
तस्मिंस्तीर्थे तु यः पार्थ सर्पदष्टं प्रतर्पयेत् ।
स याति परमं लोकं शङ्करस्य वचो यथा ॥५॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शङ्खचूडतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ततितमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 11, 2024
TOP