संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ६२

रेवा खण्डम् - अध्याय ६२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र करोडीश्वरमुत्तमम् ।
यत्र वै निहतास्तात दानवाः सपदानुगाः ॥१॥
इन्द्रादिदेवैः संहृष्टैः सततं जयबुद्धिभिः ।
तेषां ये पुत्रपौत्राश्च पूर्ववैरमनुस्मरम् ॥२॥
क्रुद्धैर्देवसमूहैश्च दानवा निहता रणे ।
तेषां शिरांसि संगृह्य सर्वे देवाः सवासवाः ॥३॥
निक्षिप्य नर्मदातोये बन्धुभावमनुस्मरम् ।
तत्र स्नात्वा सुराः सर्वे स्थापयित्वा उमापतिम् ॥४॥
इन्द्रेण सहिताः सर्वेऽपूजयंल्लोकसिद्धये ।
हृष्टचित्ताः सुराः सर्वे जग्मुराकाशमण्डलम् ॥५॥
दानवानां महाभाग सूदिता कोटिरुत्तमा ।
तदा प्रभृति तत्तीर्थं करोडीति महीतले ॥६॥
विख्यातं तु तदा लोके पापघ्नं पाण्डुनन्दन ।
अष्टम्यां च चतुर्दश्यामुभौ पक्षौ च भक्तितः ।
उपोष्य शूलिनश्चाग्रे रात्रौ कुर्वीत जागरम् ॥७॥
सत्कथापाठसंयुक्तो वेदाध्ययनसंयुतः ।
प्रभाते विमले प्राप्ते पूजयेत्त्रिदशेश्वरम् ॥८॥
पञ्चामृतेन संस्नाप्य श्रीखण्डेन च गुण्ठयेत् ।
शस्तैः पल्लवपुष्पैश्च पूजयेत्तु प्रयत्नतः ॥९॥
बहुरूपं जपन्मन्त्रं दक्षिणाशां व्यवस्थितः ।
यथोक्तेन विधानेन नाभिमात्रे जले क्षिपेत् ॥१०॥
तिलाञ्जलिं तु प्रेताय दक्षिणाशामुपस्थितः ।
श्राद्धं तत्रैव विप्राय कारयेद्विजितेन्द्रियः ॥११॥
विषमैरग्रजातैश्च वेदाभ्यसनतत्परैः ।
गोहिरण्येन सम्पूज्य ताम्बूलैर्भोजनैस्तथा ॥१२॥
भूषणैः पादुकाभिश्च ब्राह्मणान्पाण्डुनन्दन ।
भवेत्कोटिगुणं तस्य नात्र कार्या विचारणा ॥१३॥
तस्मिंस्तीर्थे तु यः कश्चित्त्यजेद्देहं विधानतः ।
तस्य भवति यत्पुण्यं तच्छृणुष्व नराधिप ॥१४॥
यावदस्थीनि तिष्ठन्ति मर्त्यस्य नर्मदाजले ।
तावद्वसति धर्मात्मा शिवलोके सुदुर्लभे ॥१५॥
ततः कालाच्च्युतस्तस्मादिह मानुषतां गतः ।
कोटिधनपतिः श्रीमाञ्जायते राजपूजितः ॥१६॥
सर्वधर्मसमायुक्तो मेधावी बीजपुत्रकः ।
विख्यातो वसुधापृष्ठे दीर्घायुर्मानवो भवेत् ॥१७॥
पुनः स्मरति तत्तीर्थं तत्र गत्वा नृपोत्तम ।
करोडेश्वरमभ्यर्च्य प्राप्नोति परमां गतिम् ॥१८॥
इन्द्रचन्द्रयमैर्रुद्रैरादित्यैर्वसुभिस्तथा ।
विश्वेदेवैस्तथा सर्वैः स्थापितस्त्रिदशेश्वरः ॥१९॥
रेवाया उत्तरे कूले लोकानां हितकाम्यया ।
मानवो भक्तिसंयुक्तः प्रासादं कारयेत्तु यः ॥२०॥
तस्मिंस्तीर्थे नरश्रेष्ठ सद्गतिं समवाप्नुयात् ।
न्यायोपात्तधनेनैव दारुपाषाणकेष्टकैः ॥२१॥
ब्राह्मणः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिश्च शक्तितः ।
तेऽपि यान्ति नरा लोके शांकरे सुरपूजिते ॥२२॥
यः शृणोति सदा भक्त्या माहात्म्यं तीर्थजं नृप ।
तस्य पापं प्रणश्येत षण्मासाभ्यन्तरं च यत् ॥२३॥


॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करोडीश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्टितमोऽध्यायः॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP