रेवा खण्डम् - अध्याय १६९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्परं तीर्थं पुण्यं पापप्रणाशनम् ।
माण्डव्यो यत्र संसिद्ध ऋषिर्नारायणस्तथा ॥१॥
नारायणेन शुश्रूषा शूलस्थेन कृता पुरा ।
तत्र स्नात्वा महाराज मुच्यते पापकञ्चुकात् ॥२॥
युधिष्ठिर उवाच -
आश्चर्यमेतल्लोकेषु यत्त्वया कथितं मुने ।
न दृष्टं न श्रुतं तात शूलस्थेन तपः कृतम् ॥३॥
एतत्सर्वं कथय मे ऋषिभिः सहितस्य वै ।
अस्य तीर्थस्य माहात्म्यं माण्डव्यस्य कुतूहलात् ॥४॥
श्रीमार्कण्डेय उवाच -
शृणु राजन्यथावृत्तपुरा त्रेतायुगे क्षितौ ।
लोकपालोपमो राजा देवपन्नो महामतिः ॥५॥
धर्मज्ञश्च कृतज्ञश्च यज्वा दानरतः सदा ।
प्रजा ररक्ष यत्नेन पिता पुत्रानिवौरसान् ॥६॥
दात्यायनी प्रिया भार्या तस्य राज्ञो वशानुगा ।
हारनूपुरघोषेण झङ्काररवनादिता ॥७॥
परस्परं तयोः प्रीतिर्वर्धतेऽनुदिनं नृप ।
वंशस्तम्बे स्थितो राजा संशास्ति पृथिवीमिमाम् ॥८॥
हस्त्यश्वरथसम्पूर्णां धनवाहनसंयुताम् ।
अलंकृतो गुणैः सर्वैरनपत्यो महीपतिः ॥९॥
दुःखेन महताविष्टः संतप्तः सन्ततिं विना ।
स्नानहोमरतो नित्यं द्वादशाब्दानि भारत ॥१०॥
व्रतोपवासनियमैः पत्नीभिः सह तस्थिवान् ।
आराधयद्भगवतीं चामुण्डां मुण्डमर्दिनीम् ॥११॥
स्तोत्रैरनेकैर्भक्त्या च पूजाविधिसमाधिना ।
जय वाराहि चामुण्डे जय देवि त्रिलोचने ॥१२॥
ब्राह्मि रौद्रि च कौमारि कात्यायनि नमोऽस्तु ते ।
प्रचण्डे भैरवे रौद्रि योगिन्याकाशगामिनि ॥१३॥
नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे ।
राज्ञा स्तुता च संतुष्टा देवी वचनमब्रवीत् ॥१४॥
वरयस्व यथाकामं यस्ते मनसि वर्तते ।
आराधिता त्वया भक्त्या तुष्टा दास्यामि ते वरम् ॥१५॥
देवपन्न उवाच -
यदि तुष्टासि देवेशि वरार्हो यदि वाप्यहम् ।
पुत्रसन्तानरहितं संतप्तं मां समुद्धर ॥१६॥
सन्तानं नय मे वृद्धिं गोत्ररक्षां कुरुष्व मे ।
अपुत्रिणां गृहाणीह श्मशानसदृशानि हि ॥१७॥
पितरस्तस्य नाश्नन्ति देवता ऋषिभिः सह ।
क्रियमाणेऽप्यहरहः श्राद्धे मत्पितरः सदा ॥१८॥
दर्शयन्ति सदात्मानं स्वप्ने क्षुत्पीडितं मम ।
इति राज्ञो वचः श्रुत्वा देवी ध्यानमुपागता ॥१९॥
दिव्येन चक्षुषा दृष्टं त्रैलोक्यं सचराचरम् ।
प्रसन्नवदना देवी राजानमिदमब्रवीत् ॥२०॥
सन्तानं नास्ति ते राजंस्त्रैलोक्ये सचराचरे ।
यजस्व यज्ञपुरुषमपत्यं नास्ति तेऽन्यथा ॥२१॥
मया दृष्टं महीपाल त्रैलोक्यं दिव्यचक्षुषा ।
एवमुक्त्वा गता देवी राजा स्वगृहमागमत् ॥२२॥
इयाज यज्ञपुरुषं संजाता कन्यका ततः ।
तेजस्विनी रूपवती सर्वलोकमनोहरा ॥२३॥
देवगन्धर्वलोकेऽपि तादृशी नास्ति कामिनी ।
तस्या नाम कृतं पित्रा हर्षात्कामप्रमोदिनी ॥२४॥
ततः कालेन ववृधे रूपेणास्तम्भयज्जगत् ।
हंसलीलागतिः सुभ्रूः स्तनभारावनामिता ॥२५॥
रक्तमाल्याम्बरधरा कुण्डलाभरणोज्ज्वला ।
दिव्यानुलेपनवती सखीभिः सा सुरक्षिता ॥२६॥
कुचमध्यगतो हारो विद्युन्मालेव राजते ।
भ्रमराञ्चितकेशी सा बिम्बोष्ठी चारुहासिनी ॥२७॥
कर्णान्तप्राप्तनेत्राभ्यां पिबन्तीवाथ कामिनः ।
चन्द्रताम्बूलसौरभ्यैराकर्षन्तीव मन्मथम् ॥२८॥
कम्बुग्रीवा चारुमध्या ताम्रपादाङ्गुलीनखा ।
निम्ननाभिः सुजघना रम्भोरू सुदती शुभा ॥२९॥
मातापितृसुहृद्वर्गे क्रीडानन्दविवर्धिनी ।
एकस्मिन्दिवसे बाला सखीवृन्दसमन्विता ॥३०॥
चन्दनागरुतांबूलधूपसौमनसाञ्चिता ।
गृहीत्वा पुष्पधूपादि गता देवीप्रपूजने ॥३१॥
तडागतट उत्सृज्य भूषणान्यङ्गवेष्टकान् ।
चक्रुः सरसिताः क्रीडां जलमध्यगतास्तदा ॥३२॥
क्रीडन्तीं तामवेक्ष्याथ ससखीं विमले जले ।
राक्षसः शम्बरो नाम श्येनरूपेण चागमत् ॥३३॥
गृहीता जलमध्यस्था तेन सा काममोदिनी ।
खमुत्पपात दुष्टात्मा गृहीत्वाभरणान्यपि ॥३४॥
वायुमार्गं गतः सोऽथ कामिन्या सह भारत ।
अपतन्कुण्डलादीनि यत्र तोये महामुनिः ॥३५॥
माण्डव्यो नर्मदातीरे काष्ठवत्संजितेन्द्रियः ।
लीनो माहेश्वरे स्थाने नारायणपदे परे ॥३६॥
तस्य चानुचरो भ्राता भ्रातुः शुश्रूषणे रतः ।
तपोजपकृशीभूतो दध्यौ देवं जनार्दनम् ॥३७॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे काममोदिनीहरणवर्णनं नामैकोनसप्तत्यधिशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP