रेवा खण्डम् - अध्याय २०८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
भूमिपाल ततो गच्छेत्तीर्थं परमशोभनम् ।
विख्यातं त्रिषु लोकेषु पित्ःणामृणमोचनम् ॥१॥
तत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः ।
मनुष्यश्च नृपश्रेष्ठ दानं दत्त्वानृणो भवेत् ॥२॥
इच्छन्ति पितरः सर्वे स्वार्थहेतोः सुतं यतः ।
पुन्नाम्नो नरकात्पुत्रोऽस्मानयं मोचयिष्यति ॥३॥
पिण्डदानं जलं तात ऋणमुत्तममुच्यते ।
पित्ःणां तद्धि वै प्रोक्तमृणं दैवमतः परम् ॥४॥
अग्निहोत्रं तथा यज्ञाः पशुबन्धास्तथेष्टयः ।
इति देवर्णं प्रोक्तं शृणु मानुष्यकं ततः ॥५॥
ब्राह्मणेषु च तीर्थेषु देवायतनकर्मसु ।
प्रतिश्रुत्य ददेत्तत्तद्व्यवहारः कृतो यथा ॥६॥
ऋणत्रयमिदं प्रोक्तं पुत्राणां धर्मनन्दन ।
सत्पुत्रास्ते तु राजेन्द्र स्नाता य ऋणमोचने ॥७॥
ऋणत्रयाद्विमुच्यन्ते ह्यपुत्राः पुत्रिणस्तथा ।
तस्मात्तीर्थवरं प्राप्य पुत्रेण नियतात्मना ।
पितृभ्यस्तर्पणं कार्यं पिण्डदानं विशेषतः ॥८॥
तत्र तीर्थे हुतं दत्तं गुरवस्तोषिता यदि ।
मृतानां सप्त जन्मानि फलमक्षयमश्नुते ॥९॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणमोचनतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरद्विशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP