संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ६५

रेवा खण्डम् - अध्याय ६५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र आनन्देश्वरमुत्तमम् ।
तत्तीर्थं कथयिष्यामि सर्वपापक्षयंकरम् ॥१॥

युधिष्ठिर उवाच -
आनन्दश्चैव संजातो रुद्रस्य द्विजसत्तम ।
कथ्यतां मे च तत्सर्वं संक्षेपात्सह बान्धवैः ॥२॥

श्रीमार्कण्डेय उवाच -
कथयामि नृपश्रेष्ठ आनन्देश्वरमुत्तमम् ।
दानवानां वधं कृत्वा देवदेवो महेश्वरः ॥३॥
पूजितो दैवतैः सर्वैः किन्नरैर्यक्षपन्नगैः ।
आनन्दसंयुतो देवो ननर्त वृषवाहनः ॥४॥
भैरवं रूपमास्थाय गौर्या चार्द्धाङ्गसंस्थितः ।
भूतवेतालकङ्कालैर्भैरवैर्भैरवो वृतः ॥५॥
ननर्त नर्मदातीरे दक्षिणे पाण्डुनन्दन ।
तुष्टैर्मरुद्गणैः सर्वैः स्थापितः कमलासनः ॥६॥
तदाप्रभृति तत्तीर्थमानन्देश्वरमुच्यते ।
अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप ॥७॥
विधिवच्चार्चयेद्देवं सुगन्धेन विलेपयेत् ।
ब्राह्मणान्पूजयेत्तत्र यथाशक्त्या युधिष्ठिर ॥८॥
गोदानं तत्र कर्तव्यं वस्त्रदानं शुभावहम् ।
वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत् ॥९॥
इङ्गुदैर्बदरैर्बिल्वैरक्षतैश्च जलेन वा ।
प्रेतानां कारयेच्छ्राद्धमानन्देश्वर उत्तमे ॥१०॥
आनन्दिता भवेयुस्ते यावदाभूतसम्प्लवम् ।
सन्ततेर्वै न विच्छेदः सप्तजन्मसु जायते ।
आनन्दो हि भवत्तेषां प्रतिजन्मनि भारत ॥११॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आनन्देश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्टितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP