संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २१३

रेवा खण्डम् - अध्याय २१३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
पुनरन्यत्प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते ॥१॥
अबालो बालरूपेण ग्रामण्यैर्बालकैः सह ।
आमलैः क्रीडते शम्भुस्तत्ते वक्ष्यामि भारत ॥२॥
सर्वैस्तैरामलाः क्षिप्ता ये ते देवेन पाण्डव ।
आनीतास्तत्क्षणादेव ततः पश्चात्क्षिपेद्धरः ॥३॥
यावद्गत्वा दिशो दिग्भ्य आगच्छन्ति पृथक्पृथक् ।
तावत्तमामलं भूतं पश्यन्ति परमेश्वरम् ॥४॥
तृतीये चैव यत्कर्म देवदेवस्य धीमतः ।
स्थानानां परमं स्थानमामलेश्वरमुत्तमम् ॥५॥
तेन पूजितमात्रेण प्राप्यते परमं पदम् ॥६॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP