संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ८६

रेवा खण्डम् - अध्याय ८६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज पिङ्गलावर्तमुत्तमम् ।
सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे ।
हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः ॥१॥

युधिष्ठिर उवाच -
हव्यवाहेन भगवन्नीश्वरः स्थापितः कथम् ।
एतदाख्याहि मे सर्वं प्रसादाद्वक्तुमर्हसि ॥२॥

मार्कण्डेय उवाच -
शम्भुना रेतसा राजंस्तर्पितो हव्यवाहनः ।
प्राप्तसौख्येन रौद्रेण गौर्याक्रीडनचेतसा ॥३॥
हव्यवाहमुखे क्षिप्तं रुद्रेणामिततेजसा ।
रुद्रस्य रेतसा दग्धस्तीर्थयात्राकृतादरः ॥४॥
सागरांश्च नदीर्गत्वा क्रमाद्रेवां समागतः ।
चचार परया भक्त्या ध्यानमुग्रं हुताशनः ॥५॥
वायुभक्षः शतं साग्रं यावत्तेपे हुताशनः ।
तावत्तुष्टो महादेवो वरदो जातवेदसः ।
संनिधौ समुपेत्याथ वचनं चेदमब्रवीत् ॥६॥

ईश्वर उवाच -
वरं वृणीष्व हव्याश यस्ते मनसि वर्तते ॥७॥

वह्निरुवाच -
नमस्ते सर्वलोकेश उग्रमूर्ते नमोऽस्तु ते ।
रेतसा तव संदग्धः कुष्ठी जातो महेश्वर ।
कृपां कुरु महादेव मम रोगं विनाशय ॥८॥

ईश्वर उवाच -
हव्यवाह भवारोगो मत्प्रसादाच्च सत्वरम् ।
अत्र तीर्थे कृतस्नानः स्वरूपं प्रतिपत्स्यसे ॥९॥
इत्युक्त्वा च महादेवस्तत्रैवान्तरधीयत ।
अनन्तरं हव्यवाहः सस्नौ रेवाजले त्वरन् ॥१०॥
तदैव रोगनिर्मुक्तोऽभवद्दिव्यस्वरूपवान् ।
स्थापयामास देवेशं स वह्निः पिङ्गलेश्वरम् ॥११॥
नाम्ना संपूजयामास तुष्टाव स्तुतिभिर्मुदा ।
ततो जगाम देशं स्वं देवानां हव्यवाहनः ॥१२॥
हव्यवाहेन भूपैवं स्थापितः पिङ्गलेश्वरः ।
जितक्रोधो हि यस्तत्र उपवासं समाचरेत् ॥१३॥
अतिरान्त्रफलं तस्य अन्ते रुद्रत्वमाप्नुयात् ।
गुणान्विताय विप्राय कपिलां तत्र भारत ॥१४॥
अलंकृत्य सवत्सां च शक्त्यालङ्कारभूषिताम् ।
यः प्रयच्छति राजेन्द्र स गच्छेत्परमां गतिम् ॥१५॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP