रेवा खण्डम् - अध्याय ४६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
स दानवो वरं लब्ध्वा जगाम स्वपुरं प्रति ।
ददर्श स्वपुरं राजञ्छोभितं चित्रचत्वरैः ॥१॥
उद्यानैश्चैव विविधैः कदलीखण्डमण्डितैः ।
पनसैर्बकुलैश्चैवाम्रातैराम्रैश्च चम्पकैः ॥२॥
अशोकैर्नालिकेरैश्च मातुलिङ्गैः सदाडिमैः ।
नानावृक्षैश्च शोभाढ्यं तडागैरुपशोभितम् ॥३॥
देवतायतनैर्दिव्यैर्ध्वजमालासुशोभितैः ।
वेदाध्ययननिर्घोषैर्मङ्गलाद्यैर्विनादितम् ॥४॥
प्राविशद्भवने दिव्ये काञ्चने रुक्ममालिनि ।
अपश्यत्स सुतान् भार्याममात्यान् दासभृत्यकान् ॥५॥
ततो जयप्रदान् सर्वानितश्चेतश्च धावतः ।
हृच्छोभां च प्रकुर्वाणान् वै जयन्तीभिरुच्चकैः ॥६॥
केचित्तोरणमाबध्य केचित्पुष्पाण्यवाकिरन् ।
मातुलिङ्गकराश्चान्ये धावन्ति ह्यन्धकं प्रति ॥७॥
पुरे जनाश्च दृश्यन्ते भाजनैरन्नपूरितैः ।
पूर्णहस्ताः प्रदृश्यन्ते तत्रैव बहवो जनाः ॥८॥
साक्षतैर्भाजनैस्तत्र शतसाहस्रयोषितः ।
मन्त्रान् पठन्ति विप्राश्च मङ्गलान्यपि योषितः ॥९॥
अमात्याश्चैव भृत्याश्च गजांश्चाढौकयन्ति च ।
वर्धापयन्ति ते सर्वे ये केचित्पुरवासिनः ॥१०॥
हृष्टस्तुष्टोऽवसत्तत्र सचिवैः सह सोऽन्धकः ।
ददर्श स जगत्सर्वं तुरङ्गांश्च पदातिकान् ॥११॥
तथैव विविधान् कोशांस्तत्र काञ्चनपूरितान् ।
महिषीर्गा वृषांश्चैवापश्यच्छत्राण्यनेकधा ॥१२॥
स एवमन्धकस्तत्र कियन्तं कालमावसत् ।
हृष्टस्तुष्टो वसन्मर्त्ये स सुरैर्नाभ्यभूयत ॥१३॥
वरं लब्धं तु तं ज्ञात्वा शङ्किताः स्वर्गवासिनः ।
एकीभूताश्च ते सर्वे वासवं शरणं गताः ॥१४॥
शक्र उवाच -
कथमागमनं वोऽत्र सर्वेषामपि नाकिनाम् ।
कस्माद्वो भयमुत्पन्नमागताः शरणं कथम् ॥१५॥
ततस्ते ह्यमराः सर्वे शक्रमेतद्वचोऽब्रुवन् ॥१६॥
देवा ऊचुः ।
सुरनाथान्धको नाम दैत्यः शम्भुवरोर्जितः ।
अजेयः सर्वदेवानां किं नु कार्यमतः परम् ॥१७॥
तत्त्वं चिन्तय देवेश क उपायो विधीयताम् ।
इत्थं वदन्ति ते देवाः शक्राग्रे मन्त्रणोद्यताः ॥१८॥
मन्त्रयन्ति च यावद्वै तावच्चारमुखेरितम् ।
ज्ञात्वा तत्र स देवौघं दानवो निर्गतो गृहात् ॥१९॥
एकाकी स्यन्दनारूढ आयुर्धैबहुभिर्वृतः ।
दुर्गमं मेरुपृष्ठं स लीलयैव गतो नृप ॥२०॥
स्वर्णप्राकारसंयुक्तं शोभितं विविधाश्रमैः ।
दुर्गमं शत्रुवर्गस्य तदा पार्थिवसत्तम ॥२१॥
प्रविवेशासुरस्तत्र लीलया स्वगृहे यथा ।
वृत्रहा भयमापन्नः स्वकीयं चासनं ददौ ॥२२॥
उपविष्टोऽन्धकस्तत्र शक्रस्यैवासने शुभे ।
आस्थानं कलयामास सर्वतस्त्रिदशावृतम् ॥२३॥
शक्र उवाच -
किं तवागमनं चात्र किं कार्यं कथयस्व मे ।
यदस्मदीयं वित्तं हि तत्ते दास्यामि दानव ॥२४॥
अन्धक उवाच -
नाहं वै कामये कोशं न गजांश्च सुरेश्वर ।
स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूषितम् ॥२५॥
ऐरावतं महानागं तं चैवोच्चैःश्रवोहयम् ।
उर्वश्यादीनि रत्नानि मम दर्शय गोपते ॥२६॥
पारिजातकपुष्पाणि वृक्षजातीननेकशः ।
वादित्राणि च सर्वाणि दर्शयस्व शचीपते ॥२७॥
तस्य तद्वचनं श्रुत्वा शक्रश्चिन्तितवानिदम् ।
योऽमुं निहन्ति पाप्मानं न तं पश्यामि कर्हिचित् ॥२८॥
नास्ति रक्षाप्रदः कश्चित्स्वर्गलोकस्य दुःखिनः ।
भयत्रस्तो ददावन्यद्वादित्राद्यप्सरोगणैः ॥२९॥
रङ्गभूमावुपाविश्य कारयामास ताण्डवम् ।
उपविष्टाः सुराः सर्वे यममारुतकिन्नराः ॥३०॥
उर्वश्याद्या अप्सरसो गीतवादित्रयोगतः ।
ननृतुः पुरतस्तस्य सर्वा एकैकशो नृप ॥३१॥
न व्यश्राम्यत तच्चित्तं दृष्ट्वा चाप्सरसस्तदा ।
शचीं प्रति मनस्तस्य सकाममभवन्नृप ॥३२॥
गृहीत्वा शक्रभार्यां स प्रस्थितः स्वपुरं प्रति ।
ततः प्रववृते युद्धमन्धकस्य सुरैः सह ॥३३॥
तेन देवगणाः सर्वे ध्वस्ताः पार्थिवसत्तम ।
संग्रामे विविधैः शस्त्रैश्चक्रवज्रादिभिर्घनैः ॥३४॥
संतापिताः सुराः सर्वे क्षयं नीता ह्यनेकशः ।
सर्वेऽपि मरुतस्तेन भग्नाः संग्राममूर्धनि ॥३५॥
यथा सिंहोगजान् सर्वान् विचित्य विचरेद्वनम् ।
तद्वदेकेन ते देवा जिताः सर्वे पराङ्मुखाः ॥३६॥
बालोऽधिपो यथा ग्रामे स्वेच्छया पीडयेज्जनान् ।
स्वैरमाक्रम्य गृह्णाति कोशवासांसि चासकृत् ॥३७॥
गतं न पश्यत्यात्मानं प्रजासंतापनेन च ।
गृहीत्वा शक्रभार्यां स गतो वै दानवोत्तमः ॥३८॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये शचीहरणवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 09, 2024
TOP