संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ३१

रेवा खण्डम् - अध्याय ३१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।
ब्रह्मावर्तमिति ख्यातं सर्वपापप्रणाशनम् ॥१॥
तत्र संनिहितो ब्रह्मा नित्यसेवी युधिष्ठिर ।
ऊर्ध्वबाहुर्निरालम्बचकार भ्रमणं सदा ॥२॥
एकाहारवशेऽतिष्ठद्द्वादशाब्दं महाव्रती ।
अत्र तीर्थे विधानेन चिन्तयन् वै महेश्वरम् ॥३॥
तेन तत्पुण्यमाख्यातं ब्रह्मावर्तमिति प्रभो ।
तत्र स्नात्वा विधानेन तर्पयेत्पितृदेवताः ॥४॥
अर्चयेद्देवमीशानं विष्णुं वा परमेश्वरम् ।
यत्फलं सर्वयज्ञानां विधिवद्दक्षिणावताम् ॥५॥
तत्फलं समवाप्नोति तत्तीर्थस्य प्रभावतः ।
यस्मिंस्तीर्थे तु यो देवो दानवो वा द्विजोऽथ वा ॥६॥
सिद्धस्तेनैव तन्नाम्ना ख्यातं लोके महच्च तत् ।
न जलं न स्थलं नाम क्षेत्रं वा ह्यूषराणि च ॥७॥
पवित्रत्वं लभन्त्येते पौरुषेण विना नृणाम् ।
सामर्थ्यान्निश्चयाद्धैर्यात्सिध्यन्ति पुरुषा नृप ॥८॥
प्रमादात्तस्य लोभेन पतन्ति नरके ध्रुवम् ॥९॥
संनिरुध्येन्द्रियग्रामं यत्र यत्र वसेन्मुनिः ।
तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥१०॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मावर्ततीर्थमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP