संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ९६

रेवा खण्डम् - अध्याय ९६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं कोटीश्वरं परम् ।
ऋषिकोटिः समायाता यत्र वै कुरुनन्दन ॥१॥
कृष्णद्वैपायनस्यैव क्षेमार्थं मुनिपुंगवाः ।
मन्त्रयित्वा द्विजैः सर्वैर्वेदमङ्गलपाठकैः ॥२॥
स्थापितः शङ्करस्तत्र कारणं बन्धनाशनम् ।
संसारच्छेदकरणं प्राणिनामार्तिनाशनम् ॥३॥
कोटीश्वरमिति प्रोक्तं पृथिव्यां नृपनन्दन ।
स्नापयेत्तं तु यो भक्त्या पूर्णिमायां नृपोत्तम ॥४॥
पित्ःणां तर्पणं कृत्वा पिण्डदानं यथाविधि ।
श्रावणस्य विशेषेण पूर्णिमायां युधिष्ठिर ॥५॥
पित्ःणामक्षया तृप्तिर्यावदाभूतसम्प्लवम् ।
पित्ःणां परमं गुह्यं रेवातटसमाश्रितम् ।
मोक्षदं सर्वजन्तूनां निर्मितं मुनिसत्तमैः ॥६॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम षण्णवतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP