संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २२६

रेवा खण्डम् - अध्याय २२६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


मार्कण्डेय उवाच -
ततः क्रोशान्तरे पुण्यं तीर्थं तद्विमलेश्वरम् ।
यत्र स्नानेन दानेन जपहोमार्चनादिभिः ॥१॥
विमलेश्वरमाराध्य यो यदिच्छेत्स तल्लभेत् ।
स्वर्गलाभादिकं वापि पार्थिवं वा यथेप्सितम् ॥२॥
पुरा त्रिशिरसं हत्वा त्वष्टुः पुत्रं शतक्रतुः ।
यस्य तीर्थस्य माहात्म्याद्वैमल्यं परमं गतः ॥३॥
यत्र वेदनिधिर्विप्रो महत्तप्त्वा तपः पुरा ।
नानाकर्ममलैः क्षीणैर्विमलोऽभवदर्कवत् ॥४॥
महादेवप्रसादेन सोमवत्प्रियदर्शनः ।
पुरा भानुमतीं भानुः सुतां स्मरशरार्दितः ॥५॥
चकमे तेन दोषेण कुष्ठरोगार्दितोऽभवत् ।
स चाप्यत्र तपस्तप्त्वा विमलत्वमुपागतः ॥६॥
महादेवेन तुष्टेन स्वस्थानं मुदितोऽभजत् ।
तथैव च पुरा पार्थ विभाण्डकसुतो मुनिः ॥७॥
योगिसङ्गं वने प्राप्य पुरे च नृपतेस्तथा ।
राजसंसर्गदोषाद्वै मालिन्यं परमात्मनः ॥८॥
विचारयन्नभ्युपेत्य रेवासागरसङ्गमम् ।
शान्तया भार्यया सार्द्धं तप्त्वा द्वादशवत्सरान् ॥९॥
कृच्छ्रचान्द्रायणैर्देवं तोषयंस्त्र्यम्बकं मुनिः ।
महादेवेन तुष्टेन सोऽपि वैमल्यमाप्तवान् ॥१०॥
शर्वाण्या प्रेरितः शर्वः पुरा दारुवने नृप ।
मोहनान्मुनिपत्नीनां स्वं दीक्ष्य विमलं किल ॥११॥
विचार्य परमस्थानं नर्मदोदधिसङ्गमम् ।
तत्र स्थित्वा महाराज तपस्तप्त्वा सहोमया ॥१२॥
विमलोऽसौ यतो जातस्तेनासौ विमलेश्वरः ।
तेन नाम्ना स्वयं तस्थौ लोकानां हितकाम्यया ॥१३॥
ततस्तिलोत्तमां सृष्ट्वा ब्रह्मा लोकपितामहः ।
प्रजानाथोऽपि तां सृष्ट्वा दृष्ट्वाग्रे सुमनोहराम् ॥१४॥
भावियोगबलाक्रान्तः स तस्यामभिकोऽभवत् ।
तेन वीक्ष्य सदोषत्वं रेवातीरद्वयं श्रितः ॥१५॥
तीर्थान्यनुसरन्मौनी त्रिस्नायी संस्मरञ्छिवम् ।
रेवार्णवसमायोगे स्नात्वा सम्पूज्य शङ्करम् ।
कालेनाल्पेन राजर्षे ब्रह्माप्यमलतां गतः ॥१६॥
एवमन्येऽपि बहुशो देवर्षिनृपसत्तमाः ।
त्यक्त्वा दोषमलं तत्र विमला बहवोऽभवन् ॥१७॥
तथा त्वमपि राजेन्द्र तत्र स्नात्वा शिवार्चनात् ।
अमलोऽपि विशेषेण वैमल्यं प्राप्स्यसे परम् ॥१८॥
तत्र स्नात्वा नरो नारी पूजयित्वा महेश्वरम् ।
पापदोषविनिर्मुक्तो ब्रह्मलोके महीयते ॥१९॥
तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।
अष्टम्यां च चतुर्दश्यां सर्वपर्वसु पार्थिव ॥२०॥
सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ।
श्राद्धं कृत्वा विधानेन पित्ःणामनृणी भवेत् ।
ब्राह्मणान् भोजयेच्छक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥२१॥
यद्यदिष्टतमं लोके यच्चैवात्महितं गृहे ।
तत्तद्गुणवते देयं तत्रैवाक्षयमिच्छता ।
स्वर्णधान्यानि वासांसि छत्रोपानत्कमण्डलुम् ॥२२॥
गृहं देवस्य वै शक्त्या कृत्वा स्याद्भुवि भूपतिः ।
गीतनृत्यकथाभिश्च तोषयेत्परमेश्वरम् ॥२३॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP