रेवा खण्डम् - अध्याय १८५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल एरण्डीतीर्थमुत्तमम् ।
स्नानमात्रेण तत्रैव ब्रह्महत्या प्रणश्यति ॥१॥
मासि चाश्वयुजे तत्र शुक्लपक्षे चतुर्दशीम् ।
उपोष्य प्रयतः स्नातस्तर्पयेत्पितृदेवताः ॥२॥
पुत्रर्द्धिरूपसम्पन्नो जीवेच्च शरदां शतम् ।
शिवलोकं मृतो याति नात्र कार्या विचारणा ॥३॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीत्युत्तरशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP