संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ८२

रेवा खण्डम् - अध्याय ८२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल वह्नितीर्थमनुत्तमम् ।
यत्र सिद्धो महातेजास्तपः कृत्वा हुताशनः ॥१॥
सर्वभक्ष्यः कृतो योऽसौ दण्डके मुनिना पुरा ।
नर्मदातटमाश्रित्य पूतो जातो हुताशनः ॥२॥
तत्र तीर्थे तु यः स्नात्वा पूजयित्वा महेश्वरम् ।
अग्निप्रवेशं कुरुते स गच्छेदग्निसाम्यताम् ॥३॥
भक्त्या स्नात्वा तु यस्तत्र तर्पयेत्पितृदेवताः ।
अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यसंशयम् ॥४॥
तस्यैवानन्तरं राजन्कौबेरं तीर्थमुत्तमम् ।
कुबेरो यत्र संसिद्धो यक्षाणामधिपः पुरा ॥५॥
तत्र तीर्थे नरः स्नात्वा समभ्यर्च्य जगद्गुरुम् ।
उमया सहितं भक्त्या सर्वपापैः प्रमुच्यते ॥६॥
तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय कांचनम् ।
नाभिमात्रे जले तिष्ठन्स लभेतार्बुदं फलम् ॥७॥
दधिस्कन्दे मधुस्कन्दे नन्दीशे वरुणालये ।
आग्नेये यत्फलं तात स्नात्वा तत्फलमाप्नुयात् ॥८॥
ते वन्द्या मानुषे लोके धन्याः पूर्णमनोरथाः ।
यैस्तु दृष्टं महापुण्यं नर्मदातीर्थपञ्चकम् ॥९॥
ते यान्ति भास्करे लोके परमे दुःखनाशने ।
भास्करादैश्वरे लोके चैश्वरादनिवर्तके ॥१०॥
नीयते स परे लोके यावदिन्द्राश्चतुर्दश ।
ततः स्वर्गाच्च्युतो मर्त्यो राजा भवति धार्मिकः ॥११॥
सर्वरोगविनिर्मुक्तो भुनक्ति सचराचरम् ।
विष्णुश्च देवता येषां नर्मदातीर्थसेविनाम् ॥१२॥
अखण्डितप्रतापास्ते जायन्ते नात्र संशयः ।
गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ॥१३॥
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ।
रेवातीरे वसेन्नित्यं रेवातोयं सदा पिबेत् ॥१४॥
स स्नातः सर्वतीर्थेषु सोमपानं दिने दिने ।
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।
कल्पान्ते संक्षयं यान्ति न मृता तेन नर्मदा ॥१५॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दादिपञ्चतीर्थमाहात्म्यवर्णनं नाम द्व्यशीतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP