संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ९०

रेवा खण्डम् - अध्याय ९०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
रेवाया उत्तरे कूले वैष्णवं तीर्थमुत्तमम् ।
जलशायीति वै नाम विख्यातं वसुधातले ॥१॥
दानवानां वधं कृत्वा सुप्तस्तत्र जनार्दनः ।
चक्रं प्रक्षालितं तत्र देवदेवेन चक्रिणा ।
सुदर्शनं च निष्पापं रेवाजलसमाश्रयात् ॥२॥

युधिष्ठिर उवाच -
चक्रतीर्थं समाचक्ष्व मुनिसंघैश्च वन्दितम् ।
विष्णोः प्रभावमतुलं रेवायाश्चैव यत्फलम् ॥३॥

श्रीमार्कण्डेय उवाच -
साधु साधु महाप्राज्ञ विरक्तस्त्वं युधिष्ठिर ।
गुह्याद्गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम् ॥४॥
तत्तेऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
आसीत्पुरा महादैत्यस्तालमेघ इति श्रुतः ॥५॥
तेन देवा जिताः सर्वे हृतराज्या नराधिप ।
यज्ञभागान् स्वयं भुङ्क्ते अहं विष्णुर्न संशयः ॥६॥
धनदस्य हृतं चित्तं हृतः शक्रस्य वारणः ।
इन्द्राणीं वाञ्छते पापो हयरत्नं रवेरपि ॥७॥
तालमेघभयात्पार्थ रविरुद्राः सवासवाः ।
यमः स्कन्दो जलेशोऽग्निर्वायुर्देवो धनेश्वरः ॥८॥
सवाक्पतिमहेशाश्च नष्टचित्ताः पितामहम् ।
गता देवा ब्रह्मलोकं तत्र दृष्ट्वा पितामहम् ॥९॥
तुष्टुवुर्विविधैः स्तोत्रैर्वागीशप्रमुखाः सुराः ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥१०॥
दृष्ट्वा देवान्निरुत्साहान् विवर्णानवनीपते ।
प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः ॥११॥

ब्रह्मोवाच -
स्वागतं सुरसङ्घस्य कान्तिर्नष्टा पुरातनी ।
हिमक्लिष्टप्रभावेण ज्योतींषीव मुखानि वः ॥१२॥
प्रशमादर्चिषामेतदनुद्गीर्णं सुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्ष्यते ॥१३॥
किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥१४॥
कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
अपविद्धगतो वायुर्भग्नशाख इव द्रुमः ॥१५॥
यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा ।
कुरुतेऽस्मिन्नमोघोऽपि निर्वाणालातलाघवम् ॥१६॥
अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥१७॥
तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः ।
किमागमनकृत्यं वो ब्रूत निःसंशयं सुराः ॥१८॥
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।
ततो मन्दानिलोद्भूतकमलाकरशोभिना ॥१९॥
गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा ।
स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ॥२०॥
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ।
युष्मद्वंशोद्भवस्तात तालमेघो महाबलः ॥२१॥
उपतापयते देवान्धूमकेतुरिवोच्छ्रितः ।
तेन देवगणाः सर्वे दुःखिता दानवेन च ॥२२॥
तालमेघो दैत्यपतिः सर्वान्नो बाधते बली ।
तस्मात्त्वां शरणं प्राप्ताः शरणं नो विधे भव ॥२३॥
ततः प्रसन्नो भगवान् वेधास्तानब्रवीद्वचः ॥२४॥

ब्रह्मोवाच -
तालमेघेन वो मध्ये बली तेन समः सुराः ।
विना माधवदेवेन साध्यो मे नैव दानवः ॥२५॥
ततः सुरगणाः सर्वे विरिञ्चिप्रमुखा नृप ।
क्षीरोदं प्रस्थिताः सर्वे दुःखितास्तेन वैरिणा ॥२६॥
त्वरिताः प्रस्थिता देवाः केशवं द्रष्टुकाम्यया ।
क्षीरोदं सागरं गत्वास्तुवंस्ते जलशायिनम् ॥२७॥
देवा ऊचुः ।
जगदादिरनादिस्त्वं जगदन्तोऽप्यनन्तकः ।
जगन्मूर्तिरमूर्तिस्त्वं जय गीर्वाणपूजित ॥२८॥
जय क्षीरोदशयन जय लक्ष्म्या सदा वृत ।
जय दानवनाशाय जय देवकिनन्दन ॥२९॥
जय शङ्खगदापाणे जय चक्रधर प्रभो ।
इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशाय्यथ ॥३०॥
उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् ।
किमर्थं बोधितो ब्रह्मन् समर्थैर्वः सुरासुरैः ॥३१॥

ब्रह्मोवाच -
तालमेघभयात्कृष्ण सम्प्राप्तास्तव मन्दिरम् ।
न वध्यः कस्यचित्पापस्तालमेघो जनार्दन ॥३२॥
त्वमेव जहि तं दुष्टं मृत्युं यास्यति नान्यथा ॥३३॥

श्रीकृष्ण उवाच -
स्वस्थानं गम्यतां देवाः स्वकीयां लभत प्रजाम् ।
दुष्टात्मानं हनिष्यामि तालमेघं महाबलम् ॥३४॥
स्थानं ब्रुवन्तु मे देवा वसेद्यत्र स दानवः ॥३५॥
देवा ऊचुः ।
हिमाचलगुहायां स वसते दानवेश्वरः ।
चतुर्विंशतिसाहस्रैः कन्याभिः परिवारितः ॥३६॥
तुरङ्गैः स्यन्दनैः कृष्ण संख्या तस्य न विद्यते ।
नटा नानाविधास्तत्र असंख्यातगुणा हरे ॥३७॥
द्विरदाः पर्वताकारा हयाश्च द्विरदोपमाः ।
महाबलो वसेत्तत्र गीर्वाणभयदायकः ॥३८॥
श्रुत्वा देवो वचस्तेषां देवानामातुरात्मनाम् ।
अचिन्तयद्गरुत्मन्तं शत्रुसङ्घविनाशनम् ॥३९॥
चक्रं करेण संगृह्य गदाचक्रधरः प्रभुः ।
शार्ङ्गं च मुशलं सीरं करैर्गृह्य जनार्दनः ॥४०॥
आरूढः पक्षिराजेन्द्रं वधार्थं दानवस्य च ।
दानवस्य पुरे पेतुरुत्पाता घोररूपिणः ॥४१॥
गोमायुर्गृध्रमध्ये तु कपोतैः सममाविशत् ।
विना वातेन तस्यैव ध्वजदण्डः पपात ह ॥४२॥
सर्पसूषकयोर्युद्धं तथा केसरिनागयोः ।
उन्मार्गाः सरितस्तत्रावहन्रक्तविमिश्रिताः ।
अकालतरुपुष्पाणि दृश्यन्ते स्म समन्ततः ॥४३॥
ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम् ।
पाञ्चजन्यश्वसहसा पूरितः पुरसन्निधौ ॥४४॥
तेन शब्देन महता ह्यारूढो दानवेश्वरः ।
उवाच च तदा वाक्यं तालमेघो महाबलः ॥४५॥

तालमेघ उवाच -
कोऽयं मृत्युवशं प्राप्तो ह्यज्ञात्वा मम विक्रमम् ।
धुन्धुमाराज्ञया ह्याशु स्वसैन्यपरिवारितः ॥४६॥
बलादानय तं बद्ध्वा ममाग्रे बहुशालिनम् ॥४७॥

धुन्धुमार उवाच -
आनयामि न सन्देहः सुरो यक्षोऽथ किन्नरः ।
स्यन्दनौघैः समायुक्तो गजवाजिभटैः सह ॥४८॥
हृष्टस्ततो जगद्योनिः सुपर्णस्थो महाबलः ।
गृह्यतां गृह्यतामेष इत्युक्तास्तेन किंकराः ॥४९॥
चतुर्दिक्षु प्रधावन्त इतश्चेतश्च सर्वतः ।
सुपर्णेनाग्निरूपेण दग्धास्ते शलभा यथा ॥५०॥
धुन्धुमारोऽपि कृष्णेन शरघातेन ताडितः ।
हतो वक्षःस्थले पापो मृतावस्थो रथोपरि ॥५१॥
हाहाकारं ततः सर्वे दानवाश्चक्रुरातुराः ।
तालमेघस्ततः क्रुद्धो रथारूढो विनिर्गतः ।
ददृशे केशवं पार्थ शङ्खचक्रगदाधरम् ॥५२॥

तालमेघ उवाच -
अन्ये ते दानवाः कृष्ण ये हताः समरे त्वया ।
हिरण्यकशिपुप्रख्यानपुमांसो हि तेऽच्युत ॥५३॥
इत्युक्त्वा दानवः पार्थ वर्षयामास सायकैः ।
दानवस्य शरान्मुक्तान् छेदयामास केशवः ॥५४॥
गरुत्मानवधीत्सैन्यमवध्यं यत्सुरासुरैः ।
कृष्णेन द्विगुणास्तस्य प्रेषिताः स्वशिलीमुखाः ॥५५॥
द्विगुणं द्विगुणीकृत्य प्रेषयामास दानवः ।
तानप्यष्टगुणैः कृष्णश्छादयामास सायकैः ॥५६॥
ततः क्रुद्धेन दैत्येन ह्याग्नेयं बाणमुत्तमम् ॥५७॥
वारुणं प्रेषयामास त्वाग्नेयं शमितं ततः ।
वारुणेनैव वायव्यं तालमेघो व्यसर्जयत् ॥५८॥
सार्पं चैव हृषीकेशो वायव्यस्य प्रशान्तये ।
नारसिंहं नृसिंहोऽपि प्रेषयामास पाण्डव ॥५९॥
नारसिंहं ततो दृष्ट्वा तालमेघो महाबलः ।
उत्तीर्य स्यन्दनाच्छीघ्रं गृहीत्वा खड्गचर्मणी ॥६०॥
कृष्ण त्वां प्रेषयिष्यामि यममार्गं सुदारुणम् ।
इत्युक्त्वा दानवः पार्थ आगतः केशवं प्रति ॥६१॥
खड्गेनाताडयद्दैत्यो गदापाणिं जनार्दनम् ।
मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः ॥६२॥
जघनोरःस्थले पार्थ तालमेघं महाहवे ।
जनार्दनस्तदा दैत्यं दैत्यो हरिमहन्मृधे ॥६३॥
जनार्दनस्ततः क्रुद्धस्तालमेघाय भारत ।
अमोघं चक्रमादाय मुक्तं तस्य च मूर्धनि ॥६४॥
निपपात शिरस्तस्य पर्वताश्च चकम्पिरे ।
समुद्राः क्षुभिताः पार्थ नद्य उन्मार्गगामिनीः ॥६५॥
पुष्पवृष्टिं ततो देवा मुमुचुः केशवोपरि ।
अवध्यः सुरसङ्घानां सूदितः केशव त्वया ॥६६॥
स्वस्थाश्चैव ततो देवास्तालमेघे निपातिते ।
जनार्दनोऽपि कौन्तेय नर्मदातटमाश्रितः ॥६७॥
क्षीरोदां नर्मदां मत्वा अनन्तभुजगोपरि ।
लक्ष्म्या समन्वितः कृष्णो निलीनश्चोत्तरे तटे ॥६८॥
चक्रं विभीषणं मर्त्ये ज्वालामालासमन्वितम् ।
पतितं नर्मदातोये जलशायिसमीपतः ॥६९॥
निर्धूतकल्मषं जातं नर्मदातोययोगतः ।
तालमेघवधोत्पन्नं यत्पापं नृपनन्दन ॥७०॥
तत्स्रवं क्षालितं सद्यो नर्मदांभसि भारत ।
तदाप्रभृति लोकेऽस्मिञ्जलशायी महीपते ॥७१॥
चक्रतीर्थं वदन्त्यन्ये केचित्कालाघनाशनम् ।
विख्यातं भारते वर्षे नर्मदायां महीपते ॥७२॥
तत्तीर्थस्य प्रभावोऽयं श्रूयतामवनीपते ।
यथाऽनन्तो हि नागानां देवानां च जनार्दनः ॥७३॥
मासानां मार्गशीर्षोऽस्ति नदीनां नर्मदा यथा ।
मासि मार्गशिरे पार्थ ह्येकादश्यां सितेऽहनि ॥७४॥
गत्वा यो मनुजो भक्त्या कामक्रोधविवर्जितः ।
वैष्णवीं भावनां कृत्वा जलेशं तु व्रजेत वै ॥७५॥
एकभुक्तं च नक्तं च तथैवायाचितं नृप ।
उपवासं तथा दानं ब्राह्मणानां च भोजनम् ॥७६॥
करोति च कुरुश्रेष्ठ न स याति यमालयम् ।
यमलोकभयाद्भीता ये लोकाः पाण्डुनन्दन ॥७७॥
ते पश्यन्तु श्रियः कान्तं नागपर्यङ्कशायिनम् ।
गोपीजनसमावृत्तं योगनिद्रां समाश्रितम् ।
विश्वरूपं जगन्नाथं संसारभयनाशनम् ॥७८॥
स्नापयेत्परया भक्त्या क्षौद्रक्षीरेण सर्पिषा ।
खण्डेन तोयमिश्रेण जगद्योनिं जनार्दनम् ॥७९॥
स्नाप्यमानं च पश्यन्ति ये लोका गतमत्सराः ।
ते यान्ति परमं लोकं सुरासुरनमस्कृतम् ॥८०॥
घृतेन बोधयेद्दीपमथवा तैलपूरितम् ।
रात्रौ जागरणं कृत्वा दैवस्याग्रे विमत्सराः ॥८१॥
ये कथां वैष्णवीं भक्त्या शृण्वन्ति च नृपोत्तम ।
ब्रह्महत्यादिपापानि नश्यन्ते नात्र संशयः ॥८२॥
प्रदक्षिणन्ति ये मर्त्या जलशायिजगद्गुरुम् ।
प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा ॥८३॥
ततः प्रभाते विमले पित्ःन् संतर्पयेज्जलैः ।
श्राद्धं च ब्राह्मणैस्तत्र योग्यैः पाण्डव मानवाः ॥८४॥
स्वदारनिरतैः शान्तैः परदारविवर्जकैः ।
वेदाभ्यसनशीलैश्च स्वकर्मनिरतैः शुभैः ॥८५॥
नित्यं यजनशीलैश्च त्रिसन्ध्यापरिपालकैः ।
श्रद्धया कारयेच्छ्राद्धं यदीच्छेच्छ्रेय आत्मनः ॥८६॥
ते धन्या मानुषे लोके वन्द्या हि भुवि मानवाः ।
ये वसन्ति सदाकालं पादपद्माश्रया हरेः ॥८७॥
जलशायं प्रपश्यन्ति प्रत्यक्षं सुरनायकम् ।
पक्षोपवासं पाराकं व्रतं चान्द्रायणं शुभम् ॥८८॥
मासोपवासमुग्रं च षष्ठान्नं पञ्चमं व्रतम् ।
तत्र तीर्थे तु यः कुर्यात्सोऽक्षयां गतिमाप्नुयात् ॥८९॥

श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि तिलधेनोश्च यत्फलम् ।
यथा यस्मिन्यदा देया दाने तस्याः शुभं फलम् ॥९०॥
एतत्कथान्तरं पुण्यमृषेर्द्वैपायनात्पुरा ।
श्रुतं हि नैमिषे पुण्ये नारदाद्यैरनेकधा ॥९१॥
इदं परममायुष्यं मङ्गल्यं कीर्तिवर्धनम् ।
विप्राणां श्रावयन्विद्वान्फलानन्त्यंसमश्नुते ॥९२॥
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।
विभक्तदक्षिणा ह्येता दातारं नाप्नुवन्ति च ॥९३॥
एकमेतत्प्रदातव्यं न बहूनां युधिष्ठिर ।
सा च विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥९४॥
यथालाभा तु सर्वेषां चतुर्द्रोणा तु गौः स्मृता ।
द्रोणस्य वत्सकः कार्यो बहूनां वापि कामतः ॥९५॥
यस्मिन्देशे तु यन्मानं विषये वा विचारितम् ।
तेन मानेन तां कुर्वन्नक्षयं फलमश्नुते ॥९६॥
सुखपूर्वं शुचौ भूमौ पुष्पधूपाक्षतैस्तथा ।
कर्णाभ्यां रत्ने दातव्ये दीपौ नेत्रद्वये तथा ॥९७॥
श्रीखण्डमुरसि स्थाप्यं ताभ्यां चैव तु काञ्चनम् ।
ऊर्ध्वे मधु घृतं देयं कुर्यात्सर्षपरोमकम् ॥९८॥
कम्बले कम्बलं दद्याच्छ्रोण्यां मधु घृतं तथा ।
यवसं पायसं दद्याद्घृतं क्षौद्रसमन्वितम् ॥९९॥
स्वर्णशृङ्गी रूप्यशिफारुक्मलाङ्गूलसंयुता ।
रत्नपृष्ठी तु दातव्या कांस्यपात्रावदोहिनी ॥१००॥
यत्स्याद्बाल्यकृतं पापं यद्वा कृतमजानता ।
वाचा कृतं कर्मकृतं मनसा यद्विचिन्तितम् ॥१०१॥
जले निष्ठीवितं चैव मुशलं वापि लङ्घितम् ।
वृषलीगमनं चैव गुरुदारनिषेवणम् ॥१०२॥
कन्याया गमनं चैव सुवर्णस्तेयमेव च ।
सुरापानं तथा चान्यत्तिलधेनुः पुनाति हि ॥१०३॥
अहोरात्रोपवासेन विधिवत्तां विसर्जयेत् ।
या सा यमपुरे घोरे नदी वैतरणी स्मृता ॥१०४॥
वालुकायोऽश्मस्थला च पच्यते यत्र दुष्कृती ।
अवीचिर्नरको यत्र यत्र यामलपर्वतौ ॥१०५॥
यत्र लोहमुखाः काका यत्र श्वानो भयंकराः ।
असिपत्त्रवनं चैव यत्र सा कूटशाल्मली ॥१०६॥
तान्सुखेन व्यतिक्रम्य धर्मराजालयं व्रजेत् ।
धर्मराजस्तु तं दृष्ट्वा सूनृतं वक्ति भारत ॥१०७॥
विमानमुत्तमं योग्यं मणिरत्नविभूषितम् ।
अत्रारुह्य नरश्रेष्ठ प्रयाहि परमां गतिम् ॥१०८॥
मा च चाटु भटे देहि मैव देहि पुरोहिते ।
मा च काणे विरूपे च न्यूनाङ्गे न च देवले ॥१०९॥
अवेदविदुषे नैव ब्राह्मणे सर्वविक्रये ।
मित्रघ्ने च कृतघ्ने च मन्त्रहीने तथैव च ॥११०॥
वेदान्तगाय दातव्या श्रोत्रियाय कुटुम्बिने ।
वेदान्तगसुते देया श्रोत्रिये गृहपालके ॥१११॥
सर्वाङ्गरुचिरे विप्रे सद्वृत्ते च प्रियंवदे ।
पूर्णिमायां तु माघस्य कार्त्तिक्यामथ भारत ॥११२॥
वैशाख्यां मार्गशीर्ष्यां वाषाढ्यां चैत्र्यामथापि वा ।
अयने विषुवे चैव व्यतीपाते च सर्वदा ॥११३॥
षडशीतिमुखे पुण्ये छायायां कुंजरस्य वा ।
एष ते कथितः कल्पस्तिलधेनोर्मयानघ ॥११४॥
व्रजन्ति वैष्णवं लोकं दत्त्वा पादं यमोपरि ।
प्राणत्यागात्परं लोकं वैष्णवं नात्र संशयः ।
भित्त्वाशु भास्करं यान्ति नात्र कार्या विचारणा ॥११५॥
एतत्ते सर्वमाख्यातं चक्रतीर्थफलं नृप ।
यच्छ्रुत्वा मानवो भक्त्या सर्वपापैः प्रमुच्यते ॥११६॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे जलशायितीर्थमाहात्म्यवर्णनं नाम नवतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP