संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ७७

रेवा खण्डम् - अध्याय ७७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
भीमेश्वरं ततो गच्छेत्सर्वपापक्षयंकरम् ।
सेवितं ऋषिसङ्घैश्च भीमव्रतधरैः शुभैः ॥१॥
तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः ।
जपेदेकाक्षरं मन्त्रमूर्ध्वबाहुर्दिवाकरे ॥२॥
तस्य जन्मार्जितं पापं तत्क्षणादेव नश्यति ।
सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम् ॥३॥
दशभिर्जन्मभिर्जातं शतेन तु पुरा कृतम् ।
सहस्रेण त्रिजन्मोत्थं गायत्री हन्ति किल्बिषम् ॥४॥
वैदिकं लौकिकं वापि जाप्यं जप्तं नरेश्वर ।
तत्क्षणाद्दहते सर्वं तृणं तु ज्वलनो यथा ॥५॥
न देवबलमाश्रित्य कदाचित्पापमाचरेत् ।
अज्ञानान्नश्यते क्षिप्रं नोत्तरं तु कदाचन ॥६॥
तत्र तीर्थे तु यो दानं शक्तिमाश्रित्य चाचरेत् ।
तदक्षय्यफलं सर्वं जायते पाण्डुनन्दन ॥७॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भीमेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP