संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ८९

रेवा खण्डम् - अध्याय ८९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र पूतिकेश्वरमुत्तमम् ।
नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥१॥
स्थापितं जाम्बुवन्तेन लोकानां तु हितार्थिना ।
राजा प्रसेनजिन्नाम तस्यां वक्षस्थलान्मणौ ॥२॥
समुत्क्षिप्ते तु तेनैव सपूतिरभवद्व्रणः ।
तत्र तीर्थे तपस्तप्त्वा निर्व्रणः समजायत ॥३॥
तेन तत्स्थापितं लिङ्गं पूतिकेश्वरमुत्तमम् ।
यस्तत्र मनुजो भक्त्या स्नायाद्भरतसत्तम ॥४॥
सर्वान्कामानवाप्नोति सम्पूज्य परमेश्वरम् ।
कृष्णाष्टम्यां चतुर्दश्यां सर्वकालं नराधिप ।
येऽर्चयन्ति सदा देवं ते न यान्ति यमालयम् ॥५॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पूतिकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोननवतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP