संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २३

रेवा खण्डम् - अध्याय २३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


मार्कण्डेय उवाच -
तत्रैव सङ्गमे राजन्भक्त्या परमया नृप ।
प्राणांस्त्यजन्ति ये मर्त्यास्ते यान्ति परमां गतिम् ॥१॥
संन्यस्तसर्वसंकल्पो यस्तु प्राणान्परित्यजेत् ।
अमरेश्वरमासाद्य स स्वर्गे नियतं वसेत् ॥२॥
शैलेन्द्रं यः समासाद्य आत्मानं मुञ्चते नरः ।
विमानेनार्कवर्णेन स गच्छेदमरावतीम् ॥३॥
नरं पतन्तमालोक्य नगादमरकण्टकात् ।
ब्रुवन्त्यप्सरसः सर्वा मम भर्ता भवेदिति ॥४॥
समं जलं धर्मविदो वदन्ति सारस्वतं गाङ्गमिति प्रबुद्धाः ।
तस्योपरिष्टात्प्रवदन्ति तज्ज्ञा रेवाजलं नात्र विचारणास्ति ॥५॥
अनेकविद्याधरकिन्नराद्यैरध्यासितं पुण्यतमाधिवासैः ।
रेवाजलं धारयतो हि मूर्ध्ना स्थानं सुरेन्द्राधिपतेः समीपे ॥६॥
नर्मदा सर्वदा सेव्या बहुनोक्तेन किं नृप ।
यदीच्छेन्न पुनर्द्रष्टुं घोरं संसारसागरम् ॥७॥
त्रयाणामपि लोकानां महती पावनी स्मृता ।
यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥८॥
अनेकयज्ञायतनैर्वृताङ्गी न ह्यत्र किंचिद्यदतीर्थमस्ति ।
तस्यास्तु तीरे भवता यदुक्तं तपस्विनो वाप्यतपस्विनो वा ॥९॥
म्रियन्ति ये पापकृतो मनुष्यास्ते स्वर्गमायान्ति यथाऽमरेन्द्राः ॥१०॥
एवं तु कपिला चैव विशल्या राजसत्तम ।
ईश्वरेण पुरा सृष्टा लोकानां हितकाम्यया ॥११॥
तत्र स्नात्वा नरो राजन्सोपवासो जितेन्द्रियः ।
अश्वमेधस्य महतोऽसंशयं फलमाप्नुयात् ॥१२॥
अनाशकं च यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
सर्वपापविनिर्मुक्तो याति वै शिवमन्दिरम् ॥१३॥
पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् ।
विशल्यासङ्गमे स्नात्वा सकृत्तत्फलमश्नुते ॥१४॥
एवं पुण्या पवित्रा च कथिता तव भूपते ।
भूयो मां पृच्छसि च यत्तच्चैव कथयाम्यहम् ॥१५॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विशल्यासङ्गममाहात्म्यवर्णनं नाम त्रयोविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP