संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १८३

रेवा खण्डम् - अध्याय १८३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
अतः परं महाराज गच्छेत्केदारसंज्ञकम् ।
यत्र गत्वा महाराज श्राद्धं कृत्वा पिबेज्जलम् ।
सम्पूज्य देवदेवेशं केदारोत्थं फलं लभेत् ॥१॥

युधिष्ठिर उवाच -
कथमत्र सुरश्रेष्ठ केदाराख्यः स्थितः स्वयम् ।
उत्तरे नर्मदाकूले एतद्विस्तरतो वद ॥२॥

श्रीमार्कण्डेय उवाच -
पुरा कृतयुगस्यादौ शङ्करस्तु महेश्वरः ।
भृगुणाराधितः शप्तः श्रिया च भृगुकच्छके ॥३॥
अपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् ।
भविष्यति नृपश्रेष्ठ गतेत्युक्त्वा हरिप्रिया ॥४॥
तपश्चचार विपुलं भृगुर्वर्षसहस्रकम् ।
वायुभक्षो निराहारश्चिरं धमनिसंततः ॥५॥
ततः प्रत्यक्षतामागाल्लिङ्गीभूतो महेश्वरः ।
प्रादुर्भूतस्तु सहसा भित्त्वा पातालसप्तकम् ॥६॥
ददर्शाथ भृगुर्देवमौत्पलीं केलिकामिव ।
स्तुतिं चक्रे स देवाय स्थाणवे त्र्यम्बकेति च ॥७॥
एवं स्तुतः स भगवान् प्रोवाच प्रहसन्निव ।
पुनः पुनर्भृगुं मत्तः किंतु प्रार्थयसे मुने ॥८॥

भृगुरुवाच -
पञ्चक्रोशमिदं क्षेत्रं पद्मया शापितं विभो ।
उपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् ।
भविष्यतीति च प्रोच्य गता देवी विदं प्रति ॥९॥
पुनः पवित्रतां याति यथेदं क्षेत्रमुत्तमम् ।
तथा कुरु महेशान प्रसन्नो यदि शङ्कर ॥१०॥

ईश्वर उवाच -
केदाराख्यमिदं ब्रह्मंल्लिङ्गमाद्यं भविष्यति ।
कृत्वेदमादिलिङ्गानि भविष्यन्ति दशैव हि ॥११॥
एकादशमदृश्यं हि क्षेत्रमध्ये भविष्यति ।
पावयिष्यति तत्क्षेत्रमेकादशः स्वयं विभुः ॥१२॥
तथा वै द्वादशादित्या मत्प्रसादात्तु मूर्तितः ।
वसिष्यन्ति भृगुक्षेत्रे रोगदुःखनिबर्हणाः ॥१३॥
दुर्गाः ह्यष्टादश तथा क्षेत्रपालास्तु षोडश ।
भृगुक्षेत्रे भविष्यन्ति वीरभद्राश्च मातरः ॥१४॥
पवित्रीकृतमेतद्धि नित्यं क्षेत्रं भविष्यति ।
नाघमासे ह्युषःकाले स्नात्वा मासं जितेन्द्रियः ॥१५॥
यः पूजयति केदारं स गच्छेच्छिवमन्दिरम् ।
तस्मिंस्तीर्थे नरः स्नात्वा पित्ःनुद्दिश्य भारत ।
श्राद्धं ददाति विधिवत्तस्य प्रीताः पितामहाः ॥१६॥
इति ते कथितं सम्यक्केदाराख्यं सविस्तरम् ।
सर्वपापहरं पुण्यं सर्वदुःखप्रणाशनम् ॥१७॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे केदारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP