संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १२७

रेवा खण्डम् - अध्याय १२७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र अग्नितीर्थमनुत्तमम् ।
तत्र स्नात्वा तु पक्षादौ मुच्यते सर्वकिल्बिषैः ॥१॥
तत्र तीर्थे तु यः कन्यां दद्यात्स्वयमलंकृताम् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरोत्तम ॥२॥
अग्निष्टोमातिरात्राभ्यां शतं शतगुणीकृतम् ।
प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या ह्यलंकृताम् ॥३॥
तस्याः पुत्रप्रपौत्राणां या भवेद्रोमसंगतिः ।
स याति तेन मानेन शिवलोके परां गतिम् ॥४॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अग्नितीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP