रेवा खण्डम् - अध्याय ४१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम् ।
यत्र सिद्धो महायक्षः कुण्डधारो नृपोत्तम ॥१॥
तपः कृत्वा सुविपुलं सुरासुरभयंकरम् ।
पौलस्त्यमन्दिरे चैव चिक्रीड नृपसत्तम ॥२॥
युधिष्ठिर उवाच -
कस्मिन्युगे समुत्पन्नः कस्य पुत्रो महामतिः ।
तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः ॥३॥
एतद्विस्तरतस्तात कथयस्व ममानघ ।
शृण्वतश्च न तृप्तिर्मे कथामृतमनुत्तमम् ॥४॥
श्रीमार्कण्डेय उवाच -
त्रेतायुगे ब्रह्मसमः पौलस्त्योनाम विश्रवाः ।
तपः कृत्वा सुविपुलं भरद्वाजसुतोद्भवः ॥५॥
पुत्रं पौत्रगणैर्युक्तं पत्न्या भक्त्या सुतोषितः ।
धनदं जनयामास सर्वलक्षणलक्षितम् ॥६॥
जातमात्रं तु तं ज्ञात्वा ब्रह्मा लोकपितामहः ।
चकार नाम सुप्रीत ऋषिदेवसमन्वितः ॥७॥
यस्माद्विश्रवसो जातो मम पौत्रत्वमागतः ।
तस्माद्वैश्रवणो नाम तव दत्तं मयानघ ॥८॥
तथा त्वं सर्वदेवानां धनगोप्ता भविष्यसि ।
चतुर्थो लोकपालानामक्षयश्चाव्ययो भुवि ॥९॥
तस्य भार्या महाराज ईश्वरीति च विश्रुता ।
यक्षो यक्षाधिपः श्रेष्ठस्तस्य कुण्डोऽभवत्सुतः ॥१०॥
स च रूपं परं प्राप्य मातापित्रोरनुज्ञया ।
तपश्चचार विपुलं नर्मदातटमाश्रितः ॥११॥
ग्रीष्मे पञ्चाग्निसंतप्तो वर्षासु स्थण्डिलेशयः ।
हेमन्ते जलमध्यस्थो वायुभक्षः शतं समाः ॥१२॥
एवं वर्षशते पूर्णे एकाङ्गुष्ठेऽभवन्नृप ।
अस्थिभूतः परं तात ऊर्ध्वबाहुस्ततः परम् ॥१३॥
अतपच्च घृतश्वासः कुण्डलो भरतर्षभ ।
चतुर्थे वर्षशतके तुतोष वृषवाहनः ॥१४॥
वरं वृणीष्व भो वत्स यत्ते मनसि रोचते ।
ददामि ते न सन्देहस्तपसा तोषितो ह्यहम् ॥१५॥
कुण्डल उवाच -
यक्षाधिपप्रसादेन तस्यैवानुचरः पुरे ।
विचरामि यथाकाममवध्यः सर्वशत्रुषु ॥१६॥
तथेत्युक्त्वा महादेवः सर्वलोकनमस्कृतः ।
जगामाकाशमाविश्य कैलासं धरणीधरम् ॥१७॥
गते चादर्शनं देवे सोऽपि यक्षो मुदान्वितः ।
स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम् ॥१८॥
अलंकृत्वा जगन्नाथं पुष्पधूपानुलेपनैः ।
विमानैश्चामरैश्छत्रैस्तथा वै लिङ्गपूरणैः ॥१९॥
तर्पयित्वा द्विजान्सम्यगन्नपानादिभूषणैः ।
प्रीणयित्वा महादेवं ततः स्वभवनं ययौ ॥२०॥
तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
उत्तमं परमं पुण्यं कुण्डलेश्वरनामतः ॥२१॥
तत्र तीर्थे तु यः कश्चिदुपवासपरायणः ।
अर्चयेद्देवमीशानं सर्वपापैः प्रमुच्यते ॥२२॥
सुवर्णं रजतं वापि मणिं मौक्तिकमेव च ।
दद्याद्भोज्यं ब्राह्मणेभ्यः स सुखी मोदते दिवि ॥२३॥
तत्र तीर्थे तु यः स्नात्वा ऋग्यजुःसामगोऽपि वा ।
ऋचमेकां जपित्वा तु सकलं फलमश्नुते ॥२४॥
गां प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव ।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥२५॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
स्वर्गे वासो भवेत्तस्य पुत्रपौत्रैः समन्वितः ॥२६॥
तावन्ति वर्षाणि महानुभावः स्वर्गे वसेत्पुत्रपौत्रैश्च सार्द्धम् ।
तत्रान्नदो याति महेशलोकमसंख्यवर्षाणि न संशयोऽत्र ॥२७॥
स वै सुखी मोदते स्वर्गलोके गन्धर्वसिद्धाप्सरःसम्प्रगीते ।
एवं तु ते धर्मसुत प्रभावस्तीर्थस्य सर्वः कथितश्च पार्थ ॥२८॥
श्रुत्वा स्तुवन्मुच्यते सर्वपापैः पुनस्त्रिलोकीमिह तत्प्रभावात् ॥२९॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कुण्डलेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 09, 2024
TOP