संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १४२ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १४२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४२ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेन्महाराज रुक्मिणीतीर्थमुत्तमम् ।यत्रैव स्नानमात्रेण रूपवान्सुभगो भवेत् ॥१॥अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः ।स्नानं समाचरेत्तत्र न चेह जायते पुनः ॥२॥यः स्नात्वा रुक्मिणीतीर्थे दानं दद्यात्तु कांचनम् ।तत्तीर्थस्य प्रभावेन शोकं नाप्नोति मानवः ॥३॥युधिष्ठिर उवाच -तीर्थस्यास्य कथं जातो महिमेदृङ्मुनीश्वर ।रूपसौभाग्यदं येन तीर्थमेतद्ब्रवीहि मे ॥४॥मार्कण्डेय उवाच -कथयामि यथावृत्तमितिहासं पुरातनम् ।कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत ॥५॥तं तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ।नगरं कुण्डिनं नाम भीष्मकः परिपाति हि ॥६॥हस्त्यश्वरथसम्पन्नो धनाढ्योऽति प्रतापवान् ।स्त्रीसहस्रस्य मध्यस्थः कुरुते राज्यमुत्तमम् ॥७॥तस्य भार्या महादेवी प्राणेभ्योऽपि गरीयसी ।तस्यामुत्पादयामास पुत्रमेकं च रुक्मकम् ॥८॥द्वितीया तनया जज्ञे रुक्मिणी नाम नामतः ।तदाशरीरिणी वाचा राजानं तमुवाच ह ॥९॥चतुर्भुजाय दातव्या कन्येयं भुवि भीष्मक ।एवं तद्वचनं श्रुत्वा जहर्ष प्रियया सह ॥१०॥ब्राह्मणैः सह विद्वद्भिः प्रविष्टः सूतिकागृहम् ।स्वस्तिकं वाचयित्वास्याश्चक्रे नामेति रुक्मिणी ॥११॥यतः सुवर्णतिलको जन्मना सह भारत ।ततः सा रुक्मिणीनाम ब्राह्मणैः कीर्तिता तदा ॥१२॥ततः सा कालपर्यायादष्टवर्षा व्यजायत ।पूर्वोक्तं चैव तद्वाक्यमशरीरिण्युदीरितम् ॥१३॥स्मृत्वा स्मृत्वाथ नृपतिश्चिन्तयामास भूपतिः ।कस्मै देया मया बाला भविता कश्चतुर्भुजः ॥१४॥एतस्मिन्नन्तरे तावद्रैवतात्पर्वतोत्तमात् ।मुख्यश्चेदिपतिस्तत्र दमघोषः समागतः ॥१५॥प्रविष्टो राजसदनं यत्र राजा स भीष्मकः ।तं दृष्ट्वा चागतं गेहे पूजयामास भूपतिः ॥१६॥आसनं विपुलं दत्त्वा सभां गत्वा निवेशितः ।कुशलं तव राजेन्द्र दमघोष श्रियायुत ॥१७॥पुण्याहमद्य संजातमहं त्वद्दर्शनोत्सुकः ।कन्या मदीया राजेन्द्र ह्यष्टवर्षा व्यजायत ॥१८॥चतुर्भुजाय दातव्या वागुवाचाशरीरिणी ।भीष्मकस्य वचः श्रुत्वा दमघोषोऽब्रवीदिदम् ॥१९॥चतुर्भुजो मम सुतस्त्रिषु लोकेषु विश्रुतः ।तस्येयं दीयतां कन्या शिशुपालस्य भीष्मक ॥२०॥तस्य तद्वचनं श्रुत्वा दमघोषस्य भूमिप ।भीष्मकेन ततो दत्ता शिशुपालाय रुक्मिणी ॥२१॥प्रारब्धं मङ्गलं तत्र भीष्मकेण युधिष्ठिर ।दिक्षु देशान्तरेष्वेव ये वसन्ति स्वगोत्रजाः ॥२२॥निमन्त्रितास्तु ते सर्वे समाजग्मुर्यथाक्रमम् ।ततो यादववंशस्य तिलकौ बलकेशवौ ॥२३॥निमन्त्रितौ समायातौ कुण्डिनं भीष्मकस्य तु ।भीष्मकेण यथान्यायं पूजितौ तौ यदूत्तमौ ॥२४॥ततः प्रदोषसमये रुक्मिणी काममोहिनी ।सखीभिः सहिता याता पूर्बहिश्चाम्बिकार्चने ॥२५॥सापश्यत्तत्र देवेशं गोपवेषधरं हरिम् ।तं दृष्ट्वा मोहमापन्ना कामेन कलुषीकृता ॥२६॥केशवोऽपि च तां दृष्ट्वा संकर्षणमुवाच ह ।स्त्रीरत्नप्रवरं तात हर्तव्यमिति मे मतिः ॥२७॥केशवस्य वचः श्रुत्वा संकर्षण उवाच ह ।गच्छ कृष्ण महाबाहो स्त्रीरत्नं चाशु गृह्यताम् ॥२८॥अहं च तव मार्गेण ह्यागमिष्यामि पृष्ठतः ।दानवानां च सर्वेषां कुर्वंश्च कदनं महत् ॥२९॥संकर्षणमतं प्राप्य केशवः केशिसूदनः ।ययौ कन्यां गृहीत्वा तु रथमारोप्य सत्वरम् ॥३०॥निर्गतः सहसा राजन्वेगेनैवानिलो यथा ।हाहाकारस्तदा जातो भीष्मकस्य पुरे महान् ॥३१॥निर्गता दानवाः क्रुद्धा वेला इव महोदधेः ।गर्जन्तः सायुधाः सर्वे धावन्तो रथवर्त्मनि ॥३२॥बलदेवं ततः प्राप्ता रथमार्गानुगामिनम् ।तेषां युद्धं बलस्यासीत्सर्वलोकक्षयंकरम् ॥३३॥यथा तारामये पूर्वं सङ्ग्रामे लोकविश्रुते ।गदाहस्तो महाबाहुस्त्रैलोक्येऽप्रतिमो बलः ॥३४॥हलेनाकृष्य सहसा गदापातैरपातयत् ।अशक्यो दानवैर्हन्तुं बलभद्रो महाबलः ॥३५॥बभञ्ज दानवान्सर्वांस्तस्थौ गिरिरिवाचलः ।तं दृष्ट्वा च बलं क्रुद्धं दुर्धर्षं त्रिदशैरपि ॥३६॥भीष्मपुत्रो महातेजा रुक्मीनां महयशाः ।नराणामतिशूराणामक्षौहिण्या समन्वितः ॥३७॥बलभद्रमतिक्रम्य ततो युद्धे निराकरोत् ।तद्युद्धं वञ्चयित्वा तु रथमार्गेण सत्वरम् ॥३८॥केशवोऽपि तदा देवो रुक्मिण्या सहितो ययौ ।विन्ध्यं तु लङ्घयित्वाग्रे त्रैलोक्यगुरुरव्ययः ॥३९॥नर्मदातटमापेदे यत्र सिद्धः पुरा पुनः ।अजेयो येन संजातस्तीर्थस्यास्य प्रभावतः ॥४०॥एतस्मात्कारणात्तात योधनीपुरमुच्यते ।रुक्मोऽपि दानवेन्द्रोऽसौ प्राप्तः ॥४१॥प्रत्युवाचाच्युतं क्रुद्धस्तिष्ठ तिष्ठेति मा व्रज ।अद्य त्वां निशितैर्बाणैर्नेष्यामि यमसादनम् ॥४२॥एवं परस्परं वीरौ जगर्जतुरुभावपि ।तयोर्युद्धमभूद्घोरं तारकाग्निजसन्निभम् ॥४३॥चिक्षेप शरजालानि केशवं प्रति दानवः ।नानुचिन्त्य शरांस्तस्य केशवः केशिसूदनः ॥४४॥ततो विष्णुः स्वयं क्रुद्धश्चक्रं गृह्य सुदर्शनम् ।सम्प्रहरत्यमुं यावद्रुक्मिण्यात्र निवारितः ॥४५॥त्वां न जानाति देवेशं चतुर्बाहुं जनार्दनम् ।दर्शयस्व स्वकं रूपं दयां कृत्वा ममोपरि ॥४६॥एवमुक्तस्तु रुक्मिण्या दर्शयामास भारत ।देवा दृष्ट्वापि तद्रूपं स्तुवन्त्याकाशसंस्थिताः ।दिव्यं चक्षुस्तदा देवो ददौ रुक्मस्य भारत ॥४७॥रुक्म उवाच -यन्मया पापनिष्ठेन मन्दभाग्येन केशव ।सायकैराहतं वक्षस्तत्सर्वं क्षन्तुमर्हसि ॥४८॥पूर्वं दत्ता स्वयं देव जानकी जनकेन वै ।मया प्रदत्ता देवेश रुक्मिणी तव केशव ॥४९॥उद्वाहय यथान्यायं विधिदृष्टेन कर्मणा ।रुक्मस्य वचनं श्रुत्वा ततस्तुष्टो जगद्गुरुः ॥५०॥बभाषे देवदेवेशो रुक्मिणं भीष्मकात्मजम् ।गच्छ स्वकं पुरं मा भैः कुरु राज्यमकण्टकम् ॥५१॥केशवस्य वचः श्रुत्वा रुक्मो दानवपुंगवः ।तं प्रणम्य जगन्नाथं जगाम भवनं पितुः ॥५२॥गते रुक्मे तदा कृष्णः समामन्त्र्य द्विजोत्तमान् ।मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥५३॥वसिष्ठं च महाभागमित्येते सप्त मानसाः ।इत्येते ब्राह्मणाः सप्त पुराणे निश्चयं गताः ॥५४॥क्षमावन्तः प्रजावन्तो महर्षिभिरलंकृताः ।इत्येवं ब्रह्मपुत्राश्च सत्यवन्तो महामते ॥५५॥नर्मदातटमाश्रित्य निवसन्ति जितेन्द्रियाः ।तपःस्वाध्यायनिरता जपहोमपरायणाः ॥५६॥निमन्त्रितास्तु राजेन्द्र केशवेन महात्मना ।श्राद्धं कृत्वा यथान्यायं ब्रह्मोक्तविधिना ततः ॥५७॥हरिस्तान्पूजयामास सप्तब्रह्मर्षिपुंगवान् ।प्रददौ द्वादश ग्रामांस्तेभ्यस्तत्र जनार्दनः ॥५८॥यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।तावद्दानं मया दत्तं परिपन्थी न कश्चन ॥५९॥मद्दत्तं पालयिष्यन्ते ये नृपा गतकल्मषाः ।तेभ्यः स्वस्ति करिष्यामि दास्यामि परमां गतिम् ॥६०॥यावद्धि यान्ति लोकेषु महाभूतानि पञ्च च ।तावत्ते दिवि मोदन्ते मद्दत्तपरिपालकाः ॥६१॥यस्तु लोपयते मूढो दत्तं वः पृथिवीतले ।नरके तस्य वासः स्याद्यावदाभूतसम्प्लवम् ॥६२॥स्वदत्ता परदत्ता वा पालनीया वसुंधरा ।यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥६३॥स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ।स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥६४॥अन्यायेन हृता भूमिरन्यायेन च हारिता ।हर्ता हारयिता चैव विष्ठायां जायते कृमिः ॥६५॥षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ।आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥६६॥यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि ।निर्माल्यरूपप्रतिमानि तानि को नाम साधुः पुनराददाति ॥६७॥एवं तान्पूजयित्वा तु सम्यङ्न्यायेन पाण्डव ।रुक्मिण्या विधिवत्पाणिं जग्राह मधुसूदनः ॥६८॥मुशली च ततः सर्वाञ्जित्वा दानवपुंगवान् ।स्वस्थानमगमत्तत्र कृत्वा कार्यं सुशोभनम् ॥६९॥प्रयातौ द्वारवत्यां तौ कृष्णसंकर्षणावुभौ ।गच्छमानं तु तं दृष्ट्वा केशवं क्लेशनाशनम् ॥७०॥ब्राह्मणाः सत्यवन्तश्च निर्गताः शंसितव्रताः ।आगच्छमानांस्तौ वीक्ष्य रथमार्गेण ब्राह्मणान् ॥७१॥मुहूर्तं तत्र विश्रम्य केशवो वाक्यमब्रवीत् ।किमागमनकार्यं वो ब्रूत सर्वं द्विजोत्तमाः ॥७२॥कुर्वाणाः स्वीयकर्माणि मम कृत्यं तु तिष्ठते ।देवस्य वचनं श्रुत्वा मुनयो वाक्यमब्रुवन् ॥७३॥कल्पकोटिसहस्रेण सत्यभावात्तु वन्दितः ।दुष्प्राप्योऽसि मनुष्याणां प्राप्तः किं त्यजसे हि नः ॥७४॥ब्राह्मणानां वचः श्रुत्वा भगवानिदमब्रवीत् ।मथुरायां द्वारवत्यां योधनीपुर एव च ॥७५॥त्रिकालमागमिष्यामि सत्यं सत्यं पुनः पुनः ।एवं ते ब्राह्मणाः श्रुत्वा योधनीपुरमागताः ॥७६॥अवतीर्णस्त्रिभागेन प्रादुर्भावे तु माथुरे ।एतत्ते कथितं सर्वं तीर्थस्योत्पत्तिकारणम् ॥७७॥भूतं भव्यं भविष्यच्च वर्तमानं तथापरम् ।यं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥७८॥तत्र तीर्थे तु यः स्नात्वा पूजयेद्बलकेशवौ ।तेन देवो जगद्धाता पूजितस्त्रिगुणात्मवान् ॥७९॥उपवासी नरो भूत्वा यस्तु कुर्यात्प्रदक्षिणम् ।मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥८०॥तत्र तीर्थे तु ये वृक्षास्तान्पश्यन्त्यपि ये नराः ।तेऽपि पापैः प्रमुच्यन्ते भ्रूणहत्यासमैरपि ॥८१॥प्रातरुत्थाय ये केचित्पश्यन्ति बलकेशवौ ।तेन ते सदृशाः स्युर्वै देवदेवेन चक्रिणा ॥८२॥ते पूज्यास्ते नमस्कार्यास्तेषां जन्म सुजीवितम् ।ये नमन्ति जगन्नाथं देवं नारायणं हरिम् ॥८३॥तत्र तीर्थे तु यद्दानं स्नानं देवार्चनं नृप ।तत्सर्वमक्षयं तस्य इत्येवं शङ्करोऽब्रवीत् ॥८४॥प्रविश्याग्नौ मृतानां च यत्फलं समुदाहृतम् ।तच्छृणुष्व नृपश्रेष्ठ प्रोच्यमानमशेषतः ॥८५॥विमानेनार्कवर्णेन किंकिणीजालमालिना ।आग्नेये भवते तत्र मोदते कालमीप्सितम् ॥८६॥जले चैवा मृतानां तु योधनीपुरमध्यतः ।वसन्ति वारुणे लोके यावदाभूतसम्प्लवम् ॥८७॥अनाशके मृतानां तु तत्र तीर्थे नराधिप ।अनिवर्तिका गतिर्नृणां नात्र कार्या विचारणा ॥८८॥तत्र तीर्थे तु यो दद्यात्कपिलादानमुत्तमम् ।विधानेन तु संयुक्तं शृणु तस्यापि यत्फलम् ॥८९॥यावन्ति तस्या रोमाणि तत्प्रसूतेश्च भारत ।तावन्ति दिवि मोदन्ते सर्वकामैः सुपूजिताः ॥९०॥यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः ।स्वर्गाच्च्युतश्चापि ततस्त्रिलोक्यां कुले समुत्पत्स्यति गोमतां सः ॥९१॥तत्र तीर्थे तु यो दद्याद्रूप्यं काञ्चनमेव वा ।काञ्चनेन विमानेन विष्णुलोके महीयते ॥९२॥तस्मिंस्तीर्थे तु यो दद्यात्पादुके वस्त्रमेव च ।दानस्यास्य प्रभावेन लभते स्वर्गमीप्सितम् ॥९३॥ऋग्यजुःसामवेदानां पठनाद्यत्फलं भवेत् ।तत्र तीर्थे तु राजेन्द्र गायत्र्या तत्फलं लभेत् ॥९४॥प्रयागे यद्भवेत्पुण्यं गयायां च त्रिपुष्करे ।कुरुक्षेत्रे तु राजेन्द्र राहुग्रस्ते दिवाकरे ॥९५॥सोमेश्वरे च यत्पुण्यं सोमस्य ग्रहणे तथा ।तत्फलं लभते तत्र स्नानमात्रान्न संशयः ॥९६॥द्वादश्यां तु नरः स्नात्वा नमस्कृत्य जनार्दनम् ।उद्धृताः पितरस्तेन अवाप्तं जन्मनः फलम् ॥९७॥संक्रान्तौ च व्यतीपाते द्वादश्यां च विशेषतः ।ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ॥९८॥पृथिव्यां यानि तीर्थानि ह्यासमुद्राणि पाण्डव ।तानि सर्वाणि तत्रैव द्वादश्यां पाण्डुनन्दन ॥९९॥क्षयं यान्ति च दानानि यज्ञहोमबलिक्रियाः ।न क्षीयते महाराज तत्र तीर्थे तु यत्कृतम् ॥१००॥यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् ।कथितं ते मया सर्वं पृथग्भावेन भारत ॥१०१॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रुक्मिणीतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 15, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP