रेवा खण्डम् - अध्याय १८६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् ।
गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम् ॥१॥
दिव्यं वर्षशतं यावज्जातमात्रेण भारत ।
तपोजपैः कृशीभूतो दृष्टो देवेन शम्भुना ॥२॥
ततस्तुष्टो महादेवो वैनतेयं मनोजवम् ।
उवाच परमं वाक्यं विनतानन्दवर्धनम् ॥३॥
प्रसन्नस्ते महाभाग वरं वरय सुव्रत ।
दुर्लभं त्रिषु लोकेषु ददामि तव खेचर ॥४॥
गरुड उवाच -
इच्छामि वाहनं विष्णोर्द्विजेन्द्रत्वं सुरेश्वर ।
प्रसन्ने त्वयि मे सर्वं भवत्विति मतिर्मम ॥५॥
श्रीमहेश उवाच -
दुर्लभः प्राणिनां तात यो वरः प्रार्थितोऽनघ ।
देवदेवस्य वाहनं द्विजेन्द्रत्वं सुदुर्लभम् ॥६॥
नारायणोदरे सर्वं त्रैलोक्यं सचराचरम् ।
त्वया स कथमूह्येत देवदेवो जगद्गुरुः ॥७॥
तेनैव स्थापितश्चेन्द्रस्त्रैलोक्ये सचराचरे ।
कथमन्यस्य चेन्द्रत्वं भवतीति सुदुर्लभम् ॥८॥
तथापि मम वाक्येन वाहनं त्वं भविष्यसि ।
शङ्खचक्रगदापाणेर्वहतोऽपि जगत्त्रयम् ॥९॥
इन्द्रस्त्वं पक्षिणां मध्ये भविष्यसि न संशयः ।
इति दत्त्वा वरं तस्मा अन्तर्धानं गतो हरः ॥१०॥
ततो गते महादेवे ह्युरुणस्यानुजो नृप ।
आराधयामास तदा चामुण्डां मुण्डमण्डिताम् ॥११॥
श्मशानवासिनीं देवीं बहुभूतसमन्विताम् ।
योगिनीं योगसंसिद्धां वसामांसासवप्रियाम् ॥१२॥
ध्यातमात्रा तु तेनैव प्रत्यक्षा ह्यभवत्तदा ।
जालंधरे च या सिद्धिः कौलीने उड्डिशे परे ॥१३॥
समग्रा सा भृगुक्षेत्रे सिद्धक्षेत्रे तु संस्थिता ।
चामुण्डा तत्र सा देवी सिद्धक्षेत्रे व्यवस्थिता ॥१४॥
संस्तुता ऋषिभिर्देवैर्योगक्षेमार्थसिद्धये ।
विनतानन्दजननस्तत्र तां योगिनीं नृप ।
भक्त्या प्रसादयामास स्तोत्रैर्वैदिकलौकिकैः ॥१५॥
गरुड उवाच -
ओं या सा क्षुत्क्षामकण्ठा नवरुधिरमुखा प्रेतपद्मासनस्था भूतानां वृन्दवृन्दैः पितृवननिलया क्रीडते शूलहस्ता ।
शस्त्रध्वस्तप्रवीरव्रजरुधिरगलन्मुण्डमालोत्तरीया देवी श्रीवीरमाता विमलशशिनिभा पातु वश्चर्ममुण्डा ॥१६॥
या सा क्षुत्क्षामकण्ठा विकृतभयकरी त्रासिनी दुष्कृतानां मुञ्चज्ज्वालाकलापैर्दशनकसमसैः खादति प्रेतमांसम् ।
या सा दोर्दण्डचण्डैर्डमरुरणरणाटोपटंकारघण्टैः कल्पान्तोत्पातवाताहतपटुपटहैर्वल्गते भूतमाता ।
क्षुत्क्षामा शुष्ककुक्षिः खवरतरनरवरैः क्षोदति प्रेतमांसं मुञ्चन्ती चाट्टहासं घुरघुरितरवा पातु वश्चर्ममुण्डा ॥१७॥
या सा निम्नोदराभा विकृतभवभयत्रासिनी शूलहस्ता चामुण्डा मुण्डघाता रणरणितरणझल्लरीनादरम्या ।
त्रैलोक्यं त्रासयन्ति ककहकहकहैर्घोररावैरनेकैर्नृत्यन्ती मातृमध्ये पितृवननिलया पातु वश्चर्ममुण्डा ॥१८॥
या धत्ते विश्वमखिलं निजांशेन महोज्ज्वला ।
कनकप्रसवे लीना पातु मां कनकेश्वरी ॥१९॥
हिमाद्रिसम्भवा देवी दयादर्शितविग्रहा ।
शिवप्रिया शिवे सक्ता पातु मां कनकेश्वरी ॥२०॥
अनादिजगदादिर्या रत्नगर्भा वसुप्रिया ।
रथाङ्गपाणिना पद्मा पातु मां कनकेश्वरी ॥२१॥
सावित्री या च गायत्री मृडानी वागथेन्दिरा ।
स्मर्त्ःणां या सुखं दत्ते पातु मां कनकेश्वरी ॥२२॥
सौम्यासौम्यैः सदा रूपैः सृजत्यवति या जगत् ।
परा शक्तिः परा बुद्धिः पातु मां कनकेश्वरी ॥२३॥
ब्रह्मणः सर्गसमये सृज्यशक्तिः परा तु या ।
जगन्माया जगद्धात्री पातु मां कनकेश्वरी ॥२४॥
विश्वस्य पालने विष्णोर्या शक्तिः परिपालिका ।
मदनोन्मादिनी मुख्या पातु मां कनकेश्वरी ॥२५॥
विश्वसंलयने मुख्या या रुद्रेण समाश्रिता ।
रौद्री शक्तिः शिवानन्ता पातु मां कनकेश्वरी ॥२६॥
कैलाससानुसंरूढ कनकप्रसवेशया ।
भस्मकाभिहृता पूर्वं पातु मां कनकेश्वरी ॥२७॥
पतिप्रभावमिच्छन्ती त्रस्यन्ती या विना पतिम् ।
अबला त्वेकभावा च पातु मां कनकेश्वरी ॥२८॥
विश्वसंरक्षणे सक्ता रक्षिता कनकेन या ।
आ ब्रह्मस्तम्बजननी पातु मां कनकेश्वरी ॥२९॥
ब्रह्मविष्ण्वीश्वराः शक्त्या शरीरग्रहणं यया ।
प्रापिताः प्रथमा शक्तिः पातु मां कनकेश्वरी ॥३०॥
श्रुत्वा तु गरुडेनोक्तं देवीवृत्तचतुष्टयम् ।
प्रसन्ना संमुखी भूत्वा वाक्यमेतदुवाच ह ॥३१॥
श्रीचामुण्डोवाच -
प्रसन्ना ते महासत्त्व वरं वरय वाञ्छितम् ।
ददामि ते द्विजश्रेष्ठ यत्ते मनसि रोचते ॥३२॥
गरुड उवाच -
अजरश्चामरश्चैव अधृष्यश्च सुरासुरैः ।
तव प्रसादाच्चैवान्यैरजेयश्च भवाम्यहम् ॥३३॥
त्वया चात्र सदा देवि स्थातव्यं तीर्थसन्निधौ ।
मार्कण्डेय उवाच -
एवं भविष्यतीत्युक्त्वा देवी देवैरभिष्टुता ॥३४॥
जगामाकाशमाविश्य भूतसङ्घसमन्विता ।
यदा लक्ष्म्या नृपश्रेष्ठ स्थापितं पुरमुत्तमम् ॥३५॥
अनुमान्य तदा देवीं कृतं तस्यां समर्पितम् ।
लक्ष्मीरुवाच -
रक्षणाय मया देवि योगक्षेमार्थसिद्धये ॥३६॥
मातृवत्प्रतिपाल्यं ते सदा देवि पुरं मम ।
गरुडोऽपि ततः स्नात्वा सम्पूज्य कनकेश्वरीम् ॥३७॥
तीर्थं तत्रैव संस्थाप्य जगामाकाशमुत्तमम् ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ॥३८॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।
गन्धपुष्पादिभिर्यस्तु पूजयेत्कनकेश्वरम् ॥३९॥
तस्य योगैश्वर्यसिद्धिर्योगपीठेषु जायते ।
मृतो योगेश्वरं लोकं जयशब्दादिमङ्गलैः ।
स गच्छेन्नात्र सन्देहो योगिनीगणसंयुतः ॥४०॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कनखलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीत्युत्तरशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP