संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १४६ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १४६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४६ Translation - भाषांतर मार्कण्डेय उवाच -अस्माहकं ततो गच्छेत्पितृतीर्थमनुत्तमम् ।प्रेतत्वाद्यत्र मुच्यन्ते पिण्डेनैकेन पूर्वजाः ॥१॥युधिष्ठिर उवाच -अस्माहकस्य माहात्म्यं कथयस्व ममानघ ।स्नानदानेन यत्पुण्यं तथा पिण्डोदकेन च ॥२॥श्रीमार्कण्डेय उवाच -पुरा कल्पे नृपश्रेष्ठ ऋषिदेवसमागमे ।प्रश्नः पृष्टो मया तात यथा त्वमनुपृच्छसि ॥३॥एकत्र सागराः सप्त सप्रयागाः सपुष्कराः ।नास्य साम्यं लभन्ते ते नात्र कार्या विचारणा ॥४॥सोमनाथं तु विख्यातं यत्सोमेन प्रतिष्ठितम् ।तत्र सोमग्रहे पुण्यं तत्पुण्यं लभते नरः ॥५॥मासान्ते पितरो नृणां वीक्षन्ते सन्ततिं स्वकाम् ।कश्चिदस्मत्कुलेऽस्माकं पिण्डमत्र प्रदास्यति ॥६॥प्रपितामहास्तथादित्याः श्रुतिरेषा सनातनी ।एवं ब्रुवन्ति देवाश्च ऋषयः सतपोधनाः ॥७॥सकृत्पिण्डोदकेनैव शृणु पार्थिव यत्फलम् ।द्वादशाब्दानि राजेन्द्र योगं भुक्त्वा सुशोभनम् ॥८॥युगे युगे महाराज अस्माहके पितामहाः ।सर्वदा ह्यवलोकन्त आगच्छन्तं स्वगोत्रजम् ॥९॥भविष्यति किमस्माकममावास्याप्यमाहके ।स्नानं दानं च ये कुर्युः पितॄणां तिलतर्पणम् ॥१०॥ते सर्वपापनिर्मुक्ताः सर्वान्कामांल्लभति वै ।जलमध्येऽत्र भूपाल अग्नितीर्थं च तिष्ठति ॥११॥दर्शनात्तस्य तीर्थस्य पापराशिर्विलीयते ।स्नानमात्रेण राजेन्द्र ब्रह्महत्यां व्यपोहति ॥१२॥शुक्लाम्बरधरो नित्यं नियतः स जितेन्द्रियः ।एककालं तु भुञ्जानो मासं तीर्थस्य सन्निधौ ॥१३॥सुवर्णालंकृतानां तु कन्यानां शतदानजम् ।फलमाप्नोति सम्पूर्णं पितृलोके महीयते ॥१४॥पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ।धनधान्यसमायुक्तो दाता भवति धार्मिकः ॥१५॥उपवासी शुचिर्भूत्वा ब्रह्मलोकमवाप्नुयात् ।अस्माहकं समासाद्य यस्तु प्राणान् परित्यजेत् ॥१६॥कोटिवर्षसहस्राणि रुद्रलोके महीयते ।ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥१७॥सुवर्णमणिमुक्ताढ्ये कुले जायेत रूपवान् ।कृत्वाभिषेकविधिना हयमेधफलं लभेत् ॥१८॥धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ।चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥१९॥तत्फलं लभते नूनं तत्र तीर्थेऽभिषेचनात् ।तीर्थानां परमं तीर्थं निर्मितं शम्भुना पुरा ॥२०॥हृदयेशः स्वयं विष्णुर्जपेद्देवं महेश्वरम् ।गन्धर्वाप्सरसश्चैव मरुतो मारुतास्तथा ॥२१॥विश्वेदेवाश्च पितरः सचन्द्राः सदिवाकराः ।मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥२२॥प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च ।च्यवनो गालवश्चैव वामदेवो महामुनिः ॥२३॥वालखिल्याश्च गन्धारास्तृणबिन्दुश्च जाजलिः ।उद्दालकश्चर्ष्यशृङ्गो वसिष्ठश्च सनन्दनः ॥२४॥शुक्रश्चैव भरद्वाजो वात्स्यो वात्स्यायनस्तथा ।अगस्तिर्मित्रावरुणौ विश्वामित्रो मुनीश्वरः ॥२५॥गौतमश्च पुलस्त्यश्च पौलस्त्यः पुलहः क्रतुः ।सनातनस्तु कपिलो वाह्निः पञ्चशिखस्तथा ॥२६॥अन्येऽपि बहवस्तत्र मुनयः शंसितव्रताः ।क्रीडन्ति देवताः सर्व ऋषयः सतपोधनाः ॥२७॥मनुष्याश्चैव योगीन्द्राः पितरः सपितामहाः ।अस्माहकेऽत्र तिष्ठन्ति सर्व एव न संशयः ॥२८॥पितरः पितामहाश्चैव तथैव प्रपितामहाः ।येषां दत्तमुपस्थायि सुकृतं वापि दुष्कृतम् ॥२९॥अक्षयं तत्र तत्सर्वं यत्कृतं योधनीपुरे ।मातरं पितरं त्यक्त्वा सर्वबन्धुसुहृज्जनान् ॥३०॥धनं धान्यं प्रियान्पुत्रांस्तथा देहं नृपोत्तम ।गच्छते वायुभूतस्तु शुभाशुभसमन्वितः ॥३१॥अदृश्यः सर्वभूतानां परमात्मा महत्तरः ।शुभाशुभगतिं प्राप्तः कर्मणा स्वेन पार्थिव ॥३२॥युधिष्ठिर उवाच -शुभाशुभं न बन्धूनां जायते केन हेतुना ।एकः प्रसूयते जन्तुरेक एव प्रलीयते ॥३३॥एको हि भुङ्क्ते सुकृतमेक एव हि दुष्कृतम् ॥३४॥मार्कण्डेय उवाच -एष त्वयोक्तो नृपते महाप्रश्नः स्मृतो मया ॥३५॥पितामहमुखोद्गीतं श्रुतं ते कथयाम्यहम् ।यन्मे पितामहात्पूर्वं विज्ञातमृषिसंसदि ॥३६॥न माता न पिता बन्धुः कस्यचिन्न सुहृत्क्वचित् ।कस्य न ज्ञायते रूपं वायुभूतस्य देहिनः ॥३७॥यद्येवं न भवेत्तात लोकस्य तु नरेश्वर ।अमर्यादं भवेन्नूनं विनश्यति चराचरम् ॥३८॥एवं ज्ञात्वा पूरा राजन्समस्तैर्लोककर्तृभिः ।मर्यादा स्थापिता लोके यथा धर्मो न नश्यति ॥३९॥धर्मे नष्टे मनुष्याणामधर्मोऽभिभवेत्पुनः ।ततः स्वधर्मचलनान्नरके गमनं ध्रुवम् ॥४०॥लोको निरङ्कुशः सर्वो मर्यादालङ्घने रतः ।मर्यादा स्थापिता तेन शास्त्रं वीक्ष्य महर्षिभिः ॥४१॥स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।पिण्डोदकप्रदानं च तथैवातिथिपूजनम् ॥४२॥पितरः पितामहाश्चैव तथैव प्रपितामहाः ।त्रयो देवाः स्मृतास्तात ब्रह्मविष्णुमहेश्वराः ॥४३॥पूजितैः पूजिताः सर्वे तथा मातामहास्त्रयः ।तस्मात्सर्वप्रयत्नेन श्रुतिस्मृत्यर्थनोदितान् ॥४४॥धर्मं समाचरन्नित्यं पापांशेन न लिप्यते ।श्रुतिस्मृत्युदितं धर्मं मनसापि न लङ्घयेत् ॥४५॥इह लोके परे चैव यदीच्छेच्छ्रेय आत्मनः ।पितापुत्रौ सदाप्येकौ बिम्बाद्बिम्बमिवोद्धृतौ ॥४६॥विभक्तौ वाविभक्तौ वा श्रुतिस्मृत्यर्थतस्तथा ।उद्धरेदात्मनात्मानमात्मानमवसादयेत् ॥४७॥पिण्डोदकप्रदानाभ्यामृते पार्थ न संशयः ।एवं ज्ञात्वा प्रयत्नेन पिण्डोदकप्रदो भवेत् ॥४८॥आयुर्धर्मो यशस्तेजः सन्ततिश्चैव वर्धते ।पृथिव्यां सागरान्तायां पितृक्षेत्राणि यानि च ॥४९॥तानि ते सम्प्रवक्ष्यामि येषु दत्तं महाफलम् ।गयायां पुष्करे ज्येष्ठे प्रयागे नैमिषे तथा ॥५०॥संनिहत्यां कुरुक्षेत्रे प्रभासे कुरुनन्दन ।पिण्डोदकप्रदानेन यत्फलं कथितं बुधैः ॥५१॥अस्माहके तदाप्नोति नर्मदायां न संशयः ।तत्र ब्रह्मा मुरारिश्च रुद्रश्च उमया सह ॥५२॥इन्द्राद्या देवताः सर्वे पितरो मुनयस्तथा ।सागराः सरितश्चैव पर्वताश्च बलाहकाः ॥५३॥तिष्ठन्ति पितरः सर्वे सर्वतीर्थाधिकं ततः ।स्थिता ब्रह्मशिला तत्र गजकुम्भनिभा नृप ॥५४॥कलौ न दृश्या भवति प्रधानं यद्गयाशिरः ।वैशाखे मासि सम्प्राप्तेऽमावास्यां नृपोत्तम ॥५५॥व्याप्य सा तिष्ठते तीर्थं गजकुम्भनिभा शिला ।तच्च गव्यूतिमात्रं हि तीर्थं ततः प्रवक्षते ॥५६॥तस्मिन्दिने तत्र गत्वा यस्तु श्राद्धप्रदो भवेत् ।पितॄणामक्षया तृप्तिर्जायते शतवार्षिकी ॥५७॥अन्यस्यामप्यमावास्यां यः स्नात्वा विजितेन्द्रियः ।करोति मनुजः श्राद्धं विधिवन्मन्त्रसंयुतम् ॥५८॥तस्य पुण्यफलं यत्स्यात्तच्छृणुष्व नराधिप ।अग्निष्टोमाश्वमेधाभ्यां वाजपेयस्य यत्फलम् ॥५९॥तत्फलं समवाप्नोति यथा मे शङ्करोऽब्रवीत् ।रौरवादिषु सर्वेषु नरकेषु व्यवस्थिताः ॥६०॥पिता पितामहाद्याश्च पितृके मातृके तथा ।पिण्डोदकेन चैकेन तर्पणेन विशेषतः ॥६१॥क्रीडन्ति पितृलोकस्था यावदाभूतसम्प्लवम् ।ये कर्मस्था विकर्मस्था ये जाताः प्रेतकल्मषाः ॥६२॥पिण्डेनैकेन मुच्यन्ते तेऽपि तत्र न संशयः ।अस्माहके शिला दिव्या तिष्ठते गजसन्निभा ॥६३॥ब्रह्मणा निर्मिता पूर्वं सर्वपापक्षयंकरी ।उपर्यस्या यथान्यायं पितॄनुद्दिश्य भारत ॥६४॥दक्षिणाग्रेषु दर्भेषु दद्यात्पिण्डान्विचक्षणः ।भूमौ चान्नेन सिद्धेन श्राद्धं कृत्वा यथाविधि ॥६५॥श्राद्धिभ्यो वस्त्रयुग्मानि छत्रोपानत्कमण्डलु ।दक्षिणा विविधा देया पितॄनुद्दिश्य भारत ॥६६॥यो ददाति द्विजश्रेष्ठ तस्य पुण्यफलं शृणु ।तस्य ते द्वादशाब्दानि तृप्तिं यान्ति न संशयः ॥६७॥अस्माहके महाराज पितरश्च पितामहाः ।वायुभूता निरीक्षन्ते आगच्छन्तं स्वगोत्रजम् ॥६८॥अत्र तीर्थे सुतोऽभ्येत्य स्नात्वा तोयं प्रदास्यति ।श्राद्धं वा पिण्डदानं वा तेन यास्याम सद्गतिम् ॥६९॥स्नाने कृते तु ये केचिज्जायन्ते वस्त्रविप्लुषः ।प्रीणयेन्नरकस्थांस्तु तैः पितॄन्नात्र संशयः ॥७०॥केशोदबिन्दवस्तस्य ये चान्ये लेपभाजिनः ।तृप्यन्त्यनग्निनसंस्कारा यं मृताः स्युः स्वगोत्रजाः ॥७१॥तत्र तीर्थे तु ये केचिच्छ्राद्धं कृत्वा विधानतः ।नरकादुद्धरन्त्याशु जपन्तः पितृसंहिताम् ॥७२॥वनस्पतिगते सोमे यदा सोमदिनं भवेत् ।अक्षयाल्लभते लोकान्पिण्डेनैकेन मानवः ॥७३॥अक्षयं तत्र वै सर्वं जायते नात्र संशयः ।नरकादुद्धरन्त्याशु जपन्ते पितृसंहिताम् ॥७४॥तस्मिंस्तीर्थे त्वमावास्यां पितॄनुद्दिश्य भारत ।नीलं सर्वाङ्गसम्पूर्णं योऽभिषिच्य समुत्सृजेत् ॥७५॥तस्य पुण्यफलं वक्तुं न तु वाचस्पतिः क्षमः ।अस्माहके वृषोत्सर्गाद्यत्पुण्यं समवाप्यते ॥७६॥तव शुश्रूषणात्सर्वं तत्प्रवक्ष्यामि भारत ।रौरवादिषु ये किंचित्पच्यन्ते तस्य पूर्वजाः ॥७७॥वृषोत्सर्गेण तान्सर्वांस्तारयेदेकविंशतिम् ।लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥७८॥पिङ्गः खुरविषाणाभ्यां स नीलो वृष उच्यते ।यस्तु सर्वाङ्गपिङ्गश्च श्वेतः पुच्छखुरेषु च ॥७९॥स पिङ्गो वृष इत्याहुः पितॄणां प्रीतिवर्धनः ।पारावतसवर्णश्च ललाटे तिलको भवेत् ॥८०॥तं वृषं बभ्रुमित्याहुः पूर्णं सर्वाङ्गशोभनम् ।सर्वाङ्गेष्वेकवर्णो यः पिङ्गः पुच्छखुरेषु च ॥८१॥खुरपिङ्गं तमित्याहुः पितॄणां सद्गतिप्रदम् ।नीलं सर्वशरीरेण स्वारक्तनयनं दृढम् ॥८२॥तमेव नीलमित्याहुर्नीलः पञ्चविधः स्मृतः ।यस्तु वैश्यगृहे जातः स वै नीलो विशिष्यते ॥८३॥न वाहयेद्गृहे जातं वत्सकं तु कदाचन ।तेनैव च वृषोत्सर्गे पितॄणामनृणो भवेत् ॥८४॥जातं तु स्वगृहे वत्सं द्विजन्मा यस्तु वाहयेत् ।पतन्ति पितरस्तस्य ब्रह्मकोकगता अपि ॥८५॥यथायथा हि पिबति पीत्वा धूनाति मस्तकम् ।पिबन्पितॄन् प्रीणयति नरकादुद्धरेद्धुनन् ॥८६॥यथा पुच्छाभिघातेन स्कन्धं गच्छन्ति बिन्दवः ।नरकादुद्धरन्त्याशु पतितान् गोत्रिणस्तथा ॥८७॥गर्जन्प्रावृषि काले तु विषाणाभ्यां भुवं लिखन् ।खुरेभ्यो या मृदुद्भूता तया संप्रीणयेदृषीन् ॥८८॥पिबन्पितॄन् प्रीणयते खादनोल्लेखने सुरान् ।गर्जन्नृषिमनुष्यांश्च धर्मरूपो हि धर्मज ॥८९॥भूतैर्वापि पिशाचैर्वा चातुर्थिकज्वरेण वा ।गृहीतोऽस्माहकं गच्छेत्सर्वेषामाधिनाशनम् ॥९०॥स्नात्वा तु विमले तोये दर्भग्रन्थिं निबन्धयेत् ।मस्तके बाहुमूले वा नाभ्यां वा गलकेऽपि वा ॥९१॥गत्वा देवसमीपं च प्रादक्षिण्येन केशवम् ।ततः समुच्चरन्मन्त्रं गायत्र्या वाथ वैष्णवम् ॥९२॥नारायणं शरण्येशं सर्वदेवनमस्कृतम् ।नमो यज्ञाङ्गसम्भूत सर्वव्यापिन्नमोऽस्तु ते ॥९३॥नमो नमस्ते देवेश पद्मगर्भ सनातन ।दामोदर जयानन्त रक्ष मां शरणागतम् ॥९४॥त्वं कर्ता त्वं च हर्ता च जगत्यस्मिंश्चराचरे ।त्वं पालयसि भूतानि भुवनं त्वं बिभर्षि च ॥९५॥प्रसीद देवदेवेश सुप्तमङ्गं प्रबोधय ।त्वद्ध्याननिरतो नित्यं त्वद्भक्तिपरमो हरे ॥९६॥इति स्तुतो मया देव प्रसादं कुरु मेऽच्युत ।मां रक्ष रक्ष पापेभ्यस्त्रायस्व शरणागतम् ॥९७॥एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् ।पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥९८॥वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि ।पिण्डनिर्वपणं कृत्वा वाचयेत्स्वस्तिकं ततः ॥९९॥एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् ।पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥१००॥वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि ।एवं तान्वाचयित्वा तु ततो विप्रान्विसर्जयेत् ॥१०१॥यत्तत्रोच्चरितं किंचित्तद्विप्रेभ्यो निवेदयेत् ।तत्र तीर्थे नरः स्नात्वा नारी वा भक्तितत्परा ।शक्तितो दक्षिणां दद्यात्कृत्वा श्राद्धं यथाविधि ॥१०२॥तत्र तीर्थे नरो यावत्स्नापयेद्विधिपूर्वकम् ।क्षीरेण मधुना वापि दध्ना वा शीतवारिणा ॥१०३॥तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ।अयने विषुवे चैव युगादौ सूर्यसंक्रमे ॥१०४॥पुष्पैः सम्पूज्य देवेशं नैवेद्यं यः प्रदापयेत् ।सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥१०५॥तत्र तीर्थे तु यो राजन् सूर्यग्रहणमाचरेत् ।सूर्यतेजोनिभैर्यानैर्विष्णुलोके महीयते ॥१०६॥तत्र तीर्थे तु यः श्राद्धं पितृभ्यः सम्प्रयच्छति ।सत्पुत्रेण च तेनैव सम्प्राप्तं जन्मनः फलम् ॥१०७॥इति श्रुत्वा ततो देवाः सर्वे शक्रपुरोगमाः ।ब्रह्मविष्णुमहेशाश्च स्थापयांचक्रुरीश्वरम् ॥१०८॥सर्वरोगोपशमनं सर्वपातकनाशनम् ।यस्तु संवत्सरं पूर्णममावास्यां तु भावितः ॥१०९॥पितृभ्यः पिण्डदानं च कुर्यादस्माहके नृप ।त्रिपुष्करे गयायां च प्रभासे नैमिषे तथा ॥११०॥यत्पुण्यं श्राद्धकर्तॄणां तदिहैव भवेद्ध्रुवम् ।तिलोदकं कुशैर्मिश्रं यो दद्याद्दक्षिणामुखः ॥१११॥मन्वादौ च युगादौ च व्यतीपाते दिनक्षये ।यो दद्यात्पितृमातृभ्यः सोऽश्वमेधफलं लभेत् ॥११२॥अस्माहके नरो यस्तु स्नात्वा सम्पूजयेद्धरिम् ।ब्रह्माणं शङ्करं भक्त्या कुर्याज्जागरणक्रियाम् ॥११३॥सर्वपापविनिर्मुक्तः शक्रातिथ्यमवाप्नुयात् ।तत्र तीर्थे नरः स्नात्वा यः पश्यति जनार्दनम् ॥११४॥विशेषविधिनाभ्यर्च्य प्रणम्य च पुनःपुनः ।सपुत्रेण च तेनैव पितॄणां विहिता गतिः ॥११५॥एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।सत्कार्यकारणोपेताः सुसूक्ष्माः सुमहाफलाः ॥११६॥एतत्ते कथितं राजन्महापातकनाशनम् ।अस्माहकस्य माहात्म्यं किमन्यत्परिपृच्छसि ॥११७॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अस्माहकतीर्थमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 15, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP