संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ३७

रेवा खण्डम् - अध्याय ३७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत राजेन्द्र देवतीर्थमनुत्तमम् ।
येन देवास्त्रयस्त्रिंशत्स्नात्वा सिद्धिं परां गताः ॥१॥

युधिष्ठिर उवाच -
कथं तात सुराः सर्वे दानवैर्बलवत्तरैः ।
निर्जितास्तत्र तीर्थे च स्नात्वा सिद्धिं परां गताः ॥२॥

मार्कण्डेय उवाच -
पुरा दैत्यगणैरुग्रैर्युद्धेऽतिबलवत्तरैः ।
इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो नृप ॥३॥
हस्त्यश्वरथयानौघैर्मर्दयित्वा वरूथिनीम् ।
विध्वस्ता भेजिरे मार्गं प्रहारैर्जर्जरीकृताः ॥४॥
जम्भशुम्भैश्च कूष्माण्डकुहकादिभिः ।
वेपमानार्दिताः सर्वे ब्रह्माणमुपतस्थिरे ॥५॥
प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम् ।
तदा विज्ञापयामासुर्देवा वह्निपुरोगमाः ॥६॥
पश्य पश्य महाभाग दानवैः शकलीकृताः ।
वियोजिताः पुत्रदारैस्त्वामेव शरणं गताः ॥७॥
परित्रायस्व देवेश सर्वलोकपितामह ।
नान्या गतिः सुरेशान त्वां मुक्त्वा परमेश्वर ॥८॥

ब्रह्मोवाच -
दानवानां विघातार्थं नर्मदातटमास्थिताः ।
तपः कुरुध्वं स्वस्थाः स्थ तपो हि परमं बलम् ॥९॥
नान्योपायो न वै मन्त्रो विद्यते न च मे क्रिया ।
विना रेवाजलं पुण्यं सर्वपापक्षयंकरम् ॥१०॥
दारिद्र्यव्याधिमरणबन्धनव्यसनानि च ।
एतानि चैव पापस्य फलानीति मतिर्मम ॥११॥
एवं ज्ञात्वा ततश्चैव तपः कुरुत दुष्करम् ।
तथा चैव सुराः सर्वे देवा ह्यग्निपुरोगमाः ॥१२॥
तच्छ्रुत्वा वचनं तथ्यं ब्रह्मणः परमेष्ठिनः ।
नर्मदामागताः सर्वे देवा ह्यग्निपुरोगमाः ॥१३॥
चेरुर्वै तत्र विपुलं तपः सिद्धिमवाप्नुवन् ।
तदाप्रभृति तत्तीर्थं देवतीर्थमनुत्तमम् ॥१४॥
गीयते त्रिषु लोकेषु सर्वपापक्षयंकरम् ।
तत्र गत्वा च यो मर्त्यो विधिना संयतेन्द्रियः ॥१५॥
स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम् ।
यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ॥१६॥
स लभेन्मुख्यविप्राणां फलं साहस्रिकं नृप ।
तत्र देवशिला रम्या महापुण्यविवर्धिनी ॥१७॥
संन्यासेन मृता ये तु तेषां स्यादक्षया गतिः ।
अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥१८॥
रुद्रलोके वसेत्तावद्यावदाभूतसंप्लवम् ।
एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम् ॥१९॥
सुकृतं दुष्कृतं वाऽपि तत्र तीर्थेऽक्षयं भवेत् ।
एष ते विधिरुद्दिष्ट उत्पत्तिश्चैव भारत ॥२०॥
देवतीर्थस्य निखिला यथा वै शङ्कराच्छ्रुता ।
पठन्ति ये पापहरं सर्वदुःखविमोचनम् ॥२१॥
देवतीर्थस्य चरितं देवलोकं व्रजन्ति ते ॥२२॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP