रेवा खण्डम् - अध्याय १९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततस्त्वेकार्णवे तस्मिन्मुमूर्षुरहमातुरः ।
काकूच्छ्वासस्तरंस्तोयं बाहुभ्यां नृपसत्तम ॥१॥
शृणोम्यर्णवमध्यस्थो निःशब्दस्तिमिते तदा ।
अम्भोरवमनौपम्यं दिशो दश विनादिनम् ॥२॥
हंसकुदेन्दुसंकाशां हारगोक्षीरपाण्डुराम् ।
नानारत्नविचित्राङ्गीं स्वर्णशृङ्गां मनोरमाम् ॥३॥
सुरैः प्रवालकमयैर्लाङ्गुलध्वजशोभिताम् ।
प्रलम्बघोणां नर्दन्तीं खुरैरर्णवगाहिनीम् ॥४॥
गां ददर्शाहमुद्विग्नो मामेवाभिमुखीं स्थिताम् ।
किंकिणीजालमुक्ताभिः स्वर्णघण्टासमावृताम् ॥५॥
तस्याश्चरणविक्षेपैः सर्वमेकार्णवं जलम् ।
विक्षिप्तफेनपुञ्जौघैर्नृत्यन्तीव समं ततः ॥६॥
ररास सलिलोत्क्षेपैः क्षोभयन्ती महार्णवम् ।
सा मामाह महाभाग श्लक्ष्णगम्भीरया गिरा ॥७॥
मा भैषीर्वत्स वत्सेति मृत्युस्तव न विद्यते ।
महादेवप्रसादेन न मृत्युस्ते ममापि च ॥८॥
ममाश्रयस्व लाङ्गूलं त्वामतस्तारयाम्यहम् ।
घोरादस्माद्भयाद्विप्र यावत्संप्लवते जगत् ॥९॥
क्षुत्तृषाप्रतिघातार्थं स्तनौ मे त्वं पिबस्व ह ।
पयोऽमृताश्रयं दिव्यं तत्पीत्वा निर्वृतो भव ॥१०॥
तस्यास्तद्वचनं श्रुत्वा हर्षात्पीतो मया स्तनः ।
न क्षुत्तृषा पीतमात्रे स्तने मह्यं तदाभवत् ॥११॥
दिव्यं प्राणबलं जज्ञे समुद्रप्लवनक्षमम् ।
ततस्तां प्रत्युवाचेदं का त्वमेकार्णवीकृते ॥१२॥
भ्रमसे ब्रूहि तत्त्वेन विस्मयो मे महान्हृदि ।
भ्रमतोऽत्र ममार्तस्य मुमूर्षोः प्रहतस्य ॥१३॥
त्वं हि मे शरणं जाता भाग्यशेषेण सुव्रते ॥१४॥
गौरुवाच -
किमहं विस्मृता तुभ्यं विश्वरूपा महेश्वरी ।
नर्मदा धर्मदा न्ःणां स्वर्गशर्मबलप्रदा ॥१५॥
दृष्ट्वा त्वां सीदमानं तु रुद्रेणाहं विसर्जिता ।
तं द्विजं तारयस्वार्ये मा प्राणांस्त्यजतां जले ॥१६॥
गोरूपेण विभोर्वाक्यात्त्वत्सकाशमिहागता ।
मा मृषावचनः शम्भुर्भवेदिति च सत्वरा ॥१७॥
एवमुक्तस्तयाहं तु इन्द्रायुधनिभं शुभम् ।
लाङ्गूलमव्ययं ज्ञात्वा भुजाभ्यामवलम्बितः ॥१८॥
ततोऽतरं तं जलधिं लाङ्गूलध्वजमाश्रितः ।
असौ देवो महादेव इति मां प्रत्यभाषत ॥१९॥
ततो युगसहस्रान्तमहं कालं तया सह ।
व्यचरं वै तमोभूते सर्वतः सलिलावृते ॥२०॥
महार्णवे ततस्तस्मिन् भ्रमन्गोः पुच्छमाश्रितः ।
निर्वाते चान्धकारे च निरालोके निरामये ॥२१॥
अकस्मात्सलिले तस्मिन्नतसीपुष्पसन्निभम् ।
विभिन्नांजनसङ्काशमाकाशमिव निर्मलम् ॥२२॥
नीलोत्पलदलश्यामं पीतवाससमव्ययम् ।
किरीटेनार्कवर्णेन विद्युद्विद्योतकारिणा ॥२३॥
भ्राजमानेन शिरसा खमिवात्यन्तरूपिणम् ।
कुण्डलोद्धष्टगल्लं तु हारोद्द्योतितवक्षसम् ॥२४॥
जाम्बूनदमयैर्दिव्यैर्भूषणैरुपशोभितम् ।
नागोपधानशयनं सहस्रादित्यवर्चसम् ॥२५॥
अनेकबाहूरुधरं नैकवक्त्रं मनोरमम् ।
सुप्तमेकार्णवे वीरं सहस्राक्षशिरोधरम् ॥२६॥
जटाजूटेन महता स्फुरद्विद्युत्समार्चिषा ।
एकार्णवं जगत्सर्वं व्याप्य देवं व्यवस्थितम् ॥२७॥
ग्रसित्वा शङ्करः सर्वं सदेवासुरमानवम् ।
प्रपश्याम्यहमीशानं सुप्तमेकार्णवे प्रभुम् ॥२८॥
सर्वव्यापिनमव्यक्तमनन्तं विश्वतोमुखम् ।
तस्य पादतलाभ्याशे स्वर्णकेयूरमण्डिताम् ॥२९॥
विश्वरूपां महाभागां विश्वमायावधारिणीम् ।
श्रीमयीं ह्रीमयीं देवीं धीमयीं वाङ्मयीं शिवाम् ॥३०॥
सिद्धिं कीर्तिं रतिं ब्राह्मीं कालरात्रिमयोनिजाम् ।
तामेवाहं तदात्यन्तमीश्वरान्तिकमास्थिताम् ॥३१॥
अद्राक्षं चन्द्रवदनां धृतिं सर्वेश्वरीमुमाम् ॥३२॥
शान्तं प्रसुप्तं नवहेमवर्णमुमासहायं भगवन्तमीशम् ।
तमोवृतं पुण्यतमं वरिष्ठं प्रदक्षिणीकृत्य नमस्करोमि ॥३३॥
ततः प्रसुप्तः सहसा विबुद्धो रात्रिक्षये देववरः स्वभावात् ।
विक्षोभयन् बाहुभिरर्णवाम्भो जगत्प्रणष्टं सलिले विमृश्य ॥३४॥
किं कार्यमित्येव विचिन्तयित्वा वाराहरूपोऽभवदद्भुताङ्गः ।
महाघनाम्भोधरतुल्यवर्चाः प्रलम्बमालाम्बरनिष्कमाली ॥३५॥
सशङ्खचक्रासिधरः किरीटी सवेदवेदाङ्गमयो महात्मा ।
त्रैलोक्यनिर्माणकरः पुराणो देवत्रयीरूपधरश्च कार्ये ॥३६॥
स एव रुद्रः स जगज्जहार सृष्ट्यर्थमीशः प्रपितामहोऽभूत् ।
संरक्षणार्थं जगतः स एव हरिः सुचक्रासिगदाब्जपाणिः ॥३७॥
तेषां विभागो न हि कर्तुमर्हो महात्मनामेकशरीरभाजाम् ।
मीमांसाहेत्वर्थविशेषतर्कैर्यस्तेषु कुर्यात्प्रविभेदमज्ञः ॥३८॥
स याति घोरं नरकं क्रमेण विभागकृद्द्वेषमतिर्दुरात्मा ।
या यस्य भक्तिः स तयैव नूनं देहं त्यजन् स्वं ह्यमृतत्वमेति ॥३९॥
संमोहयन्मूर्तिभिरत्र लोकं स्रष्टा च गोप्ता क्षयकृत्स देवः ।
तस्मान्न मोहात्मकमाविशेत द्वेषं न कुर्यात्प्रविभिन्नमूर्तिः ॥४०॥
वाराहमीशानवरोऽप्यतोऽसौ रूपं समास्थाय जगद्विधाता ।
नष्टे त्रिलोकेऽर्णवतोयमग्ने विमार्गितोयौघमयेऽन्तरात्मा ॥४१॥
भित्त्वार्णवं तोयमथान्तरस्थं विवेश पातालतलं क्षणेन ।
जले निमग्नां धरणीं समस्तां समस्पृशत्पङ्कजपत्रनेत्राम् ॥४२॥
विशीर्णशैलोपलशृङ्गकूटां वसुंधरां तां प्रलये प्रलीनाम् ।
दंष्ट्रैकया विष्णुरतुल्यसाहसः समुद्दधार स्वयमेव देवः ॥४३॥
सा तस्य दंष्ट्राग्रविलम्बिताङ्गी कैलासशृङ्गाग्रगतेव ज्योत्स्ना ।
विभ्राजते साप्यसमानमूर्तिः शशाङ्कशृङ्गे च तडिद्विलग्ना ॥४४॥
तामुज्जहारार्णवतोयमग्नां करी निमग्नामिव हस्तिनीं हठात् ।
नावं विशीर्णामिव तोयमध्यादुदीर्णसत्त्वोऽनुपमप्रभावः ॥४५॥
स तां समुत्तार्य महाजलौघात्समुद्रमार्यो व्यभजत्समस्तम् ।
महार्णवेष्वेव महार्णवाम्भो निक्षेपयामास पुनर्नदीषु ॥४६॥
शीर्णांश्च शैलान्स चकार भूयो द्वीपान्समस्तांश्च तथार्णवांश्च ।
शैलोपलैर्ये विचिताः समन्ताच्छिलोच्चयांस्तान्स चकार कल्पे ॥४७॥
अनेकरूपं प्रविभज्य देहं चकार देवेन्द्रगणान्समस्तान् ।
मुखाच्च वह्निर्मनसश्च चन्द्रश्चक्षोश्च सूर्यः सहसा बभूव ॥४८॥
जज्ञेऽथ तस्येश्वरयोगमूर्तेः प्रध्यायमानस्य सुरेन्द्रसङ्घः ।
वेदाश्च यज्ञाश्च तथैव वर्णास्तथा हि सर्वौषधयो रसाश्च ॥४९॥
जगत्समस्तं मनसा बभूव यत्स्थावरं किंचिदिहाण्डजं वा ।
जरायुजं स्वेदजमुद्भिज्जं वा यत्किंचिदा कीटपिपीलकाद्यम् ॥५०॥
ततो विजज्ञे मनसा क्षणेन अनेकरूपाः सहसा महेशा ।
चकार यन्मूर्तिभिरव्ययात्मा अष्टाभिराविश्य पुनः स तत्र ॥५१॥
लीलां चकाराथ समृद्धतेजा अतोऽत्र मे पश्यत एव विप्राः ।
तेषां मया दर्शनमेव सर्वं यावन्मुहूर्तात्समकारि भूप ॥५२॥
कृत्वा त्वशेषं किल लीलयैव स देवदेवो जगतां विधाता ।
सर्वत्रदृक्सर्वग एव देवो जगाम चादर्शनमादिकर्ता ॥५३॥
यत्तन्मुहूर्तादिह नामरूपं तावत्प्रपश्यामि जगत्तथैव ।
द्वीपैः समुद्रैरभिसंवृतं हि नक्षत्रतारादिविमानकीर्णम् ॥५४॥
वियत्पयोदग्रहचक्रचित्रं नानाविधैः प्राणिगणैर्वृतं च ।
तां वै न पश्यामि महानुभावां गोरूपिणीं सर्वसुरेश्वरीं च ॥५५॥
क्व सांप्रतं सेति विचिन्त्य राजन्विभ्रान्तचित्तस्त्वभवं तदैव ।
दिशो विभागानवलोकयानृते पुनस्तां कथमीश्वराङ्गीम् ॥५६॥
पश्यामि तामत्र पुनश्च शुभ्रां महाभ्रनीलां शुचिशुभ्रतोयाम् ।
वृक्षैरनेकैरुपशोभिताङ्गीं गजैस्तुरङ्गैर्विहगैर्वृतां च ॥५७॥
यथा पुरातीरमुपेत्य देव्याः समास्थितश्चाप्यमरकण्टके तु ।
तथैव पश्यामि सुखोपविष्ट आत्मानमव्यग्रमवाप्तसौख्यम् ॥५८॥
तथैव पुण्या मलतोयवाहां दृष्ट्वा पुनः कल्पपरिक्षयेऽपि ।
अम्बामिवार्यामनुकम्पमानामक्षीणतोयां विरुजां विशोकः ॥५९॥
एवं महत्पुण्यतमं च कल्पं पठन्ति शृण्वन्ति च ये द्विजेन्द्राः ।
महावराहस्य महेश्वरस्य दिने दिने ते विमला भवन्ति ॥६०॥
अशुभशतसहस्रं ते विधूय प्रपन्नास्त्रिदिवममरजुष्टं सिद्धगन्धर्वयुक्तम् ।
विमलशशिनिभाभिः सर्व एवाप्सरोभिः सह विविधविलासैः स्वर्गसौख्यं लभन्ते ॥६१॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये वाराहकल्पवृत्तान्तवर्णनं नामैकोनविंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 08, 2024
TOP