रेवा खण्डम् - अध्याय १०८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल रोहिणीतीर्थमुत्तमम् ।
विख्यातं त्रिषु लोकेषु सर्वपापहरं परम् ॥१॥
युधिष्ठिर उवाच -
रोहिणीतीर्थमाहात्म्यं सर्वपापप्रणाशनम् ।
श्रोतुमिच्छामि तत्त्वेन तन्मे त्वं वक्तुमर्हसि ॥२॥
श्रीमार्कण्डेय उवाच -
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
उदधौ च शयानस्य देवदेवस्य चक्रिणः ॥३॥
नाभौ समुत्थितं पद्मं रविमण्डलसन्निभम् ।
कर्णिकाकेसरोपेतं पत्रैश्च समलंकृतम् ॥४॥
तत्र ब्रह्मा समुत्पन्नश्चतुर्वदनपङ्कजः ।
किं करोमीति देवेश आज्ञा मे दीयतां प्रभो ॥५॥
एवमुक्तस्तु देवेशः शङ्खचक्रगदाधरः ।
उवाच मधुरां वाणीं तदा देवं पितामहम् ॥६॥
सरस्वत्यां महाबाहो लोकं कुरु ममाज्ञया ।
भूतग्राममशेषस्य उत्पादनविधिक्षयम् ॥७॥
एतच्छ्रुतं तु वचनं पद्मनाभस्य भारत ।
चिन्तयामास भगवान्सप्तर्षीन्हितकाम्यया ॥८॥
क्रमात्ते चिन्तिताः प्राज्ञाः पुलस्त्यः पुलहः क्रतुः ।
प्राचेतसो वसिष्ठश्च भृगुर्नारद एव च ॥९॥
यज्ञे प्राचेतसो दक्षो महातेजाः प्रजापतिः ।
दक्षस्यापि तथा जाताः पञ्चाशद्दुहितरोऽनघ ॥१०॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
तथैव स महाभागः सप्तविंशतिमिन्दवे ॥११॥
रोहिणीनाम या तासां मध्ये तस्य नराधिप ।
अनिष्टा सर्वनारीणां भर्तुश्चैव विशेषतः ॥१२॥
ततः सा परमं कृत्वा वैराग्यं नृपसत्तम ।
आगत्य नर्मदातीरे चचार विपुलं तपः ॥१३॥
एकरात्रैस्त्रिरात्रैश्च षड्द्वादशभिरेव च ।
पक्षमासोपवासैश्च कर्शयन्ति कलेवरम् ॥१४॥
आराधयन्ती सततं महिषासुरनाशिनीं ।
देवीं भगवतीं तात सर्वार्तिविनिवारणीम् ॥१५॥
स्नात्वा स्नात्वा जले नित्यं नर्मदायाः शुचिस्मिता ।
ततस्तुष्टा महाभागा देवी नारायणी नृप ॥१६॥
प्रसन्ना ते महाभागे व्रतेन नियमेन च ।
एतच्छ्रुत्वा तु वचनं रोहिणी शशिनः प्रिया ॥१७॥
यथा भवामि न चिरात्तथा भवतु मानदे ।
एवमस्त्विति सा चोक्त्वा भवानी भक्तवत्सला ॥१८॥
स्तूयमाना मुनिगणैस्तत्रैवान्तरधीयत ।
तदाप्रभृति तत्तीर्थं रोहिणी शशिनः प्रिया ॥१९॥
संजाता सर्वकालं तु वल्लभा नृपसत्तम ।
तत्र तीर्थे तु या नारी नरो वा स्नानि भक्तितः ॥२०॥
वल्लभा जायते सा तु भर्तुर्वै रोहिणी यथा ।
तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करोति वै ॥२१॥
सप्तजन्मानि दाम्पत्यवियोगो न भवेत्क्वचित् ॥२२॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रोहिणीसोमनाथतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 12, 2024
TOP