संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
विषयानुक्रमणिका

रेवाखण्डम् - विषयानुक्रमणिका

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


अथावन्त्यखण्डे तृतीय रेवाखण्डम् ॥

१ मङ्गलाचरणम्, रेवावर्णनम्, सूतशौनकसंवादप्रसङ्गेन पुराणधर्मशास्त्रात्मविद्यानां मुख्यत्ववर्णनम्, अष्टादशमहापुराणोपपुराणानां संख्यावर्णनं नामनिर्देशश्च, पुराणश्रवणफलवर्णनम् ॥

२ जनमेजयवैशंपायनसंवादप्रसङ्गेन वनवाससमये यात्रार्थं गतानां पाण्डवानां विन्ध्यपर्वतं प्रति गमनम्, तत्र विन्ध्यारण्यस्थस्य मार्कण्डेयर्षेर्दर्शनम, स्वातिथ्यकारिणं मार्कण्डेयं प्रति धर्मराजस्य तीर्थक्षेत्रादिमाहात्म्यसंबन्धिप्रश्नवर्णनम्, मार्कण्डेयेन गङ्गादिसर्वतीर्थमाहात्म्यवर्णनम्, रेवामाहात्म्यस्य ततोऽप्यधिकत्व वर्णनम् ॥

३ मार्कण्डेयेन निजवृत्तान्तवर्णने प्रलयकालीनस्थितिवर्णनम्, सलिले भ्रमतो मार्कण्डेयस्याग्रे नौकां गृहीत्वा कस्याश्चिदबलाया आगमनम्, मनुना सह मार्कण्डेयस्य नावि समारोहणम्, मार्कण्डेयेन भगवत्स्तुतिवर्णनम् ॥

४ मार्कण्डेयस्य त्रिकूटशिखरस्थमहादेवदर्शनम्, अबलावृत्तान्तवर्णने नर्मदोत्पत्ति-
कथनम्, शंकरप्रसादान्नर्मदाया अक्षय्यत्वस्य वर्णनम्, नर्मदापञ्चदशनाम-
वर्णनम् ॥

५ युधिष्ठिरमार्कण्डेयसंवादप्रसङ्गेन सप्तकल्पवर्णनम्, सप्तकल्पपर्यंतं नर्मदाया आस्थानम्, ततो मार्कण्डेयं प्रति युधिष्ठिरेण नर्मदामाहात्म्यजिज्ञासया प्रश्नवर्णनम, मार्कण्डेयेन नर्मदामाहात्म्यकथनम्, तत्र प्रथमं नर्मदानामनिरुक्तिवर्णनम् ॥

६ मायूरकल्पे मयूररूपस्य महादेवस्य नर्मदायाश्च संवादपूर्वकं नर्मदया स्वस्या अक्षय्यत्वादिवर्णनम्, त्रिकूटस्य शिखरद्वन्द्वतो नर्मदागंगयोरुत्पत्तिवर्णनम्? त्रिकूटस्य भग्नीभततृतीयशिखरतः सप्तकुलपर्वतानामुत्पत्तिवर्णनम्, नर्मदायाः सहेतुकनाम माहात्म्यवर्णनम् ॥

७ कूर्मकल्पसमये नद्यादिपर्वतसमुद्भववर्णनम् ॥

८ कल्पकाले कस्यचिद्बकस्य मार्कण्डेयेन दर्शनम्, कस्त्वमिति मार्कण्डेयपृष्टेन बकेन जगत्स्थितिरक्षाप्रलयादिकर्ताहमित्याद्युत्तरप्रदानवर्णनम्, मार्कण्डेयस्य किंचिच्छब्दश्रवणम्, दशदिक्षु स्थितायाः कन्याया दर्शनम्, ततो महाशिवलिंगदर्शनम्, शिवलिगार्चनकारिण्याः कन्याया दर्शनम्, तया म्वस्या नर्मदानामकथनम्, इत्थं बककल्पसमुद्भववर्णनम् ॥

९ कल्पसमये शयानं भगवन्तं दृष्ट्वा तथा कांचित्कन्यकां दृष्ट्वा शंकरं च समालोक्य मार्कण्डेयेनेश्वरस्तुतिकरणम्, शंकरनर्मदासंवादवर्णनम्. नर्मदोत्पत्तिस्नानफलादिकथनम् ॥

१० सर्वकल्पेषु नर्मदायाः स्थितिवर्णनम्, नर्मदास्नानफलश्रुतिक ॥

११ नर्मदातीरे वेदाध्ययनपठनफलम्, नर्मदायां स्नानदानजपहोमहवनादिफलम्, नर्मदादर्शनपुण्यफलम्, नर्मदासहवासेन सर्वसिद्ध्यादिमनोरथप्राप्तिफलकथनम्, नर्मदातीरे भस्मलेपनाद्याह्निककर्मफलकथनम्, नर्मदायाः सर्वतोऽप्यधिकत्वरूपमाहात्म्यवर्णनम् ॥

१२ नर्मदातीरे संप्राप्तैर्ऋषिभिर्नर्मदास्तोत्रकरणम ॥

१३ एकविंशतिसंख्याकानां कल्पानां यथाक्रमेण नामनिर्देशपूर्वकं वर्णनम्, तेषु कल्पेषु नर्मदावस्थानवर्णनम् ॥

१४ कालरात्रिकृतसृष्टिसहारसंरंभवर्णनम ॥

१५ संवर्तसमये वातोप्णशीतादीनां प्रकोपनपूर्वकसृष्टिसंहारवर्णनम ॥

१६ कालरात्रिसाहाय्येन शिवेन कृताज्जगन्नाशान्त्रस्तानां देवानां ब्रह्मणा समाश्वासनम्, ब्रह्मणा कालवर्णनम्, ब्रह्मणा शिवस्तुतिकरणवर्णनम् . १९२ १

१७ संवर्तकाले द्वादशादित्यप्रतपनवर्णनम्, पञ्चमहाभूतप्रकोपवर्णनम्, जगत्संहरणवर्णनम् ॥

१८ चतुरुदधीनामेकीभवनम्, गजशुंडापरिमितधारासंपातवृष्टिवर्णनम्, चतुर्दशभुवनानां सलिलमध्य एकत्राऽऽवासवर्णनम्, मार्कण्डेयेन भयाद्भगवत्स्तवनकरणवर्णनम् ॥

१९ भगवत्स्तवनेनं मार्कण्डेयं प्रति कयाचिद्गोरूपधारिण्या नर्मदयाऽभिवचनदानम्, मार्कण्डेयकृता नर्मदास्तुतिः, श्रीवाराहकल्पवृत्तांतवर्णनम् ॥

२० प्रजासंहारचिह्नलक्षणवर्णनम्, प्रलयकाल एकाकिना मार्कण्डेयेन भिया शेषशायिनः स्तवकरणम्, तदा कस्याश्चिद्देव्या दर्शनम्, ततो मार्कण्डेयोपदेशकारिण्या पृथ्व्या देव्या अन्तर्धानम ॥

२१ नर्मदातीरस्थतीर्थमाहात्म्यवर्णनोपक्रमे प्रथमतः कपिलासरित्संभववर्णनम् ॥

२२ गंगादिषोडशनदीनां पत्नीत्वेन प्राप्तयेऽग्निनेश्वरमुद्दिश्य तपःकरणम्, तेन तपसा संतुष्टेन शंकरेणाग्नये वरप्रदानम् , विशल्यासंभववर्णनम् ॥

२३ कपिलाविशल्यानद्योः संगमे स्नानदानफलमाहात्म्यवर्णनम् ॥

२४ करानर्मदासंगममाहात्म्यवर्णनम् ॥

२५ नीलगंगायाः संगममाहात्म्यवर्णनम् ॥

२६ जालेश्वरोत्पत्तिकथनमाहात्म्यवर्णने बाणासुराद्यसुरपीडितेषु सेन्द्रादिदेवेषु ब्रह्माणं विष्णुं प्रति च शरणगमनम्, ततश्च सब्रह्मणा विष्णुना सार्धं सर्वेषां देवानां कैलास आगमनम्, तत्र सर्वैर्देवर्षिभिर्महेश्वरस्तवनम्, शिवाज्ञया नारदस्य बाणासुरसमीप आगमनम्; बाणासुरवचनान्नारदस्य बाणांतःपुरे बाणदारान्द्रष्टुकामस्य प्रवेशः, बाणस्त्रिया पृष्टेन नारदेन तां प्रति मधूकतृतीयाव्रतस्नानदानादिफल माहात्म्यकथनम् ॥

२७ राज्ञीनारदसंवादप्रसंगेन त्रिपुरक्षोभवर्णनम् ॥

२८ नर्मदातट उमया सार्धं क्रीडमानस्य शिवस्याग्रे नारदगमनम्, कृतकार्यस्य नारदस्य शिवेन सत्कारकरणम्, त्रिपुरवधार्थं शिवेन मन्त्रपूर्वकशरप्रेरणम्, शंकरप्रेरितपत्त्रिणा सर्वशत्रूणां भस्मीकरणम्, मस्तके शिवलिंगं धृत्वा बाणेन शिवस्तुतिकरणम्, ईश्वरेण बाणासुराय वरप्रदानम्, ज्वालेश्वरतीर्थस्य ज्वालानामकनद्याश्च उत्पत्तिमाहात्म्यवर्णनम्, अमरेश्वरतीर्थमाहात्म्यवर्णनम् ॥

२९ युधिष्ठिरमार्कण्डेयसंवादप्रसंगेन कावेरीसंगमस्नानदानफलमाहात्म्यवर्णनम्, तत्र कावेरीसंगमे स्नानं कर्तुं कुबेरस्य चान्द्रायणादितीक्ष्णतरतपोनियमान्दृष्ट्वा परमेश्वरस्यागमनम्, कुबेरेणेश्वरस्तवनम्, तुष्टेनेशेन तत्तीर्थस्नानमाहात्म्यकथनम् ॥

३० अथ दारुतीर्थमाहात्म्यम् ॥

३१ ब्रह्मावर्ततीर्थमाहात्म्यम् ॥

३२ पत्रेश्वरमाहात्म्यम्, शक्रेश्वरमाहात्म्यम् ॥

३३ अग्नितीर्थमाहात्म्यम्, तत्र पूर्वकालिकस्य दुर्योधनाख्यस्य कस्यचिद्राज्ञः कन्यां सुदर्शनानाम्नीं याचितुमागतस्य द्विजरूपधारिणो वह्नेरसवर्णत्वाद्राज्ञा दुर्योधनेन निषेधकरणम्, ततो दुःखितस्याग्नेरदर्शनम्, यज्ञं चिकीर्षोर्दुर्योधनस्य राज्ञो यज्ञकुण्डे वह्न्यभावं दृष्ट्वा सविस्मयीभवनम्, तत्कारणं ज्ञात्वा अग्निना समं स्वसुताया विवाहकरणम् ॥

३४ केनचिद्ब्राह्मणेन सूर्योपासनां कृत्वा नर्मदातीरे शिवलिंगस्थापनवर्णनम्, रवितीर्थे स्नानदानमाहात्म्यम् ॥

३५ मन्दोदरीरावणविवाहवर्णनपूर्वकं तयोर्विमानेन क्रीडाविहारवर्णनम्, रावणस्य पुत्रेण मेघनादेन शिवाराधनां कृत्वा स्वनाम्ना शिवलिंगस्थापनम्, मेघनादतीर्थे स्नानदानमाहात्म्यम् ॥

३६ दारुकाख्येन शक्रमित्रेण शिवप्रसादेन तल्लिंगस्थापनम्, दारुतीर्थे स्नानादिमाहात्म्यवर्णनम् ॥

३७ देवतीर्थमाहात्म्यवर्णनम् ॥

३८ दारुवने पार्वत्या सह विमानेन शंकरस्यागमनम्, शंकरपार्वतीसंवादपूर्वकं दारुवनमाहात्म्यवर्णनं नर्मदेश्वरतीर्थमाहात्म्यवर्णनं च ॥
३९ कुण्डात्समुत्थितायाः कपिलाया ब्रह्मदेवेन स्तुतिकरणम्, ब्रह्माज्ञया कपिलायाः स्वर्गतो मृत्युलोकं प्रत्यागमनम्, कपिलायाः प्रत्यङ्गे भिन्नभिन्नदेवतास्थापनवर्णनम्, कपिलातीर्वे स्नानादिमाहात्म्यवर्णनम् ॥

४० करंजनामकेन दनोः पुत्रेण ईश्वराराधनां कृत्वा तत्प्रसादेन स्वनाम्ना शिवलिंगस्थापनम्, करंजेश्वरतीर्थे स्नानमाहात्म्यम् ॥

४१ विश्रवसः पुत्रेण कुण्डलेन स्थापितस्य कुण्डलेश्वरतीर्थस्य माहात्म्यवर्णनम् ॥

४२ याज्ञवक्त्यकृततपश्चरणवर्णनम्, भ्रातरमन्वेषन्त्या याज्ञवल्क्यभगिन्यास्तत्रागमनम्, याज्ञवल्क्यस्य स्वप्ने वस्त्रान्तः शुक्रनिःसरणम्, प्रातर्वस्त्रमितस्ततोऽन्वेषयमाणस्य याज्ञवल्क्यस्य समीपे तद्भगिन्या आगमनम्, भगिनीप्रश्नवचनात्सर्ववृत्तान्तकथनम्, मृतभर्तृकया याज्ञवल्क्यभगिन्या तद्वस्त्रसंलग्नरेतःसंपर्कवशाद्गर्भधारणे जाते सति लज्जयाऽश्वत्थवृक्षमूले गत्वा तद्गर्भत्यागवर्णनम्, पिप्पलमूले वर्धितेन
पिप्पलादनामकबालमुनिना नारदेनोक्तां स्वस्य शनैश्चरग्रहकृतां पीडां दृष्ट्वाऽऽकाशपथा गच्छतः शनैश्चरस्य निजदृष्टिप्रक्षेपमात्रेणाधःपातनम्, बालकस्याषोडशाद्वर्षाच्छनैश्चरपीडा न भविष्यतीति निर्बन्धकथनम्, आग्नेयीधारणयाऽग्निं समुत्थाप्य पिप्पलादस्य कृत्यानिर्माणम्, पितुर्याज्ञवल्क्यस्योपरि कृत्यायाः प्रेरणम्, कृत्याभीतेन याज्ञवल्क्येन स्वस्य परित्राणार्थं ब्रह्मवैकुण्ठादिलोकेषु गमनम्, शंकरेण तस्याः कृत्याया योगीश्वरीति नामकरणम, पिप्पलादस्य तपश्चरणवर्णनम, शिवप्रसादेन पिप्पलादेन स्वनाम्ना पिप्पलादेश्वरेति लिंगस्थापनम्, तन्माहात्म्य वर्णनम् ॥

४३ विमलेश्वरतीर्थमाहात्म्यवर्णनम् ॥

४४ शूलभेदप्रशंसावर्णनम् ॥

४५ शूलभेदतीर्थोत्पत्तिवर्णनेंऽधकासुरवरप्रदानवृत्तान्तवर्णनम् ॥

४६ शूलभेदतीर्थोत्पत्तिवर्णनेऽन्धकासुरेण देवाञ्जित्वा शचीहरणवर्णनम् ॥

४७ देवानां ब्रह्मलोके गमनम्, देवैर्ब्रह्मणःस्तुति कृत्वा स्वागमनकारणकथनम्, ब्रह्मदेवेन सह देवानां विष्णुलोके गमनम्, ब्रह्मादिदेवैर्विष्णुस्तुतिकरणम्, विष्णुना देवान्प्रत्यभयवचनदानम् ॥

४८ उत्तानपादशंकरसंवादे अंधकविष्ण्वोर्युद्धवर्णनम्, तत्र परस्परेण परस्परोपर्यस्त्रप्रेषणम्, युद्धं कर्तुमसमर्थस्यान्धकस्य भगवता सामकरणम्, अन्धकेन भगवत्स्तुतिकरणम्, विष्णोराज्ञया शंकरेण समं युद्धं कर्तुं गतेनान्धकेन कैलासपर्वतस्य कम्पनम्, कोपाविष्टेन शिवेन साकमन्धकस्य महद्युद्धम्, शंकरप्रार्थिताया दुर्गायास्तत्रागमनम्, दुर्गासाहाय्येनान्धकस्य पराभवकरणम, अंधकेन शिवस्तुतिकरणम्, शंकरेणांधकस्य स्वसाम्यकरणवर्णनम् ॥

४९ अंधकासुरं हत्वोमया सार्धं शंकरस्य कैलासे गमनम, कैलासे प्राप्तैर्देवैः शंकरस्तुतिकरणम्, ततोंऽधकासुरयुद्धस्थाने शूलभेदतीर्थस्थापनम्, शूलभेदतीर्थमाहात्म्यवर्णनम् ॥

५० पात्रापात्रपरीक्षादानादिनियमवर्णनम् ॥

५१ शूलभेदतीर्थे दानधर्मप्रशंसामाहात्म्यवर्णनम् ॥

५२ दीर्घतपोमुन्याख्यानवर्णनम् ॥

५३ ऋक्षशृंगस्वर्गगमनवृत्तान्तवर्णनम् ॥

५४ दीर्घतपसः स्वर्गारोहणवृत्तान्तवर्णनम् ॥

५५ शूलभेदमाहात्म्ये काशीराजमोक्षगमनवृत्तान्तवर्णनम् ॥

५६ उत्तानपादेश्वरसंवादप्रसंगेन विंध्याचले देवैः शिवाराधनया भूम्यां गंगाया आह्वानकरणम्, गंगाया भुव्यागमनम्, गंगातीरे स्नानादिमाहात्म्यवर्णनम्,
देवशिलामाहात्म्यवर्णनम्, चेदिनाथस्य वैधव्यं गताया भानुमतीनाम्न्याः कन्यकाया रेवातटे गमनम्, भानुमत्या ओंकारेश्वरामरकंटकचक्रतीर्थ-
शूलभेदादितीर्थेषु गमनवर्णनम्, अथ देवशीलामाहात्म्यवर्णनम्, तत्प्रसंगेन भार्यया सह शबरव्याधस्य मृगयार्थमरण्ये गमनम्, मृगानलब्ध्वा भार्यावचनात्पद्मानि ग्रहीतुं सरस्तीरे शबरस्य गमनं पद्मग्रहणं च, शूलभेदादितीर्थेषु गत्वा शबरेण पद्मैः शिवार्चाकरणम्, भानुमतीशबरभार्ययोः संवादः, शबरेण सर्वतीर्थेषु श्राद्धविधिकरणम्, तीर्थस्नानदानादिफलमाहात्म्यवर्णनम् ॥

५७ भानुमत्या त्रयोदश्यां मार्कण्डेयह्रदे गत्वा स्नानदानादिकरणम्, व्याधस्वर्गगमनवृत्तान्तवर्णनम् ॥

५८ उत्तानपादशिवसंवादप्रसङ्गेन भानुमत्याः शूलभेदे तपःकरणम्, भानुमत्याः स्वर्गगमनवृत्तान्तवर्णनम्, शूलभेदमाहात्म्यवर्णनम् ॥

५९ पुष्करिणीतीर्थमाहात्म्यवर्णनम्, आदित्यतीर्थमाहात्म्यम् ॥

६० रेवातीर्थागतब्राह्मणैर्नर्मदायाः स्तोत्रकरणम्, रेवातीरस्थस्यादित्येश्वरस्य माहात्म्यवर्णनम्, ब्रह्महत्यादिपापयुक्तानां ब्राह्मणानामादित्येश्वरक्षेत्रे स्नानादिना पापनिवृत्तिपूर्वकमोक्षप्राप्तिवृत्तान्तवर्णनम् ॥

६१ इन्द्रकृततपश्चर्यावर्णनपूर्वकं शक्रेश्वरतीर्थमाहात्म्यवर्णनम् ॥

६२ इन्द्रस्थापितकरोडीश्वरतीर्थमाहात्म्यवर्णनम् ॥

६३ कुमारेश्वरतीर्थमाहात्म्यवर्णनम् ॥

६४ अगस्त्येश्वरतीर्थमाहात्म्यवर्णनम् ॥

६५ आनन्देश्वरतीर्थमाहात्म्यवर्णनम ॥

६६ मातृतीर्थमाहात्म्यवर्णनम् ॥

६७ लुङ्केश्वरतीर्थमाहात्म्यवर्णनप्रसङ्गेन कालपृष्ठदानवस्य तपश्चर्यावर्णनम्, शिवेन तस्मै वरप्रदानम्, दानववृषभयोर्युद्धे वृषभेण लांगूलेन दानवस्य पराभवकरणम्, दानवमागतं दृष्ट्वा वृषभं समारुह्य देवस्योमया सह कैलासे गमनम्, शङ्करेण स्वपृष्ठतोऽनुधावन्तं दानवं दृष्ट्वा इन्द्रब्रह्मादिलोकेषु पलायनम्, शिववचनान्नारदेन विष्णवे दानवपीडनादिसर्ववृत्तान्तकथनम्, मायया न्यग्रोधसमीपे विष्णोर्दानवमोहार्थं कन्यारूपधारणम्, कन्यां दृष्ट्वा मोहितेन कालपृष्ठ-दानवेन स्वमस्तकोपरि हस्तं कृत्वा भस्मभवनम्, ततो विष्णोः स्वस्थाने गमनम्, लुंकेश्वरस्थापनम्, लुंकेश्वरतीर्थस्नानमाहात्म्यवर्णनम् ॥

६८ धनदतीर्थमाहात्म्यवर्णनम् ॥

६९. मङ्गलस्थापितमंगलेश्वरोत्पत्तिवर्णनपूर्वकं मंगलेश्वरमाहात्म्यवर्णनम् ॥

७० रविनिर्मितरवितीर्थमाहात्म्यवर्णनम् ॥

७१ कामेश्वरतीर्थमाहात्म्यवर्णनम् ॥

७९ मणिनागेश्वरतीर्थवर्णने कद्रूविनतयोरुच्चैःश्रवोहयं दृष्ट्वा हयवर्णनिर्णयसंबन्धिकं मिथः प्रतिज्ञाकरणम्, स्वस्वप्रतिज्ञां सत्यां कर्तुमुभयोः प्रयत्नः, तत्र कद्रा नागेभ्यः शापे दत्ते तच्छापनिवारणाय मणिनागेन तपः कृत्वा शिवलिंगस्थापनम्, मणिनागेश्वरतीर्थे स्नानदानादिमाहात्म्यवर्णनम् ॥

७३ कामधेनुतपश्चरणे गोदेहान्निःसृतस्य गोपारेश्वरस्य तीर्थस्य माहात्म्यवर्णनम् ॥

७४ गौतमस्थापितगौतमेश्वरलिंगतीर्थमाहात्म्यवर्णनम् ॥

७५ शंखचूडतीर्थमाहात्म्यवर्णनम् ॥

७६ पारेश्वरतीर्थमाहात्म्यवर्णने पुत्रप्राप्त्यर्थं पराशरमुनितपश्चर्य्यावृत्तान्तवर्णनम्, तत्तपस्तुष्टेन शंकरेण पराशराय वरप्रदानम्, तत्र पराशरेण लिंगस्थापनम्, पारेश्वर- तीर्थे स्नानदानादिमाहात्म्यवर्णनम् ॥

७७ भीमेश्वरतीर्थमाहात्म्यवर्णनम् ॥

७८ रेवाया उत्तरे तीरे नारदेन तपश्चरणम्, तत्तपःसंतुष्टेन शिवेन नारदाय वर-
प्रदानम्, ईश्वरवचनान्नारदेन शिवलिंगस्थापनम्, नारदेश्वरतीर्थे स्नानदाना-
दिफलमाहात्म्यवर्णनम् ॥

७९ दधिस्कन्दमधुस्कन्दयोस्तीर्थयोर्दधिमधुदानमाहात्म्यवर्णनम्, दधिस्कन्दमधुस्कन्दतीर्थस्नानदानमाहात्म्यवर्णनम् ॥

८० दधिस्कन्दमधुस्कन्दतीर्थप्रभावोत्कर्षं प्रदर्शयितुं नानातीर्थान्भ्रान्त्वाऽऽगतेन नंदिना तपः कृत्वा तत्रैव स्वनाम्ना लिंगस्थापनम्, नंदिकेश्वरतीर्थमाहात्म्यवर्णनम् ॥

८१ वरुणेश्वरतीर्थमाहात्म्यवर्णनम् ॥

८२ वह्नितीर्थवर्णनपूर्वकं दधिस्कन्दादिन्त्यतीर्थानां माहात्म्यवर्णनम् ॥

८३ हनुमतेश्वरमाहात्म्यवर्णने रामेण रावणादीनां विनाशे कृते हनुमतः शिवदर्शनार्थ कैलासे गमनम्, राक्षसानां विनाशे ब्रह्महत्यादोषारोपीकरणान्नन्दिना द्वारे हनुमत्स्तंभनम्, ब्रह्महत्यानिबर्हणार्थं हनुमतो नर्मदायामागमनम्, हनुमत्कृतेन तपसा तुष्टेनेश्वरेण हनुमत आशीर्वचनम्, ईश्वराज्ञया हनुमता लिंगस्थापनम्, सुपर्वनामकस्य राज्ञः पुत्रस्य शतबाहुसंज्ञकस्य भ्रमतो हनुमद्वन आगमनम्., तत्रास्थिक्षेपार्थमागतस्य पिंगलकद्विजस्य राजपुत्रेण सह समागम: संवादश्च, अस्थिक्षेपकारणं पृच्छन्तं राज्पुत्रं प्रति ब्राह्मणेन शिखंडिराजतत्कन्यासंवादपुरःसरवृत्तान्तकथनपूर्वकं हनुमंतेश्वरमाहात्म्यवर्णनम् ॥

८४ कपितीर्थमाहात्म्यम्, रामेश्वरलक्ष्मणेश्वरकुम्भेश्वरतीर्थेषु स्नानदानादिफलमाहात्म्यवर्णनम् ॥

८५ दक्षेणेन्दवे सप्तविंशतिकन्या दत्त्वा रोहिणी विना चान्यासु चन्द्रस्याप्रीतिं दृष्ट्वा निजकन्यासु कारुण्याच्चन्द्राय क्षयित्वरूपशापदानम्, ततश्चन्द्रेण शापनिवृत्त्यर्थमीश्वरस्तुतिकरणम्, तत ईशानुज्ञया सोमनाथेति लिंगस्थापनम्, सोमनाथेश्वरलिंगप्रभावदर्शनार्थं ब्रह्महत्यायुतस्य कण्वर्षेर्ब्रह्महत्याविनाशनपूर्वककथावर्णनम्, सोमनाथेश्वरलिंगमाहात्म्यवर्णनम् ॥

८६ पिंगलेश्वरतीर्थमाहात्म्यवर्णनम् ॥

८७ ऋणत्रयमोचनतीर्थमाहात्म्यवर्णनम् ॥

८८ कपिलेश्वरतीर्थमाहात्म्यवर्णनम् ॥

८९ पूतिकेश्वरतीर्थमाहात्म्यवर्णनम् ॥

९० चक्रिनिर्मितचक्रतीर्थमाहात्म्यवर्णने तालमेघदानवजितान्देवान्दृष्ट्वा ब्रह्मणो विष्णुसमीपे गमनम्, देवकृतां स्वस्तुतिं श्रुत्वा भगवता देवेभ्योऽभयवचनदानम्, ततो विष्णुतालमेघयोर्युद्धे मिथः शस्त्रास्त्रप्रेरणम्, ततो भगवता स्वचक्रेण तालमेघशिरश्छेद्करणम्, तद्भगवच्चक्रं नर्मदाम्भसि पतितं दृष्ट्वा तत्र तीर्थनिर्माणम्, तस्य तीर्थस्य जलशायीत्यपरनामकचक्रतीर्थेतिनाम्ना प्रसिद्धिः, तत्र स्नानदानादिविशेषविधिविधानमाहात्म्यवर्णनम् ॥

९१ चंडादित्यतीर्थमाहात्म्यवर्णनम् ॥

९२ यमहास्यतीर्थेमाहात्म्यवर्णनम् ॥- - - - -

९३ कल्होडीतीर्थमाहात्म्यवर्णनम् ॥

९४ नंदिकेश्वरतीर्थमाहात्म्यवर्णनम् ॥

९५ नरनारायणस्थापितनारायणतीर्थमाहात्म्यवर्णनम् ॥

९६ कोटीश्वरतीर्थमाहात्म्यवर्णनम् ॥

९७ व्यासतीर्थोत्पत्तिवर्णनप्रसङ्गे पराशरमुनितपश्चरणवृत्तान्तवर्णनम्, तपसोंऽते पराशरमुनिना कस्याश्चिद्बालाया दाशकन्याया दर्शनम्, तां प्रति त्त्वं राजकन्यासि' इत्युक्त्वा तस्याः प्राक्सर्ववृत्तान्तकथनम्, ततः पराशरस्य तया मत्स्यगंधया सह संगमे तत्क्षणमेव पराशरमुनिवीर्यप्रभावाद्व्यासस्योत्पत्तिवर्णनम्, व्यासेन नर्मदातटे तपश्चरणम्, तत्तपःसंतुष्टेनेश्वरेण व्यासाय वरप्रदानम्, व्यासेन नर्मदास्तोत्रकरणं व्यासेन नर्मदातटे शिवलिंगस्थापनं च,. व्यासतीर्थे स्नानदानादिफलमाहात्म्यवर्णनम् ॥

९८ प्रभासतीर्थमाहात्म्यवर्णनम् ॥

९९ नागेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१०० मार्कंडेयस्थापितमार्कंडेयेशमाहात्म्यवर्णनम् ॥

१०१ संकर्षणतीर्थमाहात्म्यवर्णनम् ॥

१०२ मन्मथेश्वरमाहात्म्यवर्णनम् ॥

१०३ एरंडीसंगममाहात्म्यवर्णनम्, तत्रानपत्यत्वादनसूयाभ्यां शोककरणम्, अत्रेरनुज्ञया नर्मदातीरस्थैरंडीसंगमेऽनसूयया तपोर्थं गमनम्, तपसोऽन्ते त्रयाणां ब्रह्मादिदेवतानामागमनम्, देवैः पुत्रप्राप्त्यर्थमनसूयायै वरप्रदानम्, ततोऽनसूयाया दुर्वासोदत्तसोमाख्यपुत्रत्रयप्राप्तिवृत्तान्तवर्णनम्, ततस्तत्तीर्थमाहात्म्यवर्णनप्रसंगेन पुत्रशोकेन संतप्तस्य गोविन्दनाम्नः कृषीवलस्य कथावर्णनम्, तत्र तस्यैव भूमौ शयानस्य कृमित्वप्राप्तिवर्णनम्, ततस्तस्य पत्न्या सममेरण्डीसंगमे स्नानाद्यर्थं गमनम्, तत्र गोभूहिरण्यादिदानेन तयोर्दुःखान्मुक्तिः, गोविंदाख्यानश्रवणफलवर्णनम्, एरण्डीसंगममाहात्म्यवर्णनम् ॥

१०४ सुवर्णशिलातीर्थमाहात्म्यवर्णनम् ॥

१०५ करंजतीर्थमाहात्म्यवर्णनम् ॥

१०६ कामदतीर्थमाहात्म्यवर्णनम् ॥

१०७ भण्डारीतीर्थमाहात्म्यवर्णनम् ॥

१०८ रोहिणीतपश्चरणपूर्वकं रोहिणीतीर्थमाहात्म्यवर्णनम् ॥

१०९ चक्रतीर्थमाहात्म्यवर्णनम् ॥

११० धौतपापतीर्थमाहात्म्यवर्णनम् ॥

१११ स्कन्दतीर्थवर्णनप्रसङ्गेन स्कन्दजन्मवृत्तान्तकथनम्, स्कन्दस्य सेनापतित्वे स्थापनम्, स्कन्देन शिवलिंगस्थापनम्, स्कन्दतीर्थमाहात्म्यवर्णनम् ॥

११२ अग्निरसतीर्थमाहात्म्यवर्णनम् ॥

११३ कोटितीर्थमाहात्म्यवर्णनम् ॥

११४ अयोनिसंभवतीर्थमाहात्म्यवर्णनम् ॥.... ..

११५ अङ्गारकतीर्थमाहात्म्यवर्णनम् ॥

११६ पांडुतीर्थमाहात्म्यवर्णनम् ॥

११७ त्रिलोचनतीर्थमाहात्म्यवर्णनम् ॥

११८ देवदैत्ययुद्धे वृत्रं हत्वा ब्रह्महत्याभिभूतस्येन्द्रस्य तपःकरणार्थं नर्मदातीरे गमनम्, तत्र तस्य तपसोऽन्ते ब्रह्मविष्णुमहेश्वराणामागमनम्, तदाज्ञयेन्द्रेण शिवलिंगस्थापनम्, इन्द्रतीर्थमाहात्म्यवर्णनम् ॥

११९ कह्लोडीतीर्थमाहात्म्यवर्णनम् ॥

१२० कंबुनामकस्य दानवस्य तपोऽर्थं नर्मदातीरे गमनम्, तत्तपसः प्रभावेण तुष्टेन शंकरेण तस्मै वरप्रदानम्, कंबुकृतं शिवलिंगस्थापनम्, कंबुकेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१२१ क्षयित्वं प्राप्तेन सोमेन तपस्तप्त्वा शिवलिंगस्थापनम्, सोमतीर्थचन्द्रहासतीर्थयोर्माहात्म्यवर्णनम्  ॥

१२२ कोह्नस्वतीर्थमाहात्म्यवर्णने ब्रह्मनिर्मितसृष्टिवर्णनम्, चातुर्वर्ण्यव्यवस्थावर्णनम्, सदाचारसंपन्नेन विप्रेण हनस्वेति वाक्यं श्रुत्वा भिया कृतं महिषारूढस्य यमस्य दर्शनम्, शतरुद्रीयजपस्तवनेनेश्वरदर्शनं, यमपराभववर्णनम्, कोह्नस्वलिंगस्थापनम्, कोहनस्वतीर्थमाहात्म्यवर्णनम् ॥

१२३ कर्मदेश्वरतीर्थमाहात्म्यवर्णनम् ॥....

१२४ नर्मदेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१२५ रवेरादित्यभास्करेतिनामद्वयप्राप्तिकारणकथनम्, रविकृतस्य तपसो वर्णनम्, रविणा शिवलिंगस्थापनम्, रवितीर्थमाहात्म्यवर्णनम् ॥. ..

१२६ अयोनिप्रभवतीर्थमाहात्म्यवर्णनम् ॥... ....

१२७ अग्नितीर्थमाहात्म्यवर्णनम् ॥

१२८ भृकुटेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१२९ ब्रह्मतीर्थमाहात्म्यवर्णनम् ॥

१३० देवतीर्थमाहात्म्यवर्णनम् ॥

१३१ नागतीर्थोत्पत्तिकथने विनताकद्र्वोर्वादप्रसंगकथनम्, नागेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१३२ आदिवाराहतीर्थमाहात्म्यवर्णनम् ॥

१३३ चतुर्भिर्लोकपालैरीश्वराराधनां कृत्वेश्वरतः स्वेष्टवरग्रहणकथनम्, तैरेव चतुर्भिर्लोकपालैः शिवलिंगस्थापनम्, कुबेरादिलिंगचतुष्टयमाहात्म्यवर्णनम् ॥

१३४ रामेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१३५ सिद्धेश्वरमाहात्म्यवर्णनम् ॥

१३६ अहिल्यासंगकारिणमिन्द्रं प्रति गौतमेन शापप्रदानम्, अहिल्यायाः पतिशापेनाश्मश्मत्वप्राप्तिवर्णनम् , रामेण पदा स्पृष्टाया अहिल्याया: शापमोचनम्, अहिल्यया स्वनाम्रा शिवलिंगस्थापनम्, अहिल्येश्वरतीर्थमाहात्म्यवर्णनम् ॥

१३७ कर्कटेश्वरमाहात्म्यवर्णनम ॥

१३८ शक्रेण गौतमदत्तशापनिवृत्त्यर्थं तपस्तप्त्वा शिवलिंगस्थापनम्, शक्रेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१३९ सोमतीर्थमाहात्म्यवर्णनम् ॥

१४० नन्दादेव्युत्पत्तिवर्णनपूर्वक नंदाहृदतीर्थमाहात्म्यवर्णनम् ॥

१४१ तापेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१४२ रुक्मिणीतीर्थमाहात्म्यवर्णनप्रसंगेन रुक्मिण्याः श्रीकृष्णेन कृतस्य पाणिग्रहणस्य वृत्तान्तवर्णनम्, तत्र श्रीकृष्णचैद्यमागधादीनां युद्धप्रसंगवर्णनम्, श्रीकृष्णकृतरुक्मिपराभववर्णनम, रुक्मिणीकृष्णयोर्विवाहविधिवर्णनम्, रुक्मिणीस्थापितस्य रुक्मिणीतीर्थस्य माहात्म्यवर्णनम् ॥

१४३ योजनेश्बरतीर्थमाहात्म्यवर्णनम ॥

१४४ द्वादशीतीर्थमाहात्म्यवर्णनम् ॥

१४५ शिवतीर्थमाहात्म्यवर्णनम ॥... ...

१४६ अस्माहकतीर्थे स्नानदानजपहोमादिपितृश्राद्धवृषोत्सर्गाद्यनेककृतकर्मणां विस्तरेण फलमाहात्म्यवर्णनम् ॥

१४७ सिद्धेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१४८ मंगलेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१४९ लिंगवाराहतीर्थमाहात्म्यवर्णनम् ॥

१५० शंकरेण कामे भस्मीकृते सति तदुत्थानार्थं देवैरीश्वरस्तुतिकरणम्, अनंगस्य पुनरङ्गकरणम, कामदेवेन तपः कृत्वा शिवलिंगस्थापनम, कुसुमेश्वरलिंगमाहात्म्यवर्णनम् ॥

१५१ श्वेतवाराहतीर्थमाहात्म्यवर्णनम् ॥

१५२ भार्गलेश्वरतीर्थमाहात्म्यवर्णनम्. ... ... .

१५३ आदित्येश्वरतीर्थमाहात्म्यवर्णनम् ॥

१५४ कलकलेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१५५ शुक्लतीर्थोत्पत्तिवर्णने वायसाभ्यां वञ्चितस्य चाणक्यस्य कथानकम्, चाणक्यस्य कौटिल्यवर्णनम्, चाणक्यसिद्धिप्राप्तिवृत्तान्तवर्णनम् ॥

१५६ शुक्लतीर्थे स्नानदानादिमाहात्म्यवर्णनम् ॥

१५७ हुँकारस्वामितीर्थमाहात्म्यवर्णनम् ॥

१५८ संगमेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१५५ अनरकेश्वरतीर्थमाहात्म्यवर्णने कर्मविपाकवर्णनम्, गर्भावलिवर्णनम्, वैतरण्यादिमहादानानां फलमाहात्म्यवर्णनम्, आश्विनकृष्णचतुर्दश्यां यमस्य दीपादिदानमाहात्म्यम्, अनरकेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१६० मोक्षतीर्थमाहात्म्यवर्णनम् ॥

१६१ सर्पतीर्थमाहात्म्यवर्णनम् ॥

१६२ गोपेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१६३ नागतीर्थमाहात्म्यवर्णनम् ॥

१६४ सांवौरेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१६५ सिद्धेश्वरतीर्थमाहात्म्यवर्णनम ॥. .... ...

१६६ सिद्धेश्वरीतीर्थमाहात्म्यवर्णनम् ॥

१६७ मार्कण्डेयेन तपस्तप्त्वा शिवानुज्ञया शिवलिंगस्थापनम, मार्कण्डेयेश्वरलिंगमाहात्म्यवर्णनम् ॥

१६८ अंकूरेश्वरतीर्थमाहात्म्यवर्णने कुबेरजन्मकथावर्णनम्, रावणादित्रयाणां जन्मकर्मवर्णनम्, रावणादिभिस्तपः कृत्वा शिवतो वरादिग्रहणम्, तैरंकूरेश्वरलिंगस्थापनम्, अंकूरेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१६९ मांडव्यशूलारोपणकथाप्रसंगेनेश्वराराधनया जातकन्यकस्य देवपन्नाख्यस्य राज्ञः कामप्रमोदिन्याख्यायाः कन्यायाः श्येनरूपधारिणा शंबरेण हरणम् ॥

१७० कामप्रमोदिनीसंज्ञकराजकन्याहरणेन तत्सखीभिः कृतस्य विलापस्य वर्णनम, देवपन्नेन राज्ञा तद्वृत्तांतं श्रुत्वा तच्छोधनार्थं मंत्र्यादीनां प्रेषणम्, मांडव्याश्रमे राजकन्यकाया आभरणानि दृष्ट्वा सर्वै राज्ञे तद्वृत्तान्तनिवेदनम्, ततो राजाज्ञया मांडव्यस्य शूलारोपणवर्णनम् ॥

१७१ शूलारोपितस्य माण्डव्यस्य दर्शनार्थमृषीणामागमनम्, राज्ञे शापं दातुमृषीणां प्रवृत्तिवर्णनम्, ततो माण्डव्येन महर्षिणर्षिभ्यः कर्मविपाकवर्णनम्, मांडव्याज्ञयर्षीणां स्वाश्रमे गमनम्, तत्र पत्न्या: स्कन्धे स्थितस्य रोगिण: शांडिल्यर्षेरागमनम्, शांडिल्यपत्न्याऽजानन्त्या स्खलनवशात्स्वपद्भ्यां शूलदण्डस्य स्पर्शने कृते सति तज्जन्यप्रतिघातेन शूलदण्डकम्पनाद्व्यथितस्य मांडव्यस्य शांडिल्यपत्न्याश्च संवाद वर्णनम्, मिथ: परस्पराभ्यां परस्परयोः शापप्रदानम् ॥

१७२ देवर्षीणां मांडव्याश्रमे पुनरागमनम्, तेषां भाषणम्, दॆवपन्नराजाग्रे शंबरेण कन्याया आनयनम्, मांडव्यस्य शापतो मुक्तिवर्णनम्, तया विप्रपत्न्या निजपातिव्रत्यप्रभावेण प्रतिबन्धीकृतस्य सूर्यस्य बन्धतो मोचनम्, शांडिल्यर्षेः पुनर्जीवप्रदानवर्णनम्, मांडव्यतीर्थे स्नानदानादिमाहात्म्यवर्णनम् ॥

१७३ शुद्धेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१७४ गोपेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१७५ सगरात्मजानामुद्धाराय कपिलेन नर्मदारोधसि तपस्तप्त्वा निर्मितं कपिलेश्वरतीर्थम्, कपिलेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१७६ पिंगलेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१७७ भूतीश्वरतीर्थमाहात्म्यवर्णनम् ॥

१७८ गंगावहकतीर्थमाहात्म्यवर्णनम् ॥

१७९ गौतमेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१८० दशाश्वमेधिकतीर्थमाहात्म्यप्रस्तावे शंकरपार्वतीसंवादे केनचिद्द्विजेन तपस्तत्वा लिंगस्थापनवर्णनम्, दशाश्वमेधिकेात्पत्तिवर्णनपूर्वकं दशाश्वमेधिकतीर्थेमाहात्म्यवर्णनम् ॥

१८१ भृगुतीर्थमाहात्म्यवर्णेने भृगुकथावर्णनपूर्वकं भृगुं हन्तुं प्राप्तस्य नंदिनोऽनु भृगुऋषेर्गमनम्, क्वापि स्वरक्षितारमदृष्ट्वा देवसमीपे वृषभस्य गमनम्, भृगुणा शिवस्य स्तुतिकरणम्, ईश्वरेण भृगवे वरप्रदानम्, भृगुणा लिंगस्थापनम्, भृगुकच्छोत्पत्तिवर्णनपूर्वकमाहात्म्यवर्णनम् ॥

१८२ भृगुकच्छतीर्थे स्नानदानादिमाहात्म्यवर्णनम् ॥

१८३केदारेश्वरतीर्थमाहात्म्यवर्णनम् ॥

१८४ब्रह्मणः पंचमशिरश्छेदनेन ब्रह्महत्योपद्रुतेन शंभुना धौतपापाख्यतीर्थस्थापनम्, धौतपापतीर्थमाहात्म्यवर्णनम् ॥

१८५ एरण्डीतीर्थमाहात्म्यवर्णनम् ॥

१८६ गरुडेन चामुंडास्तवनकरणम्, चामुंडाप्रसादेन गरुडेन कनखलेश्वरलिंगस्थापनकरणम, कनखलेश्वरर्लिगमाहात्म्यवर्णनम् ॥

१८७ कालाग्निरुद्रतीर्थमाहात्म्यवर्णनम् ॥

१८८ शालिग्रामतीर्थमाहात्म्यवर्णनम् ॥

१८९ वराहेात्पत्तिवर्णनपूर्वकमुदीर्णवराहतीर्थमाहात्म्यवर्णनम् ॥

१९० चन्द्रहास्यापरनामकचन्द्रप्रभासतीर्थमाहात्म्यवर्णनम् ॥

१९१ द्वादशादित्यतीर्थमाहात्म्यवर्णनम् ॥

१९२ नरनारायणयोस्तपोविघ्नार्थमिंद्रेणाप्सरआदीनां प्रेषणम, अप्सरोभिर्नरनारायणस्तवनम्, नरनारायणाभ्यामप्सरआदीनामुपदेशादिकरणम्, स्वविराड्देहे नानावरांगनादीनां ब्रह्माण्डस्थवस्तूनां च दर्शनम्, तद्दर्शनविस्मितैर्वसंतकामाप्सरोभिर्विराड्रूपनरनारायणस्तोत्रकरणम्, अप्सरआादीनां स्वर्गे गमनम्, इन्द्राय सर्ववृत्तान्तकथनम्, श्रीपतिमाहात्म्यवर्णनम् ॥
 
१९३ श्रीपतिक्षेत्रे स्नानस्य गवादिदानस्य च फलवर्णनम् ॥

१९४ नारायणप्रभावं शक्रमुखाच्छ्रुत्वा ते नारायणं कामयमानया लक्ष्म्या तत्प्राप्त्यर्थे सागरान्ते तपश्चरणम्, तुप्टेन नारायणेन लक्ष्म्या समं विवाहकरणम्, श्रीपतिविवाहस्समारंभवर्णनम् ॥

१९५ श्रीपतिमाहात्म्यवर्णनम् ॥

१९६ हंसतीर्थमाहात्म्यवर्णनम् ॥

१९७ मूलस्थानतीर्थमाहात्म्यवर्णनम् ॥

१९८ शूलारोपितस्य माण्डव्यर्षे राज्ञा शूृलतोऽवरोह्णकरणम्, तत्र शंकरस्यागमनम्, माण्डव्येन शंकराग्रे दाक्षायणीविनाशादिप्राक्संभूतकथावर्णनम्, माण्डव्येन देवीस्तवनकरणम्, नानास्थलस्थितया देव्या भिन्नभिन्ननामादिवर्णनम्, शूलेश्वर नाम्ना शिवलिंगस्थापनं च, तस्य शूलेश्वरलिंगस्य माहात्म्यवर्णनम् ॥

१९९ आश्विनतीर्थमाहात्म्यवर्णनम् ॥

२०० सावित्रीतीर्थमाहात्म्यवर्णनम् ॥.

२०१ देवतीर्थमाहात्म्यवर्णनम् ॥

२०२ शिखितीर्थमाहात्म्यवर्णनम् ॥
 
२०३ कोटितीर्थमाहात्म्यवर्णनम् ॥.

२०४ पैतामहतीर्थमाहात्म्यवर्णनम् ॥

२०५ कुर्कुरीतीर्थमाहात्म्यवर्णनम् ॥

२०६ दशकन्यातीर्थमाहात्म्यवर्णनम ॥

२०७ सुवर्णबिंदुतीर्थमाहात्म्यवर्णनम् ॥

२०८ ऋणमोचनतीर्थमाहात्म्यवर्णनम् ॥

२०९ पुष्कलीतीर्थक्षमानाथतीर्थमाहात्म्यवर्णनम्, भारभूतीतीर्थवर्णनप्रस्तावे विष्णुशर्माग्रे बटुवेषधारिण: शिवस्यागमनम्, बटुना स्वप्रतिज्ञायां सत्यापितायां स्वस्वप्रतिज्ञाभ्रष्टानामन्यशिष्याणां नर्मदाम्भसि मज्जनम्, गुर्वनुज्ञया शिष्यभाराणां पुनरुज्जीवनम्, तत्र लिंगस्थापनमतो भारभूतीति नाम्ना तस्य तीर्थस्य प्रसिद्धिवर्णनम्, भारभूतीतीर्थमाहात्म्यवर्णनम्, विश्वासघातिनः सुकेश्याख्यवैश्यस्य कथानककथनम् ॥

२१० पुंखिलतीर्थमाहात्म्यवर्णनम् ॥

२११ मुण्डितीर्थमाहात्म्यवर्णनम् ॥

२१२ एकशालडिंडिमेश्वरतीर्थमाहात्म्यवर्णनम् ॥

२१३ आमलेश्वरतीर्थमाहात्म्यवर्णनम् ॥

२१४ श्रीकपालतीर्थमाहात्म्यवर्णनम् ॥

२१५ श्रृंगितीर्थमाहात्म्यवर्णनम् ॥
 
२१६ आषाढीतीर्थमाहात्म्यवर्णनम् ॥

२१७ एरंडीतीर्थमाहात्म्यवर्णनम् ॥

२१८ स्वपितुर्जमदग्नेनिरपराधकारिणः सहस्रार्जुनस्य विनाशे कृते सत्येकविंशतिवारं समस्तक्षत्रियवधे च कृते सति तत्पापशमनार्थं परशुरामेण जामदग्न्येश्वरस्थापनं जामदग्न्यतीर्थकरणं च, जामदग्न्यतीर्थमाहात्म्यवर्णनम्, जामदग्न्येश्वरपूजनविधिवर्णनं च ॥

२१९ कोटितीर्थेमाहात्म्यवर्णनम् ॥

२२० लोटणेश्वरतीर्थमाहात्म्यवर्णनम् ॥

२२१ ब्रह्महंससंवादपूर्वकं हंसेश्वरमाहात्म्यवर्णनम ॥

२२२ तिलोदेश्वरतीर्थमाहात्म्यवर्णनम् ॥

२२३ वासेश्वरतीर्थमाहात्म्यवर्णनम् ॥

२२४ कोटीश्वरतीर्थमाहात्म्यवर्णनम् ॥

२२५ अलिकानामकगन्धर्वकन्यया स्वनाम्रा शिवलिंगस्थापनम्, अलिकेश्वरतीर्थमाहात्म्यवर्णनम् ॥

२२६ भानुमतीकामुकेन भानुना कुष्ठरोगनिरसनार्थं शान्तया भार्यया सार्धं तपस्तप्त्वा शिवाज्ञया विमलेश्वरेतिनाम्ना शिवलिंगस्थापनम्, विमलेश्वरतीर्थमाहात्म्यवर्णनम् ॥

२२७ नर्मदातीरस्थानां प्राक्कथितसर्वतीर्थानां यथाक्रमेण यात्राविधिवर्णनम्, विशेष माहात्म्यवर्णनम् ॥

२२८ परार्थतीर्थयात्राकरणमाहात्म्यपुण्यादिकथनम् ॥

२२९ रेवाखण्डश्रवणपठनादिदानादिफलश्रुतिवर्णनम् ॥

२३० तीर्थसंगमभेदकथनम्, तीर्थावलिवर्णनम् ॥

२३१ तीर्थसंख्यापरिगणनपूर्वकं सर्वतीर्थानां विशिष्टव्यवस्थाकथनपूर्वकयात्राक्रमवर्णनम् ॥

२३२ रेवाखण्डसमाप्तिपूर्वकं रेवाखण्डपुस्तकदानफलवर्णनम् ॥

इत्यावन्त्यखण्डे तृतीयं रेवाखण्डम्  ॥


References : N/A
Last Updated : February 04, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP