संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १५९

रेवा खण्डम् - अध्याय १५९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज तीर्थं परमपावनम् ।
नर्मदायां सुदुष्प्रापं सिद्धं ह्यनरकेश्वरम् ॥१॥
तस्मिंस्तीर्थे नरः स्नात्वा पापकर्मापि भारत ।
न पश्यति महाघोरं नरकद्वारसंज्ञिकम् ॥२॥
युधिष्ठिर उवाच -
शुभाशुभफलैस्तात भुक्तभोगा नरास्त्विह ।
जायन्ते लक्षणैर्यैस्तु तानि मे वद सत्तम ॥३॥
यथा निर्गच्छते जीवस्त्यक्त्वा देहं न पश्यति ।
तथा गच्छन्पुनर्देहं पञ्चभूतसमन्वितः ॥४॥
त्वगस्थिमांसमेदोऽसृक्केशस्नायुशतैः सह ।
विण्मूत्ररेतःसङ्घाते का संज्ञा जायते नृणाम् ॥५॥
एवमुक्तः स मार्कण्डः कथयामास योगवित् ।
ध्यात्वा सनातनं सर्वं देवदेवं महेश्वरम् ॥६॥
मार्कण्डेय उवाच -
शृणु पार्थ महाप्रश्नं कथयामि यथाश्रुतम् ।
सकाशाद्ब्रह्मणः पूर्वमृषिदेवसमागमे ॥७॥
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥८॥
अचीर्णप्रायश्चित्तानां यमलोके ह्यनेकधा ।
यातनाभिर्वियुक्तानामनेकां जीवसन्ततिम् ॥९॥
गत्वा मनुष्यभावे तु पापचिह्ना भवन्ति ते ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥१०॥
सहित्वा यातनां सर्वां गत्वा वैवस्वतक्षयम् ।
विस्तीर्णयातना ये तु लोकमायान्ति चिह्निताः ॥११॥
गद्गदोऽनृतवादी स्यान्मूकश्चैव गवानृते ।
ब्रह्महा जायते कुष्ठी श्यावदन्तस्तु मद्यपः ॥१२॥
कुनखी स्वर्णहरणाद्दुःश्चर्मा गुरुतल्पगः ।
संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः ॥१३॥
ग्रामशूकरतां याति ह्ययाज्ययाजको नृप ।
खरो वै बहुयाजी स्याच्छ्वानिमन्त्रितभोजनात् ॥१४॥
अपरीक्षितभोजी स्याद्वानरो विजने वने ।
वितर्जकोऽथ मार्जारः खद्योतः कक्षदाहतः ॥१५॥
अविद्यां यः प्रयच्छेत बलीवर्दो भवेद्धि सः ।
अन्नं पर्युषितं विप्रे ददानः क्लीबतां व्रजेत् ॥१६॥
मात्सर्यादथ जात्यन्धो जन्मान्धः पुस्तकं हरन् ।
फलान्याहरतोऽपत्यं म्रियते नात्र संशयः ॥१७॥
मृतो वानरतां याति तन्मुक्तोऽथ गलाडवान् ।
अदत्त्वा भक्षयंस्तानि ह्यनपत्यो भवेन्नरः ॥१८॥
हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः ।
प्रव्राजी गमनाद्राजन् भवेन्मरुपिशाचकः ॥१९॥
वातको जलहर्ता च धान्यहर्ता च मूषकः ।
अप्राप्तयौवनां गच्छन् भवेत्सर्प इति श्रुतिः ॥२०॥
गुरुदाराभिलाषी च कृकलासो भवेच्चिरम् ।
जलप्रस्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥२१॥
अविक्रेयान् विक्रयन् वै विकटाक्षो भवेन्नरः ।
अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात् ॥२२॥
मृतस्यैकादशाहे तु भुञ्जानः श्वोपजायते ।
प्रतिश्रुत्य द्विजायार्थमददन्मधुको भवेत् ॥२३॥
राज्ञीगमाद्भवेद्दुष्टतस्करो विड्वराहकः ।
परिवादी द्विजातीनां लभते काच्छपीं तनुम् ॥२४॥
व्रजेद्देवलको राजन्योनिं चाण्डालसंज्ञिताम् ।
दुर्भगः फलविक्रेता वृश्चिको वृषलीपतिः ॥२५॥
मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ।
सोदर्यागमनात्षण्ढो दुर्गन्धश्च सुगन्धहृत् ॥२६॥
ग्रामभट्टो दिवाकीर्तिर्दैवज्ञो गर्दभो भवेत् ।
कुपण्डितः स्यान्मार्जारो भषणो व्यास एव च ॥२७॥
स एव दृश्यते राजन्प्रकाशात्परमर्मणाम् ।
यद्वा तद्वापि पारक्यं स्वल्पं वा यदि वा बहु ॥२८॥
कृत्वा वै योनिमाप्नोति तैरश्चीं नात्र संशयः ।
एवमादीनि चान्यानि चिह्नानि नृपसत्तम ॥२९॥
स्वकर्मविहितान्येव दृश्यन्ते यैस्तु मानवाः ।
ततो जन्म ततो मृत्युः सर्वजन्तुषु भारत ॥३०॥
जायते नात्र सन्देहः समीभूते शुभाशुभे ।
स्त्रीपुंसोः सम्प्रयोगेण विषुद्धे शुक्रशोणिते ॥३१॥
पञ्चभूतसमोपेतः सषष्ठः परमेश्वरः ।
इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः ॥३२॥
धारणं प्रेरणं दुःखमिच्छाहङ्कार एव च ।
प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ॥३३॥
तस्येदमात्मनः सर्वमनादेरादिमिच्छतः ।
प्रथमे मासि स क्लेदभूतो धातुविमूर्छितः ॥३४॥
मास्यर्बुदं द्वितीये तु तृतीये चेन्द्रियैर्युतः ।
आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रबलादिकम् ।
वायोस्तु स्पर्शनं चेष्टां दहनं रौक्ष्यमेव च ॥३५॥
पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशनम् ।
सलिलाद्रसनां शैत्यं स्नेहं क्लेदं समार्दवम् ॥३६॥
भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।
आत्मा गृह्णात्यजः पूर्वं तृतीये स्पन्दते च सः ॥३७॥
दौर्हृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥३८॥
स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलं च वर्णश्च नखरोम्णां च सम्भवः ॥३९॥
मनसा चेतनायुक्तो नखरोमशतावृतः ।
सप्तमे चाष्टमे चैव त्वचावान् स्मृतिवानपि ॥४०॥
पुनर्गर्भं पुनर्धात्रीमेनस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥४१॥
नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निर्गच्छते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥४२॥
शरीरावयवैर्युक्तो ह्यङ्गप्रत्यङ्गसंयुतः ।
अष्टोत्तरं मर्मशतं तत्रास्था तु शतत्रयम् ॥४३॥
सप्त शिरःकपालानि विहितानि स्वयम्भुवा ।
तिस्रः कोट्योऽर्धकोटी च रोम्णामङ्गेषु भारत ॥४४॥
द्वासप्ततिसहस्राणि हृदयादभिनिसृताः ।
हितानाम हि ता नाड्यस्तासां मध्ये शशिप्रभा ॥४५॥
एवं प्रवर्तते चक्रं भूतग्रामे चतुर्विधे ।
उत्पत्तिश्च विनाशश्च भवतः सर्वदेहिनाम् ॥४६॥
गतिरूर्ध्वा च धर्मेण ह्यधर्मेण त्वधोगतिः ।
जायते सर्ववर्णानां स्वधर्मचलनान्नृप ॥४७॥
देवत्वे मानवत्वे च दानभोगादिकाः क्रियाः ।
दृश्यन्ते या महाराज तत्सर्वं कर्मजं फलम् ॥४८॥
स्वकर्म विहिते घोरे कामक्सोधार्जिते शुभे ।
निमज्जेन्नरके घोरे यस्योत्तारो न विद्यते ॥४९॥
उत्तारणाय जन्तूनां नर्मदातटसंस्थितम् ।
एवमेतन्महातीर्थं नरकेश्वरमुत्तमम् ॥५०॥
नरकापहं महापुण्यं महापातकनाशनम् ।
तत्तीर्थं सर्वतीर्थानामुत्तमं भुवि दुर्लभम् ॥५१॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत महेश्वरम् ।
महापातकयुक्तोऽपि नरकं नैव पश्यति ॥५२॥
तत्र तीर्थे तु यो दद्याद्धेनुं वैतरणीं शुभाम् ।
स मुच्यते सुखेनैव वैतरण्यां न संशयः ॥५३॥
युधिष्ठिर उवाच -
यमद्वारे महाघोरे या सा वैतरणी नदी ।
किंरूपा किंप्रमाणा सा कथं सा वहति द्विज ॥५४॥
कथं तस्याः प्रमुच्यन्ते केषां वासस्तु संततम् ।
केषां तु सानुकूला सा ह्येतद्विस्तरतो वद ॥५५॥
श्रीमार्कण्डेय उवाच -
धर्मपुत्र महाबाहो शृणु सर्वं मयोदितम् ।
या सा वैतरणी नाम यमद्वारे महासरित् ॥५६॥
अगाधा पाररहिता दृष्टमात्रा भयावहा ।
पूयशोणिततोया सा मांसकर्दमनिर्मिता ॥५७॥
तत्तोयं भ्रमते तूर्णं तापीमध्ये घृतं यथा ।
कृमिभिः सङ्कुलं पूयं वज्रतुण्डैरयोमुखैः ॥५८॥
शिशुमारैश्च मकरैर्वज्रकर्तरिसंयुतैः ।
अन्यैश्च जलजीवैः सा सुहिंस्रैर्मर्मभेदिभिः ॥५९॥
तपन्ति द्वादशादित्याः प्रलयान्त इवोल्बणाः ।
पतन्ति तत्र वै मर्त्याः क्रन्दन्तो भृशदारुणम् ॥६०॥
हा भ्रातः पुत्र हा मातः प्रलपन्ति मुहुर्मुहुः ।
असिपत्त्रवने घोरे पतन्तं योऽभिरक्षति ॥६१॥
प्रतरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ।
चतुर्विधैः प्राणिगणैर्द्रष्टव्या सा महानदी ॥६२॥
तरन्ति तस्यां सद्दानैरन्यथा तु पतन्ति ते ।
मातरं ये न मन्यन्ते ह्याचार्यं गुरुमेव च ॥६३॥
अवजानन्ति मूढा ये तेषां वासस्तु संततम् ।
पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् ॥६४॥
परित्यजन्ति ये पापाः संततं तु वसन्ति ते ।
विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ॥६५॥
स्त्रीबालवृद्धदीनानां छिद्रमन्वेषयन्ति ये ।
पच्यन्ते तत्र मध्ये वै क्रन्दमानाः सुपापिनः ॥६६॥
श्रान्तं बुभुक्षितं विप्रं यो विघ्नयति दुर्मतिः ।
कृमिभिर्भक्ष्यते तत्र यावत्कल्पशतत्रयम् ॥६७॥
ब्राह्मणाय प्रतिश्रुत्य यो दानं न प्रयच्छति ।
आहूय नास्ति यो ब्रूते तस्य वासस्तु संततम् ॥६८॥
अग्निदो गरदश्चैव राजगामी च पैशुनी ।
कथाभङ्गकरश्चैव कूटसाक्षी च मद्यपः ॥६९॥
वज्रविध्वंसकश्चैव स्वयंदत्तापहारकः ।
सुक्षेत्रसेतुभेदी च परदारप्रधर्षकः ॥७०॥
ब्राह्मणो रसविक्रेता वृषलीपतिरेव च ।
गोकुलस्य तृषार्तस्य पालीभेदं करोति यः ॥७१॥
कन्याभिदूषकश्चैव दानं दत्त्वा तु तापकः ।
शूद्रस्तु कपिलापानी ब्राह्मणो मांसभोजनी ॥७२॥
एते वसन्ति सततं मा विचारं कृथा नृप ।
सानुकूला भवेद्येन तच्छृणुष्व नराधिप ॥७३॥
अयने विषुवे चैव व्यतीपाते दिनक्षये ।
अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ॥७४॥
कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ।
स्वर्णशृङ्गीं रूप्यखुरां कांस्यपात्रस्य दोहिनीम् ॥७५॥
कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ।
कुर्यात्सद्रोणशिखर आसीनां ताम्रभाजने ॥७६॥
यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।
इक्षुदण्डमयं बद्ध्वा ह्युडुपं पट्टबन्धनैः ॥७७॥
उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।
कृत्वा प्रकल्पयेद्विद्वाञ्छत्त्रोपानद्युगान्विताम् ॥७८॥
अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।
इममुच्चारयेन्मन्त्रं संगृह्यास्याश्च पुच्छकम् ॥७९॥
ओं यमद्वारे महाघोरे या सा वैतरणी नदी ।
तर्तुकामो ददाम्येनां तुभ्यं वैतरणि नमः ।
इत्यधिवासनमन्त्रः ॥८०॥
गावो मे चाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥८१॥
ओं विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ।
सदक्षिणा मया दत्ता तुभ्यं वैतरणि नमः ।
इति दानमन्त्रः ॥८२॥
ब्राह्मणं धर्मराजं च धेनुं वैतरणीं शिवाम् ।
सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥८३॥
पुच्छं संगृह्य सुरभेरग्रे कृत्वा द्विजं ततः ॥८४॥
धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ।
उत्तितीर्षुरहं धेनो वैतरण्यै नमोऽस्तु ते ।
इत्यनुव्रजमन्त्रः ॥८५॥
अनुव्रजेत गच्छन्तं सर्वं तस्य गृहं नयेत् ।
एवं कृते महीपाल सरित्स्यात्सुखवाहिनी ॥८६॥
तारयते तया धेन्वा सा सरिज्जलवाहिनी ।
सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ॥८७॥
रोगी रोगाद्विमुक्तः स्याच्छाम्यन्ति परमापदः ।
स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥८८॥
मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् ।
स्वहस्तेन ततो देयं मृते कः कस्य दास्यति ।
इति मत्वा महाराज स्वदत्तं स्यान्महाफलम् ॥८९॥
इत्येवमुक्तं तव धर्मसूनो दानं मया वैतरणीसमुत्थम् ।
शृणोति भक्त्या पठतीह सम्यक्स याति विष्णोः पदमप्रमेयम् ॥९०॥

श्रीमार्कण्डेय उवाच -
प्राप्ते चाश्वयुजे मासि तस्मिन्कृष्णा चतुर्दशी ।
स्नात्वा कृत्वा ततः श्राद्धं सम्पूज्य च महेश्वरम् ॥९१॥
पितृभ्यो दीयते दानं भक्तिश्रद्धासमन्वितैः ।
पश्चाज्जागरणं कुर्यात्सत्कथाश्रवणादिभिः ॥९२॥
ततः प्रभातसमये स्नात्वा वै नर्मदाजले ।
तर्पणं विधिवत्कृत्वा पित्ःणां देवपूर्वकम् ॥९३॥
सौवर्णे घृतसंयुक्तं दीपं दद्याद्द्विजातये ।
पश्चात्संभोजयेद्विप्रान् स्वयं चैव विमत्सरः ॥९४॥
एवं कृते नरश्रेष्ठ न जन्तुर्नरकं व्रजेत् ।
अवश्यमेव मनुजैर्द्रष्टव्या नारकी स्थितिः ॥९५॥
अनेन विधिना कृत्वा न पश्येन्नरकान्नरः ।
तत्र तीर्थे मृतानां तु नराणां विधिना नृप ॥९६॥
मन्वन्तरं शिवे लोके वासो भवति दुर्लभे ।
विमानेनार्कवर्णेन किंकिणीशतशोभिना ॥९७॥
स गच्छति महाभाग सेव्यमानोऽप्सरोगणैः ।
भुनक्ति विविधान्भोगानुक्तकालं न संशयः ॥९८॥
पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥९९॥
प्राप्य चाश्वयुजे मासि कृष्णपक्षे चतुर्दशीम् ।
अहोरात्रोषितो भूत्वा पूजयित्वा महेश्वरम् ।
महापातकयुक्तोऽपि मुच्यते नात्र संशयः ॥१००॥
अष्टाविंशतिकोट्यो वै नरकाणां युधिष्ठिर ।
विमुक्ता नरकैर्दुःखैः शिवलोकं व्रजन्ति ते ॥१०१॥
तत्र भुक्त्वा महाभोगान्दिव्यैश्वर्यसमन्वितान् ।
लभन्ते मानुषं जन्म दुर्लभं भुवि मानवाः ॥१०२॥

॥ इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽनरकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP