रेवा खण्डम् - अध्याय २०१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल देवतीर्थमनुत्तमम् ।
यत्र सिद्धा महाभागा देवाः सेन्द्रा युधिष्ठिर ॥१॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
तत्र तीर्थप्रभावेन कृतमानन्त्यमश्नुते ॥२॥
विशेषाद्भाद्रपदे तु कृष्णपक्षे त्रयोदशीम् ।
प्रधानं सर्वतीर्थानां देवैरध्यासितं पुरा ॥३॥
स्नात्वा त्रयोदशीदिने श्राद्धं कृत्वा विधानतः ।
देवैः संस्थापितं देवं सम्पूज्य वृषभध्वजम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥४॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नामैकोत्तरद्विशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP