रेवा खण्डम् - अध्याय १५६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
नास्ति लोकेषु तत्तीर्थं पृथिव्यां यन्नरेश्वर ।
शुक्लतीर्थेन सदृशमुपमानेन गीयते ॥१॥
शुक्लतीर्थं महातीर्थं नर्मदायां व्यवस्थितम् ।
प्रागुदक्प्रवणे देशे मुनिसङ्घनिषेवितम् ॥२॥
वैशाखे च तथा मासि कृष्णपक्षे चतुर्दशी ।
कैलासादुमया सार्द्धं स्वयमायाति शङ्करः ॥३॥
मध्याह्नसमये स्नात्वा पश्यत्यात्मानमात्मना ।
ब्रह्मविष्ण्विन्द्रसहितः शुक्लतीर्थे समाहितः ॥४॥
कार्त्तिक्यां तु विशेषेण वैशाख्यां च नरोत्तम ।
ब्रह्मविष्णुमहादेवान् स्नात्वा पश्यति तद्दिने ॥५॥
देवराजः सुरैः सार्द्धं वायुमार्गव्यवस्थितः ।
कृष्णपक्षे चतुर्दश्यां स्नात्वा पश्यति शङ्करम् ॥६॥
गन्धर्वाप्सरसो यक्षाः सिद्धविद्याधरोरगाः ।
तद्दिने तेऽपि देवेशं दृष्ट्वा मुञ्चन्ति किल्बिषम् ॥७॥
अर्धयोजनविस्तारं तदर्द्धेनैव चायतम् ।
शुक्लतीर्थं महापुण्यं महापातकनाशनम् ॥८॥
यत्र स्थितैः प्रदृश्यन्ते वृक्षाग्राणि नरोत्तमैः ।
तत्र स्थिता महापापैर्मुच्यन्ते पूर्वसंचितैः ॥९॥
पापोपपातकैर्युक्तो नरः स्नात्वा प्रमुच्यते ।
उपार्जिता विनश्येत भ्रूणहत्यापि दुस्त्यजा ॥१०॥
यस्मात्तत्रैव देवेश उमया सह तिष्ठति ।
वैशाख्यां च विशेषेण कैलासादेति शङ्करः ॥११॥
तेन तीर्थं महापुण्यं सर्वपातकनाशनम् ।
कथितं ब्रह्मणा पूर्वं मया तव तथा नृप ॥१२॥
रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथा तत्र वपुःस्नानं पुरुषस्य भवेच्छुचि ॥१३॥
पूर्वे वयसि पापानि कृत्वा पुष्टानि मानवः ।
अहोरात्रोषितो भूत्वा शुक्लतीर्थे व्यपोहति ॥१४॥
शुक्लतीर्थे महाराज राकां रेवाजलाञ्जलिम् ।
कल्पकोटिसहस्राणि दत्त्वा स्युः पितरः शिवाः ॥१५॥
न माता न पिता बन्धुः पतनं नरकार्णवे ।
उद्धरन्ति यथा पुण्यं शुक्लतीर्थे नरेश्वर ॥१६॥
तपसा ब्रह्मचर्येण न तां गच्छन्ति सद्गतिम् ।
शुक्लतीर्थे मृतो जन्तुर्देहत्यागेन यां लभेत् ॥१७॥
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशीम् ।
घृतेन स्नापयेद्देवमुपोष्य प्रयतो नरः ॥१८॥
स्नात्वा प्रभाते रेवायां दद्यात्सघृतकम्बलम् ।
सहिरण्यं यथाशक्ति देवमुद्दिश्य शङ्करं ॥१९॥
देवस्य पूरणं कुर्याद्घृतेन घृतकम्बलम् ।
स गच्छति महातेजाः शिवलोकं मृतो नरः ॥२०॥
एकविंशकुलोपेतो यावदाभूतसम्प्लवम् ।
शुक्लतीर्थे नरः स्नात्वा ह्युमां रुद्रं च योऽर्चयेत् ॥२१॥
गन्धपुष्पादिधूपैश्च सोऽश्वमेधफलं लभेत् ।
मासोपवासं यः कुर्यात्तत्र तीर्थे नरेश्वर ॥२२॥
मुच्यते स महत्पापैः सप्तजन्मसुसंचितैः ।
उष्ट्रीक्षीरमविक्षीरं नवश्राद्धे च भोजनम् ॥२३॥
वृषलीगमनं चैव तथाभक्ष्यस्य भक्षणम् ।
अविक्रयेऽनृते पापं माहिषेऽयाज्ययाजके ॥२४॥
वार्द्धुष्ये पङ्क्तिगरदे देवब्राह्मणदूषके ।
एवमादीनि पापानि तथान्यान्यपि भारत ॥२५॥
चान्द्रायणेन नश्यन्ति शुक्लतीर्थे न संशयः ।
शुक्लतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥२६॥
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति सुतर्पिताः ।
पादुकोपानहौ छत्रं शय्यामासनमेव च ॥२७॥
सुवर्णं धनधान्यं च श्राद्धं युक्तहलं तथा ।
अन्नं पानीयसंहितं तस्मिंस्तीर्थे ददन्ति ये ॥२८॥
हृष्टाः पुष्टा मृता यान्ति शिवलोकं न संशयः ।
तत्र तीर्थे तु यो भक्त्या शिवमुद्दिश्य भारत ॥२९॥
भिक्षामात्रं तथान्नं ये तेऽपि स्वर्यान्ति वै नराः ।
यज्विनां व्रतिनां चैव तत्र तीर्थनिवासिनाम् ॥३०॥
अपि वालाग्रमात्रं हि दत्तं भवति चाक्षयम् ।
अग्निप्रवेशं यः कुर्याच्छुक्लतीर्थे समाहितः ॥३१॥
रागद्वेषविनिर्मुक्तो हृदि ध्यात्वा जनार्दनम् ।
सर्वकामसुसम्पूर्णः स गच्छेद्वारुणं पुरम् ॥३२॥
न रोगो न जरा तत्र यत्र देवोऽंभसां पतिः ।
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे युधिष्ठिर ॥३३॥
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ।
अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥३४॥
मृतः स तु न सन्देहो रुद्रस्यानुचरो भवेत् ।
शुक्लतीर्थे तु यः कन्यां शक्त्या दद्यादलंकृताम् ॥३५॥
विधिना यो नृपश्रेष्ठ कुरुते वृषमोक्षणम् ।
तस्य यत्फलमुद्दिष्टं पुराणे रुद्रभाषितम् ॥३६॥
तदहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ।
यावन्तो रोमकूपाः स्युः सर्वाङ्गेषु पृथक्पृथक् ॥३७॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
शुक्लतीर्थे तु यद्दत्तं ग्रहणे चन्द्रसूर्ययोः ॥३८॥
वर्धते तद्गुणं तावद्दिनानि दश पञ्च च ।
शुक्लतीर्थे शुचिर्भूत्वा यः करोति प्रदक्षिणम् ॥३९॥
पृथ्वी प्रदक्षिणा तेन कृता यत्तस्य तत्फलम् ।
शोभनं मिथुनं यस्तु रुद्रमुद्दिश्य पूजयेत् ॥४०॥
सप्त जन्मानि तस्यैव वियोगो न च वै क्वचित् ।
एतत्ते कथितं राजन् संक्षेपेण फलं महत् ॥४१॥
शुक्लतीर्थस्य यत्पुण्यं यथा देवाच्छ्रुतं मया ।
य इदं शृणुयाद्भक्त्या पुराणे विहितं फलम् ॥४२॥
स लभेन्नात्र सन्देहः सत्यं सत्यं पुनः पुनः ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥४३॥
मोक्षार्थी लभते मोक्षं स्नानदानफलं महत् ॥४४॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुक्लतीर्थमाहात्म्यवर्णनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 15, 2024
TOP