संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २२५

रेवा खण्डम् - अध्याय २२५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततः क्रोशान्तरे गच्छेदलिकातीर्थमुत्तमम् ।
अलिका नाम गान्धर्वी कुशीला कुटिलाशया ॥१॥
चित्रसेनस्य दौहित्री विद्यानन्दमृषिं गता ।
वव्रे ते स्वीकृता तेन दशवर्षाणि तं श्रिता ॥२॥
पतिं जघान तं सुप्तं कस्मिंश्चित्कारणान्तरे ।
गत्वा निवेदयामास पितरं रत्नवल्लभम् ॥३॥
पित्रा मात्रा च संत्यक्ता बहुभिर्भर्त्सिता नृप ।
गर्भघ्नी त्वं पतिघ्नी त्वमिति दर्शय मा मुखम् ॥४॥
ब्रह्मघ्नी याहि पापिष्ठे परित्यक्ता गृहाद्व्रज ॥५॥

मार्कण्डेय उवाच -
इति दुःखान्विता मूढा ताभ्यां निर्भर्त्सिता सती ।
तनुं त्यक्तुं मनश्चक्रे प्राप्य तीर्थान्तरं क्वचित् ॥६॥
संपृच्छ्यमाना तीर्थानि ब्राह्मणेभ्यो युधिष्ठिर ।
श्रुत्वा पापहरं तीर्थं रेवासागरसङ्गमे ॥७॥
तत्र पार्थ तपश्चक्रे निराहारा जितव्रता ।
कृच्छ्रातिकृच्छ्रपाराकमहासांतपनादिभिः ॥८॥
चान्द्रायणैर्ब्रह्मकूर्चैः कर्शयामास वै तनुम् ।
एवं वर्षशतं सार्द्धं व्यतीतं तपसा नृप ॥९॥
तस्या विशुद्धिमिच्छन्त्याः शिवध्यानार्चनादिभिः ।
ततः कतिपयाहोभिस्तस्या ज्ञात्वा हठं परम् ।
परितुष्टः शिवः प्राह पार्वत्या परिचोदितः ॥१०॥

ईश्वर उवाच -
पुत्रि मा साहसं कार्षीः शुद्धदेहासि साम्प्रतम् ।
तुष्टोऽहं तपसा तेऽद्य वरं वरय वाञ्छितम् ॥११॥

अलिकोवाच -
यदि तुष्टोऽसि देवेश वरार्हा यद्यहं मता ।
नानापापाग्नितप्ताया देहि शुद्धिं परां मम ॥१२॥
त्वं मे नाथो ह्यनाथायास्त्वमेव जगतां गुरुः ।
दीनानाथसमुद्धर्ता शरण्यः सर्वदेहिनाम् ॥१३॥

ईश्वर उवाच -
त्वं भद्रे शुद्धदेहासि मा किंचिदनुशोचिथाः ।
स्वनाम्ना स्थापयित्वेह मां ततः स्वर्गमेष्यसि ॥१४॥
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।
अलिकापि ततो भक्त्या स्नात्वा संस्थाप्य शङ्करम् ॥१५॥
दत्त्वा दानं च विप्रेभ्यो लोकमाप महोत्कटम् ।
पितरं च समासाद्य मातरं च युधिष्ठिर ॥१६॥
तैश्च संमानिता प्रीत्या बन्धुभिः सालिका ततः ।
विमानवरमारूढा दिव्यमालान्विता नृप ॥१७॥
गौरीलोकमनुप्राप्तसखित्वेऽद्यापि मोदते ।
ततः प्रभृति तत्पार्थ विख्यातमलिकेश्वरम् ॥१८॥
तत्र तीर्थे तु या नारी पुरुषो वा युधिष्ठिर ।
स्नात्वा सम्पूजयेद्भक्त्या महादेवमुमायुतम् ॥१९॥
स पापैर्विविधैर्मुक्तो लोकमाप्नोति शांकरम् ।
मानसं वाचिकं पापं कायिकं यत्पुरा कृतम् ॥२०॥
सर्वं तद्विलयं याति भोजयित्वा द्विजान्सदा ।
दीपं दत्त्वा च देवाग्रे न रोगैः परिभूयते ॥२१॥
धूपपात्रं विमानं च घण्टां कलशमेव च ।
दत्त्वा देवाय राजेन्द्र शाक्रं लोकमवाप्नुयात् ॥२२॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवासागरसङ्गमेऽलिकेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP