रेवा खण्डम् - अध्याय २१६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
अषाढीतीर्थमागच्छेत्ततो भूपालनन्दन ।
कामिकं रूपमास्थाय स्थितो यत्र महेश्वरः ॥१॥
चातुर्युगमिदं तीर्थं सर्वतीर्थेष्वनुत्तमम् ।
तत्र स्नात्वा नरो राजन् रुद्रस्यानुचरो भवेत् ॥२॥
तत्र तीर्थे तु यः कश्चित्कुरुते प्राणमोक्षणम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥३॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अषाढीतीर्थमाहात्म्यवर्णनं नाम षोडशोत्तरद्विशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP